________________
-९०, ५ ]
जिनदासीकथानकम्
निशम्य जनतो वाक्यं निर्गतं वदनादिदम् । अमुना कारणेनायें रुदन्ती त्वां समागता ॥ रोहिणी तद्वचः श्रुत्वा पुरमन्विष्य सर्वतः । सत्यं जनोऽपि वक्तीदं जातेयं वीतसंशया ॥ वसुदेवोऽपि विज्ञाय तं वृत्तान्तमशेषतः । आहूय रोहिणीमस्याः शपथं प्रददाविमम् ॥ यमुनाख्यनदीमध्ये महाप्लवसमन्विते । कायोत्सर्गेण तिष्ठ त्वं प्राप्येमां सरितं द्रुतम् ॥ निशम्य पतिसद्वाक्यं रोहिणी प्रीतमानसा । यमुनाख्यनदीवाहे तस्थौ प्रतिमया तदा ॥ १७ ॥ प्रतिमायोगमासाद्य तत्प्रवाहे महाजवे । स्थितायामत्र रोहिण्यां बभूवैषा स्थिरा नदी ॥ १८ ॥ स्तम्भिते तज्जले जाते पुरे वक्ति जनोऽखिलः । शुद्धाऽसि सांप्रतं देवि पाहीदं नगरं सति ॥ १९ ॥ लोकवाक्यं समाकर्ण्य गदिता यमुनाऽनया । पूरयन्त्या दिशां चक्रं निनदेन नभोऽपि गाम् ॥ २० ॥ यहं शुद्धिमायाता दक्षिणस्या दिशः पुरः । ततो व्रजोत्तरामाशां यमुने मम वाक्यतः ॥ २१ ॥ सत्यधैर्यसमेतायाः रोहिण्याः स्थिरचेतसः । कलाविज्ञानयुक्तायाः शुश्राव वचनं धुनी ॥ वेष्टयित्वा पुरं सर्वं उत्तरस्यां दिशि स्थिता । अद्यापि रोहिणीवाक्याद्यमुना वहति स्फुटम् ॥ प्रातिहार्यमिदं दृष्ट्वा रोहिण्या बहवो नराः । नार्योऽपि शुद्धचेतस्का जिनधर्मं प्रपेदिरे ॥ ॥ इति श्रीवसुदेवरमणीरोहिणीकथानकमिदम् ॥ ८८ ॥
२२ ॥ "
२३ ॥
२४ ॥
*
२१५
१३ ॥
Jain Education International
१४ ॥
For Private & Personal Use Only
१५ ॥
१६ ॥
८९. सीताकथानकम् ।
विनीताविषये कान्ते साकेता नगरी शुभा । रामदेवो नृपस्तस्यां सीताऽऽसीदस्य गेहिनी ॥ १ ॥ " रावणेन समं तस्या जाते संजल्पने तदा । रामदेवेन शुद्ध्यर्थं अग्निकुण्डं कृतं महत् ॥ २ ॥ तन्मध्येऽगरुकाष्ठौघैः श्रीखण्डैरपि पूरिते । रामदेवसमादिष्टैर्नरैः प्रज्वालितः शिखी ॥ ३ ॥ रामदेवं विहायान्यनरं मे यदि वाञ्छितम् । मनसाऽपि जना वह्ने ततो मां दह माऽन्यथा ॥ ४ ॥ एवं निगद्य सा सीता रामदेवप्रचोदिता । अग्निकुण्डं विवेशाशु ज्वालोद्योतितपुष्करम् ॥ ५ ॥ सीतयाऽऽविष्टया तच्च' वह्निज्वालासमन्वितम् । अग्निकुण्डं तदा जातं महापद्मसरोवरम् ॥ ६ ॥ " प्रातिहार्यमिदं प्राप्य वरं देवैः प्रकल्पितम् । सीता संयमसेनान्ते दधौ दीक्षां जिनाश्रितम् ॥ ७ ॥ आश्चर्यमिदमालोक्य तदानीं बहवो नराः । महावैराग्यसंपन्ना योषितोऽपि प्रवव्रजुः ॥ ८ ॥ श्रावकत्वं परिप्राप्य तथाऽन्ये भक्तितत्पराः । केचिन्मध्यस्थतां भव्याः सीतास्तुतिविधायिनः ॥ ९ ॥ ॥ इति श्रीरामदेवपत्नी सीताशुद्धिकथानकम् ॥ ८९ ॥
*
९०. जिनदासीकथानकम् ।
अथ 'चम्पापुरं श्रीमान् जिनदत्तोऽभवत् प्रभुः । श्रावकोऽस्य प्रिया चार्वी जिनदासी कलखना ॥१॥ अन्यदा जिनदत्तोऽयं जिनदास्या सहादरात् । प्रस्थितो मिथिलां गन्तुं श्वशुर स्नेहकारणात् ॥ २ ॥ जिनदत्तो व्रजन् कक्षे नानानोकुहसंकुले | अभ्याख्यानं ददौ किंचिज्जिनदास्याः स्वयोषितः ॥ ३ ॥ साऽपि तद्वचनं श्रुत्वा श्रुतपूर्वं मनखिनी । स्वचारित्रविशुद्धयर्थं सिंहान्ते प्रतिमां दधौ ॥ ४ ॥ सिंहोऽपि त्रिःपरीत्यैतां कायोत्सर्गमिव स्थिताम्' । जिनदासीं प्रणम्याशु ययौ धाम स्ववाञ्छितम् ॥५॥
1 पफ युग्मम् ज युगलमिदम्. 2 पफ युग्मम्, ज युगलमिदम्. 3प प्रज्वलितः 4 [ तत्र ]. 5ज कथानकमिदम्. 6 [ चम्पापुरे ]. 7 पफ 'विवस्थिताम् [ कायोत्सर्गव्यवस्थिताम् ].
5
30
www.jainelibrary.org