________________
२१४ हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ८७. २९ताम्बूलं दातुमिच्छन्ती स्वमुखेनास्य सादरात् । इष्टकानां चयं चक्रे शूलिकाधस्तदुक्तितः ॥२९॥ इष्टकापुञ्जमारुह्य चौरं च परिरभ्य सा । ताम्बूलं स्वमुखेनास्मै ददौ वीरवती निशि ॥३०॥ दन्तै रदच्छदः छिन्नं तस्करण मुमूर्षता । वीरवत्याः स तद्वक्रे तस्थौ कीलालसंभृते ॥ ३१ ॥ तस्मिन् दिनेऽमुना प्राप्य स्वगेहं भर्तुरन्तिकम् । स्तोकवेलं च सुष्वाप तदा वीरवती खला ॥३२॥ 5 शयनीयात् समुत्थाय रोलं कृत्वा जगाविदम् । सत्या निरपराधाया दितो दत्तेन मेऽधरः ॥३३॥
श्रुत्वा तन्निनदं दीनं प्रभाते सकलो जनः । प्राप्य तद्भवनं बवा दत्तं निन्ये नृपान्तिकम् ॥३४॥ किंवदन्ती ततः सर्वा भूभुजे विनिवेदिता । तद्वान्धवैः समाकर्ण्य तं नृपो रुषमाययौ ॥ ३५॥ दत्तस्यास्य कुशीलस्य हत्यै नरपतिस्तदा । किंकराणां ददावाज्ञां कोपलोहितलोचनः ॥ ३६॥ नरेन्द्रवचनं श्रुत्वा शूरसेनो जगावमुम् । राजन् शूलस्थचौरेण छिन्नोऽस्या दशनच्छदः ॥ ३७॥ " ममेमां करशाखां च छिन्नां पश्य समुद्रिकाम् । स्वैरिण्या निशि गच्छन्त्याऽनुयातं पथि मूढया ॥३८॥ तस्मिनिरपराधस्य वणिक्पुत्रस्य भूपते । प्रजानुपालनासक्त मा कारापय हिंसनम् ॥ ३९॥ चेत्प्रतीतिर्न मद्वाक्ये विद्यते नुतनेश्वर । ततश्चौरान्तिकं याहि मत्समं दर्शयाम्यमुम् ॥ ४०॥ . शूरसेनवचः श्रुत्वा पौरलोकसमन्वितः । चौरान्तिकं जगामाशु भूपतिस्तत्समं मुदा ॥४१॥ दुष्टभावमुखे दृष्ट्वा तदौष्ठं नरकुलरः । दत्तं मुमोच तुष्टात्मा पूरयित्वा धनादिना ॥४२॥ । पूजितः शूरसेनोऽपि नरनागेन भूरिशः । सन्मानदानयोगेन सत्यजल्पनकारणात् ॥४३॥
अथ दत्तो वणिक् तत्र भार्यावैराग्यहेतुतः । अभिनन्दनसामीप्ये प्रवव्राज प्रशान्तधीः॥४४॥ चेष्टितं वीरवत्या हि विलोक्य नरकुञ्जराः । केचित् प्रवव्रीराः केचिज्जैनमधुर्वृषम् ॥४५॥
॥ इति श्रीदुष्टचौरासक्तखकान्तादत्ताभ्याख्यान
वीरवतीकथानकमिदम् ॥ ८७ ॥
८८. रोहिणीकथानकम् । शूरसेनजनान्तेऽस्ति सौरी नाम पुरी परा । वसुदेवोऽत्र राजेन्द्रो रोहिणी तन्मनःप्रिया ॥१॥ तत्पुत्रो नवमः शूरो बलदेवो महाबलः । स्वमातुर्विनयं नित्यं कुर्वाणः स वितिष्ठते ॥२॥ जननीपुत्रभावेन स्थितावपि विलोक्य तौ । जनोऽयं वक्ति निःशङ्को रोहिणी बलदेवभाक् ॥३॥
समस्तजनसंजल्पं स्वनिन्दाप्रतिपादकम् । न परं रोहिणी वेत्ति राजवेश्मान्तरस्थिता ॥४॥ 25 अन्यदा सह पुत्रेण रोहिणी तिष्ठति स्फुटम् । लोकजल्पं च शुश्राव बालवृद्धपुरस्सरम् ॥ ५॥
एवं विज्ञाय तां वातों सत्येन परिवर्जिताम् । रोहिणी साधुतोपेता वज्रेणेव समाहता ॥ ६॥ गोकुलाद् दधिदुग्धादि गृहीत्वा कुचनम्रया । आगच्छन्त्या विशन्त्या च गोप्या तत्पुरमुवजम् ॥७॥ इयमाकर्ण्य तां वार्ता जलकूपेऽबलामुखात् । हलेऽस्मत्पत्तनेऽन्यायो वर्तते साधुनिन्दितः ॥८॥ विज्ञाताखिलभावेन कोविदेन मनीषिणा । पुत्रेण बलदेवेन सह तिष्ठति रोहिणी ॥ ९॥ " इदं वचनमाकर्ण्य दुःखपूरितमानसा । ययौ गृहं निजं साऽपि' शोकम्लानमुखाम्बुजा ॥१०॥ पृष्टा गोपी महादेव्या रोहिण्या संभ्रमण सा । गोपि किं कारणं दुःखाद् रोदनं कुरुषे वद ॥११॥ रोहिणीवाक्यमाकर्ण्य गोपिका निजगावमुम् । यथा त्वं देवि पुत्रेण सह तिष्ठसि सर्वदा ॥१२॥
1 [रदच्छदश्छिन्नो ]. 2 फ मुमूर्षती. 3 [रोदं ]. 4 पफ करशाषां. 5 [नु तवेश्वर ]. 6 पफ त्रिकलम्, जत्रिकलमिदम्. 7 ज सा च. 8 पफ चतुर्भिः कुलकम् , ज चतुःकुलकमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org