________________
-८७. २८]
वीरवतीकथानकम् एवमुक्तस्तया सोऽपि यदा भोक्तुं न वाञ्छति । तदा प्रासेन सो हत्वा चके तं गतजीवितम् ॥२७॥ चतुर्गतिकसंसारे नानादुःखभयानके । राजा सिंहबलो दीनश्चकार परिहिण्डनम् ॥ २८॥
॥ इति श्रीविरक्तगोमतिभार्यानिहतसिंहबलनृपकथानकम् ॥ ८६॥
८७. वीरवतीकथानकम् । मगधाख्यमहादेशे पुरं राजगृहं परम् । साधुलोकसमाकीर्ण विद्यते धनसंकुलम् ॥१॥ तत्पुरे धनमित्रोऽभूदिभ्यश्रेष्ठी जनप्रियः । सुविचित्रयशोव्याप्तसमस्तवसुधातलः ॥२॥ यस्येन्द्रनीलवैदूर्यपद्मरागमणिव्रजः । तत्करोद्योतिताकाशो मूल्येन परिवर्जितः ॥३॥ हस्तनिकरसद्दण्डच्छत्राणामुपरि स्थितः। दृश्यते लोकचारेण कौतुकव्याप्तचेतसा ॥४॥ आखण्डलशतस्तुत्यै राद्धान्तपरिवेदिभिः । केवलामलसन्नत्रैः स इभ्यो गदितो जिनैः ॥ ५॥ यस्य पूर्वोदितो राशी रत्नानाममलत्विषाम् । वृषस्थ नरसद्दण्डच्छत्राणामधिको भवेत् ॥६॥ समस्तभुवनव्यापियशोऽमलवितानकैः । निःशेषभुवनाख्यातैः स वृषेभ्यो मतो बुधैः ॥ ७॥ यस्य माणिक्यसंघातो मूल्यहीनः पुरोहितः । एकस्थनृपसद्दण्डछत्राणामधिको भवेत् ॥ ८॥ समस्तसाधुताधारैलोकविख्यातकीर्तिभिः । पटकेभ्यो मतः सोऽयं विदितागमविस्तरैः ॥९॥ तद्भार्या धरणी नाम बभूव गुणधारिणी । दत्तनामाऽनयोः पुत्रः कलाविज्ञानकोविदः ॥ १०॥ बभूव तत्पुराभ्याशे ग्रामो भूमिगृहो महान् । तत्रानन्दकुटुम्बी च धनधान्यसमन्वितः ॥ ११ ॥: 15 भार्या मित्रमती तस्य मित्रसंतोषकारिणी । अनयो रूपसंपन्ना सुता वीरवती मता ॥ १२॥ सेयं वीरवती दत्ता दत्ताय जनकेन हि । परिणीताऽमुना चार्वी जयमङ्गलनिस्वनैः ॥१३॥ तस्मिन् भूमिगृहे ग्रामे दुष्टभावो मलिम्लुचः । चौरिकाजीवनो नित्यं दुष्टभावो वसत्यरम् ॥१४॥ एतेन दुष्टभावेन तस्करेण समं खला । तिष्ठति प्रीतचेतस्का भृशं वीरवती तदा ॥ १५॥ तस्करोऽप्यनया सार्धमनुरक्तो वितिष्ठते । एतयोः प्रेमरागेण याति कालः परस्परम् ॥१६॥ साऽपि वीरवती दत्तं नेच्छति द्वेषमागता । दत्तोऽपि तां स्वचित्तस्थां मोक्तुं नेच्छति सर्वदा ॥१७॥ दुष्टभावः कदाचिच्च चौरिकां विदधत् पुरे । लब्धो नरेशिना जीवन् शूलिकायां निधापितः ॥१८॥ दत्तोऽपि शूरसेनेन मित्रेण सह तद्दिने । स्मरन् वीरवती यातो ग्रामं भूमिगृहाभिधम् ॥ १९ ॥ तत्र श्वशुरगेहे च वीरवत्या समं धवः । दत्तः 'स्वप्तोऽप्यनिच्छन्त्या शयनीये मनोहरे ॥ २०॥ यथाक्रमं प्रसुप्तानां त्रयाणामपि तन्निशि । दुष्टभावो हि शूलस्थो वीरवत्याः स्थितो हृदि ॥ २१ ॥ 25 दत्तेन सह संसुप्ता सोपरोधं मुहूर्तकम् । शयनीयात् समुत्तस्थौ दुःखिनी वीरवत्यरम् ॥ २२ ॥ : पुष्पकाश्मीरताम्बूलं समादाय सधूपकम् । शूलस्थचौरसामीप्यं जगामासौ निशि द्रुतम् ॥ २३ ॥ अवानपत्रसंघातस्योपर्यन्ववगच्छतः । पापया शूरसेनस्य कृपाणेन कराङ्गुली ॥ २४ ॥ छिन्ना शब्दं तु तस्योचैः श्रुत्वा मुद्रिकभूषणा । वीरवत्याऽटितं तत्र यत्रास्तेऽसौ मलिम्लुचः॥२५॥ शूरसेनस्तया सार्धं प्राप्य स्तोकान्तरं पुनः । तदानीं चौरसामीप्ये तस्थौ प्रच्छन्नविग्रहः ॥ २६ ॥ ३॥ प्राप्य चौरान्तिकं साऽपि कृत्वा संभाषणं मुहुः । कुङ्कुमालेपनं चास्मै दत्त्वा पुष्पादिकं स्थिता ॥२७॥ दुष्टभावोऽपि तां प्राह गाढालिङ्गनपूर्वकम् । एकवारं मुखेनाशु ताम्बूलं देहि मे प्रिये ॥ २८॥ ___ 1 [सा]. 2 ज कथानकमिदम्. 3 [वैडूर्य °]. 4 पफ त्रिकलम् , ज त्रिकलमिदम्. 5 पफ युग्मम् , ज युगलमिदम्. 6 पफ कोविदः. 7 [ सुप्तोऽ].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org