________________
*
९१. महादेवीकथानकम् ।
' विनीताख्यमहादेशे विद्यते परमा पुरी । अयोध्या जनसंकीर्णा सूरदोऽस्यां महीपतिः ॥ १ ॥ शतानि पञ्च भार्याणां विद्यन्तेऽस्य महीपतेः । रूपयौवनयुक्तानां विद्युत्पुञ्जसमत्विषाम् ॥ २ ॥ तन्मध्येऽस्य महादेवी रूपयौवनगर्विता । चन्द्रलेखेव सत्कान्तिः सती नामाभवत् प्रिया ॥ ३ ॥ तंद्र राजकार्याणि हित्वा सर्वाण्यपि स्फुटम् । सर्वकालं स भूपालस्तिष्ठति प्रीतमानसः ॥ ४ ॥ अन्यदा मुनिसामीप्ये श्रुत्वा धर्ममनुत्तरम् । प्रतीहारं जगादेति भूपतिः पुरतः स्थितम् ॥ ५ ॥ " जायते राजकार्येण तथा साधुसमागमः । मम विज्ञापनं कुर्यान्नान्यथा जातुचिद् ध्रुवम् ॥ ६ ॥ एवं निगद्य तं राजा महादेव्या तया समम् । मानसेष्टान् महायोगान् भुञ्जानो व्यवतिष्ठते ॥ ७ ॥ अन्यदा दमदत्तोऽपि तथा धर्मरुचिर्मुनिः । गत्वा मन्थरगामिन्या विवेश नृपमन्दिरम् ॥ ८
साधुयुगं विष्टं भिक्षार्थं नृपमन्दिरम् । प्रतीहारो जगामाशु तदानीं नृपसन्निधिम् ॥ ९ ॥ ततः सतीमहादेव्या विधाय मुखमण्डनम् । कुर्वन् ललाटपट्टे च रोचनातिलकं नृपः ॥ १० ॥ पूर्वादिष्टेन तेनापि प्रतीहारेण साधुना । भूयोभूयः प्रयत्नेन तदा विज्ञापितोऽधिकः ॥ ११ ॥ * प्रतिहारोदितं श्रुत्वा चुकोपास्मै महीपतिः । महादेवीभयेनापि मौनमादाय तस्थिवान् ॥ १२ ॥ मुहूर्तकमास्थाय प्राहेमं वसुधाधिपः । रे प्रतीहार वाचाट साधवः किं समागताः ॥ १३ ॥ यन विज्ञापितो मूढ नितान्तं मम सांप्रतम् । मण्डनं कुर्वतः सत्या महादेव्याः प्रयत्नतः ॥ १४ ॥ भूपालवचनं श्रुत्वा प्रतीहारो जगावमुम् । महाराजाद्य भिक्षायै त्वगृहं प्रापतुर्मुनी ॥ १५ ॥ 20 तपोधनावनागारौ धर्मविन्यस्तमानसौ । सूपकारेण राजेन्द्र तिष्ठतस्त्वगृहे धृतौ ॥ १६ ॥ प्रतीहारवचः श्रुत्वा समुत्थाय नरेश्वरः । जगौ सतीं महादेवीं मण्डनासक्तमानसाम् ॥ १७ ॥ उत्कण्ठतां परां भद्रे मा गमिष्यसि वल्लभे । यावता शोषमायाति रोचनातिलकं तव ॥ १८ ॥ तावन्नूनमहं मुग्धे भिक्षादानं प्रदाय च । साधुभ्यस्तूर्णमायामि तवाभ्याशं विवेकिनि ॥ १९ ॥ एवमुक्त्वा प्रियां राजा भक्तिष्टतनूरुहः । जगाम साधुसामीप्यं तद्दानोद्यतमानसः ॥ २० ॥ प्रतिग्रहः शुचिस्थानं चरणोदकपूजनम् । नतिमानसवाक्कायाहारशुद्धिः क्रमादिति ॥ २१ ॥ इमां दानविधिं कृत्वा साधुभ्यो भक्तितत्परः । ददावाहारदानं स धर्मविन्यस्तमानसः ॥ २२ ॥ दत्त्वा दानं सुसाधुभ्यो यावद्रजति सादरः । सामीप्यं स महादेव्यास्तगुणा कृष्टचेतनः ॥ २३ ॥ तावत्सतीमहादेव्या कुर्वती' साधुनिन्दनम् । सद्यो विनाशमायातं शरीरं कुष्ठतोऽमुतः ॥ २४ ॥ महादेवनुं दृष्ट्वा कुष्ठस्तामनित्यताम् । रूपयौवनलक्ष्मीनां सांसारिक सुखस्य च ॥ २५ ॥ महावैराग्यमासाद्य सामन्तैर्बहुभिः सह । दीक्षां जग्राह भूपालो वीरसेनान्तिके मुदा ॥ २६ ॥ ततः सती महादेवी कुष्ठव्याप्तशरीरिका । बभूव दीर्घसंसारा मुनिनिन्दाविधानतः ॥ २७ ॥
॥ इति श्रीसूरदत्त भूपति सतीमहादेवी कथानकमिदम् ॥ ९१ ॥
*
15
1
२१६
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ९०. ६
अनेन विधिना तत्र शोधयित्वा स्वमादरात् । गुरुं सुमतिमानम्य जिनदासी तपोऽग्रहीत् ॥ ६ ॥ वातिशयमीक्षं जिनदास्याः सुचेतसः । सार्थमध्ये नरा धीरा जिनधर्मं प्रपेदिरे ॥ ७ ॥ ॥ इति श्रीजिनदत्त भार्याजिनदासीखशुद्धिकरणकथानकमिदम् ॥ ९० ॥
25
30
1 ज 'जिनदासीशुद्धिकथानकमिदम्. 2 पफ त्रिकलम्, जत्रिकलमिदम्. 3 [ अधिपः ]. 4 पफ युग्मम्, ज युगलमिदम् 5 पफ युग्मम् ज युगलमिदम्. 6 पफ युग्मम् ज युगलमिदम्. 7 पफ चतुष्कुलकम्, ज चतुष्कुलकमिदम्. 8 पफ युग्मम्, ज युगलमिदम्. 9 [ 'देव्याः कुर्वत्याः ]. 10 पफ युग्मम्, ज युगलम् .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org