________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ८५. ६६जयसेनकुमाराय राज्यं दत्त्वा सुताय सः । महावैराग्यसंपन्नो ययौ दमवरान्तिकम् ॥ ६६ ॥ नत्वाऽऽचार्यमिमं भक्त्या बहुसामन्तसंयुतः । दधौ देवरती राजा दीक्षां दैगम्बरीमसौ ॥ ६७॥ नानाविधं तपो जैनं नानादुःखविनाशकम् । कुर्वन् देवरतिः साधुस्तिष्ठति प्रीतमानसः ॥ ६८ ॥ ॥ इति श्रीरक्तापगुलनिमित्तयमुनानदीनिक्षिप्तदेवरतिनृपकथानकम् ॥८५॥
८६. सिंहबलनृपकथानकम् । अथास्ति भूपतिः श्रीमान् गोविन्दः पृथिवीपुरे । रूपिणी तन्महादेवी जयोपपदिका मतिः ॥१॥ अस्यैव भूपतेरस्ति श्रीदेवो नाम विश्रुतः । द्वितीयं गुणनामास्य “सहस्रभटसंज्ञकम् ॥ २॥ श्रीकान्ता तस्य भार्याऽऽसीत् तत्सुता गोमतिः परा । नीलोत्पलदलश्यामा विषाणदललोचना ॥३॥
सा च सिंहबलायोच्चैस्तुष्टेन किल भूभुजा । दत्ता नृपाय शूराय पलाशग्रामवासिने ॥४॥ 10 सा च सिंहबलेनामा प्रीतिं न कुरुते दृढाम् । ऐश्वर्यकुलविज्ञानमानरूपेण गर्विता ॥५॥
दुःखं कलहमायासं तत्समं प्राप्य वेगतः । अन्तर्वत्नीं विहायासौ पद्मिनीखेटमाययौ ॥ ६॥ सिंहसेनोऽभवत् तत्र ग्रामकूटो महाधनः । सिंहसेना प्रिया चास्य सुभद्रा कन्यकाऽनयोः ॥७॥ वितीर्णा विधिनाऽनेन सुभद्रा तनया निजा । मातुलेन महाप्रीत्या गुर्वी सिंहबलाय सा ॥ ८॥
कामभोगसुखं तत्र तया सार्धं मनोरमम् । सिंहपूर्वो बलान्तोऽसौ भुञ्जानो व्यवतिष्ठते ॥ ९॥ . 15 श्रुत्वा सिंहबलस्येमं वृत्तान्तं गोमतिः क्रुधा । जगाम पद्मिनीखेटं नगरं शर्वरीमुखे ॥१०॥
गत्वा केनाप्युपायेन ग्रामकूटगृहं द्रुतम् । सुभद्रायाः शिरश्छित्त्वा गोमतिर्निर्गता निशि ॥ ११ ॥ तन्मस्तकं समादाय वने व्यालभयानके । प्रसूता दारकं दिव्यं गोमतिर्निष्ठुराशया ॥ १२॥ . ततो व्यालभयाद् बालं गृहीत्वा करतः सका । वटवृक्षं समारूक्षन्महाशाखासमन्वितम् ॥ १३ ॥
अथ तद्वटमूले च वंटयन्तो हृतं धनम् । दस्यवो विहितारावा तिष्ठन्ति प्रमदान्विताः ॥ १४ ॥ 26 गोमतिर्वटमूर्धस्था सुभद्रामस्तकं निशि । तेषामुपरि निःशङ्का मुमोच व्याकुलात्मनाम् ॥ १५॥. दृष्ट्वा ते स्वपुरश्छिन्नं मस्तकं पतितं तदा । भयवेपितसर्वाङ्गा धनं हित्वा पलायिताः ॥ १६॥ ततः प्रभातकाले च गोमतिालभीतितः। तन्मस्तकं धनं बालं गृहीत्वा गृहमाययौ ॥ १७ ॥ तन्मस्तकपलं साऽपि संस्कृत्य लवणादिभिः । तस्थौ निजगृहे क्रुद्धा स्वकीयरमणं प्रति ॥ १८॥
अथ सिंहबलः स्थित्वा ग्रामकूटनिकेतने । दिनानि कतिचित् प्राप तदानीं निजमन्दिरम् ॥१९॥ 25 गोमतिं भोजनं सोऽपि ययाचे गृहमागतः । तद्वाक्यतः प्रिया साऽस्य पादप्रक्षालनं ददौ ॥२०॥
मण्डयित्वादरेणोच्चैः संनिवेश्य वरासने । क्रमेण तच्छिरोमांसं ददौ पात्रेऽस्य वल्लभा ॥ २१॥ सोऽपि हृष्टस्ततो भुङ्क्ते तत्पलं वर्णयन् भृशम् । पृष्टोऽनया कुतो जातं मृष्टं मांसं वदाशु मे ॥२२॥ भार्यावचनमाकर्ण्य तत्पतिस्तां जगौ पुनः । अतीव शोभनं मांसं जातं नो वेद्मि वल्लभे ॥ २३॥ एवं निगदिते तेन मात्सर्यवशवर्तिनी । तन्मस्तकं विधायास्य भाजने सा जगाविदम् ॥ २४ ॥ ॥ भवत्प्रियाशिरोमांसं जातं मृष्टं तव प्रभो । ततो भूयोऽपि भुंक्ष्व त्वमिदं तत्प्रेमकारणात् ॥२५॥ यदि नैवं करोषि त्वं यथा त्वद्वल्लभाशिरः । छिन्नं मया तथा तेऽपि छिनमीदं द्रुतं खल ॥२६॥
1ज निमित्तं. 2 ज नदीक्षिप्त'. 3 ज कथानकमिदम्. 4 पफ सहस्रभट्ट. 5 ज (=गर्भवती स्त्रीम् ). 6 पफ व्यालं. 7 पफ एवं निगद्य तं..
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org