________________
-८५. ६५] देवरतिनृपकथानकम्
२११ पादयोरिममादाय गम्भीरयमुनाह्रदे । रक्ता चिक्षेप भूपालं तदानीं निष्ठुराशया ॥ ३३॥' पूर्वोक्तनिम्नगातीरे निक्षिप्य दयितं विटी । पङ्गुलेन समं भोगान् भुञ्जाना सा वितिष्ठते ॥ ३४ ॥ राजाऽपि च तथा क्षिप्तो धुन्यां तच्छ्रोतसानुगः । नीयमानः पुनः प्राप मङ्गलादिपुरं परम् ॥ ३५॥ . तत्पत्तनसमीपस्थमहाशाखातरोरधः । पूर्वोक्तभूपतिः शान्तदेवरतिः सोऽवतिष्ठते ॥ ३६॥ श्रीवर्धननृपोऽप्यत्र तत्पुरे धनसंकुले । तस्मिन्नेव दिने श्रीमान् कालगोचरतां ययौ ॥ ३७॥ । तस्मिन् मृति परिप्राप्ते पुत्रहीने महीपतौ । जगामाकुलतां सर्वे मङ्गलोपपदं पुरम् ॥ ३८॥ मण्डयित्वाऽरुणेनोचैः पुष्पधूपं प्रदाय च । भूपा महत्तराः सर्वे मुमुचू राजहस्तिकम् ॥ ३९ ॥ भ्रान्त्वाऽखिलं पुरं कुम्भी तद्वहिः शयितं पुनः । नृपं देवरतिं तत्र सस्लौ भर्मकुटेन सः ॥४०॥ करेणादाय तं भूपं स्वपृष्ठमधिरोप्य च । महासिंहासने दिव्ये स्थापयामास कुञ्जरः ॥४१॥ अथ सामन्तसंघाताः पुरोहितमहत्तराः । अभिषेकं कुटैः कृत्वा राज्यमस्मै ददुः पुनः ॥४२॥ . पङ्गुलानां महादानं दत्तेऽपश्यन् स योषितः । चक्रे देवरती राजा राज्यं कण्टकवर्जितम् ॥४३॥ पङ्गुलेन समं भोगान् भुञ्जाना सा यथेप्सया । एकेन देशिकेनोक्ता सा च तद्रक्तचेतसा ॥४४॥ यथा पतिव्रते देवि जयसेनो नरेश्वरः । मङ्गलाख्यपुरस्वामी कीर्तिव्याप्तदिगन्तरः ॥ ४५ ॥ .. पङ्गुलानां महादानं चिन्तिताधिकमादरात् । पतिव्रताबलानां च ददाति स दिवानिशम् ॥४६॥ तेन पङ्गुलमादाय गच्छ त्वं तत्समीपकम् । लभसे येन सन्मानं धनं च बहुलं सति ॥४७॥* 15 निशम्य तद्वचो रक्ता सवीणं पङ्गुलं तदा । स्कन्धेऽधिरोप्य तं भक्त्या मङ्गलादिपुरं ययौ ॥४८॥ पृष्टा सा तत्पुराभ्याशे लोकैः कौतुकसंगतैः। स्कन्धस्थोऽयं द्विजो देवि को भवेत् ते तनूदरि ॥४९॥ तद्वाक्यतो बभाणैषा जनान् संगतकौतुकान् । देवैर्द्विजैरयं भर्ता दत्तो मे प्रीतमानसैः ॥ ५० ॥ अहं पतिव्रता भूत्वा कुर्वन्ती विनयं परम् । यदत्रैतस्य भावेन तिष्ठामि सरसं भुवि ॥५१॥ वक्ष्यमाणा इमं श्लोकं तारेण ध्वनिना सका । निगद्य याचते भिक्षां लोकं वेश्मनि वेश्मनि ॥५२॥ स्थापयन्ती पतिं स्कन्धे मस्तके च श्रमं विना । भिक्षां बलिं च मे देहि साऽहं मित्रमती जन॥५३॥ श्रुत्वा मित्रमतीवाक्यं गन्धपुष्पाक्षतादिभिः । त्रिःपरीत्यार्चयित्वा तां भोजनं प्रददौ जनः॥५४॥ वस्त्रताम्बूलरत्नोपैः पूजयित्वा तकां तराम् । लोकः श्लोकं पपाठेमं तोषपूरितमानसः ॥ ५५॥ यदि स्यान्मङ्गलं तेऽलं धन्याऽसि त्वं पतिव्रते । पुत्रभार्यादियुक्तानामस्माकमपि मङ्गलम् ॥५६॥ अनेन विधिना रक्ता तत्समं क्रमते मुदा । मङ्गलादिपुरं प्राप्य द्वारि भूपस्य तस्थुषी ॥ ५७॥ 21 द्वौवारिकेण तो तत्र भूपालस्य निवेदितौ । तन्मतेन पुनः शीघ्र जग्मतुपसंनिधिम् ॥ ५८॥ अपश्यन् भूपती रामामभिरामामपि स्फुटम् । दत्त्वा काण्डपटं तत्र तस्थौ विस्मितमानसः॥ ५९॥ एवं स्थितस्य भूपस्य सभामध्यनिवासिनः । आशीर्वादमिमं देवी ददाति प्रीतमानसा ॥६०॥ आज्ञैश्वर्यबलेनामा चिरं जीवारिमर्दन । अर्थ वस्त्राणि मे देहि साऽहं मित्रवती सती ॥ ६१॥ मित्रमत्युदितं श्रुत्वा धनासक्तिपरायणम् । विस्मयव्याप्तचेतस्को जगादैवं महीपतिः ॥ ६२॥ ॥ उरूबाहुपलं जग्धं मदीयं पूतने त्वया । तथा कीलालजालं च निपीतं कुलटे खले ॥ ६३॥ निक्षिप्तोऽहं त्वया नूनं यमुनाख्यनदीह्रदे । अहो मित्रमति क्रूरे सतीत्वं घटते तव ॥ ६४॥ ... ततः काण्डपटं राजा निराकार्य नरेण सः । तयोर्महाधनं भूरि ददौ करुणया युतः ॥ ६५॥
. 1 पफ त्रिकलम् , ज त्रिकलमिदम्. 2 ज शान्तः देव', [श्रान्तो]. 3 ज भस्मकुटेन. 4 पफ त्रिकलम् , ज त्रिकलमिदम्. 5 ज मित्रवती. 6 [दौवारिकेण]. 7 पफ त्रिकलम् , जत्रिकलमिदम्. :.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org