________________
२१० हरिषेणाचार्यकृते बृहत्कथाकोशे
[८५. १८५. देवरतिनृपकथानकम् । विनीताविषये कान्ता साकेता नगरी शुभा। तत्र देवरती राजा बभूव हतशात्रवः ॥१॥ बभूवास्य महादेवी रक्ताऽस्या नाम चापरम् । रूपयौवनमत्ता या मित्रवत्यभिधानका ॥२॥ अपि रूपान्विता रामा हित्वा सर्वा विमूढधीः । रक्तायामनुरक्तोऽभूद् राजकार्यपराङ्मुखः ॥३॥ अपकर्ण्य महीपालो मत्रिणो मत्रकोविदान् । परचक्राभिभूतोऽपि रक्तया सह तिष्ठति ॥ ४ ॥ ज्ञात्वा भूपं तदासक्तं राजकार्यपराङ्मुखम् । सामन्ता मत्रिणो मुख्या मूलवर्गाः पुरोधसः ॥५॥ जयसेनकुमारस्य तत्पुत्रस्य मनीषिणः । राज्यपढें बबन्धुस्ते समस्तवसुधां प्रति ॥ ६॥' रक्तयाऽपि महादेव्या मत्रिभिर्नरकुञ्जरैः । स्वपुराद्धाटितः शीघ्रं तदा देवरतिर्नृपः ॥ ७॥ रक्ता देवी श्रमग्रस्ता विशन्ती तत्समं वनम् । बभूव म्लानसद्वका क्षुधापम्पाकदर्थिता ॥८॥ " स्वोरूमांसं समादाय पक्कं कृत्वा खरामिना । बाहुरक्तं च पानीयं विधायौषधयोगतः ॥९॥
खमांसभक्षणं तत्र जलपानं च भूपतिः । ददौ रक्तामहादेव्यास्तद्गुणाकृष्टमानसः ॥१०॥ तत्पानभक्षणं कृत्वा प्रीणिताखिलविग्रहा । तदा रक्ता महादेवी बभूव प्रीतिमानसा ॥ ११ ॥ ततो वनादतिक्रम्य यमुनाख्यनदीतटे । स्थितं तकौ परिश्रान्तौ श्रीपुरं प्रापतुः क्रमात् ॥१२॥ तत्पुरस्थेन लोकेन दृष्ट्वा तौ परमोदयौ । दत्त्वा भोगोपभोगौ च स्थापितौ शोभने गृहे ॥ १३॥ 15 तत्र शय्यागृहे चैकः किन्नरादिरतिः कलः । पङ्गुलो गीतनृत्यज्ञः कुशलो वसति स्फुटम् ॥ १४ ॥
अनेन सहसा देवी बभूव प्रीतमानसा । तिष्ठत्यासक्तचेतस्का शर्वरीदिनयोरपि ॥ १५॥ ततोऽन्येधुस्तया सत्यं पङ्गुलस्य निवेदितम् । यथेमं भूपतिं हत्वा भ्रमिष्यावोऽत्र भूतले ॥ १६ ॥ विधातुं पङ्गुलोऽप्येष पञ्चतामस्य नेच्छति । महापुरुषसिंहस्य स्वमृत्युभयहेतुतः ॥ १७ ॥
भूयोऽपि रक्तया प्रोक्ता पङ्गुलोऽनेन हेतुना । करोमि वधमेतस्य तिष्ठ त्वं मौनमाप्य च ॥१८॥ 20 अथैकदिवसे रक्ता रोदनं कुर्वती तराम् । पृष्टा भूपतिना देवि किं रोदिषि वदाशु मे ॥ १९॥
नरेन्द्रवचनं श्रुत्वा रक्ताऽपि निजगावमुम् । त्वद्वर्षवर्धनो नाम दिवसोऽयं समागतः ॥ २० ॥ मम पुण्यविहीनायाः कारणे राज्यतो नृप । आखण्डलसमाद् भ्रष्टो भोगसौख्यपरिच्युतः ॥२१॥ यदि स्वपत्तने भूप स्थितः स्यात् परमोदयः । ततो हेममयैः कुम्भैरभिषेको नरेश्वरैः ॥ २२॥
अहमेकाकिनी राजन् विभवेन परिच्युता । त्वजन्मवासरे जाते किं करोमि वदाधुना ॥ २३ ॥ 25 अनेन कारणेनार्य रोदनं विहितं मया । खनाथे राज्यतो भ्रष्टे कुतः सौख्यं हि योषिताम् ॥२४॥ रक्तावचनमाकर्ण्य तत्पतिः प्राह तां पुनः । किं देवि दुःखिता जाता सुधीराऽपि यथेतरा ॥२५॥ अस्माकं धनहीनानां परदेशानुयायिनाम् । जन्मवासरवृद्ध्यां हि कृतया किं प्रयोजनम् ॥ २६॥ अवाचि वल्लभो भूयः कान्तया मङ्गलं प्रति । राज्यवृद्ध्यै जलस्त्रानं कर्तुमिच्छामि ते नृप ॥२७॥ भार्यावचनमाकर्ण्य पुनरूचे नृपोऽपि ताम् । किं कदाचिन्मया देवि स्नेहभङ्गः कृतस्तव ॥२८॥ • तद्वाक्यतः समादाय यमुनाख्यां नदी पुनः । रक्ता समाययौ दुष्टा पुष्पमालासमन्विता ॥ २९ ॥ तत्र मण्डलकं कृत्वा पुष्पधूपाक्षतान्वितम् । गायन्ती मङ्गलं रक्ता स्त्रापयामास तं धवम् ॥ ३०॥ राज्यवृद्ध्याभिषेकं सा कृत्वा जलकुटैस्तदा । गुणनालमयीं तस्य पुष्पमालां च शोभनाम् ॥३१॥ मस्तकाचरणं यावद्वेष्टयित्वा तया पुनः । जयनन्दकृतखाना तत्सपर्या विधाय सा ॥ ३२॥
-1 पफ युग्मम् ,जयुगलम्. 2 पफ चतुष्कुलकम् , ज चतुष्कुलकमिदम्.3 पफ युग्मम्, ज युगलम्. 4ज गायन्ती मण्डलं.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org