________________
-८४, ५७] रामायणकथानकम्
२०९ सहस्रैर्दशभिः सार्धं चतुर्भिरपि रक्षसाम् । त्रयोऽपि भ्रातरो युद्धे रामदेवेन मारिताः ॥ २८॥ हतेषु तेषु सर्वेषु तदा शूर्पनखा परम्' । आत्मानं दर्शयामास रावणस्य सभासदः ॥ २९॥ कर्णनासापरित्यक्तां स्वसारं वीक्ष्य रावणः। तदानीं कोपमासाद्य रामदेवान्तिकं ययौ ॥३०॥ तत्र सीतां समालोक्य देवतामिव रूपतः । बभूव रावणः सद्यः कामविह्वलमानसः ॥३१॥ सारङ्गवेषमादाय स्वर्णनिर्मितमूर्तिकम् । तूर्णं जगाम मारीचः सीताभ्याशं मनोहरम् ॥ ३२॥ । अष्टापदमयं दृष्ट्वा रममाणं मृगं पुरः । रामदेवं जगादेति जानकी कौतुकेन तम् ॥ ३३॥ पश्य पश्य धव क्षिप्रं हरिणं लोललोचनम् । महारजतनिर्माणं रममाणं यदृच्छया ॥ ३४॥ स्तोकान्तरमतिक्रम्य जानकीवचनादरम् । जघान चापमुक्तेन रामो बाणेन तं मृगम् ॥ ३५ ॥ प्रहारविह्वलेनात्र सिंहनादः कृतोऽमुना । हा भ्रातः लक्षण क्षीणो मृतोऽहं संशयं विना ॥३६॥ श्रुत्वा तन्निनदं सीता लक्ष्मणं निजगाद च । रामदेवो मृतिं नीतः केनचिद् व्रज सांप्रतम् ॥३७॥ ॥ सीतोदितेन तेनोक्तं रामोक्तोऽहं मनस्विनि । सीतामेकाकिनी मुक्त्वा मा गमिष्यसि बालक ॥३८॥ जानकी तद्वचः श्रुत्वा बभाणेमं रुपं गता । यदि लक्ष्मण नो यासि त्वं किं मां भोक्तुमिच्छसि ॥३९॥ तद्विरुद्धं वचः श्रुत्वा लक्ष्मणः प्रविहाय ताम् । रामदेवान्तिकं यातस्तदा विह्वलमानसः ॥४०॥ यावद्गतोऽमुतः शौरिस्तावद्दशमुखोऽपि च । विधाय वाससी रक्ते भिक्षार्थ प्राप जानकीम् ॥४१॥ भिक्षां देहीति मे मुग्धे निगद्यैवं वचः पुनः। आदाय जानकी शीघ्रं ययौ लङ्कां मुदान्वितः ॥४२॥ 15 दशानने गते लङ्कां रामदेवेन लक्ष्मणः । उक्तः किमेकिकां सीतां हित्वा वत्स समागतः ॥४३॥ आकर्ण्य तद्वचस्तत्र लक्ष्मणो निजगावमुम् । नूनं संप्रेषितो नाथ सीतयाऽहं त्वदन्तिकम् ॥४४॥ लक्ष्मणवचनं श्रुत्वा रामदेवो बभाण तम् । नष्टं कार्यमिदं वत्स त्वदागमनकारणात् ॥ ४५ ॥ यत्र देशे स्थिता सीता तं प्रदेशं समागतः । लक्ष्मणेन समं रामो जानकीपरिवर्जितम् ॥ ४६॥ अदृष्ट्वा तत्र तां कान्तां रामदेवस्तदुत्सुकः । विलापं नितरां चक्रे मुनिमानसदुःखदम् ॥४७॥ ॥ हा मुग्धे हा गुणाधाने हा मनस्विनि हा शुभे । हा कलाऽलङ्कृते कान्ते हा विज्ञानविधानके ॥४८॥ हा चन्द्रमुखि हा तन्वि हा विषाणाभलोचने । हा चम्पकप्रसूनाङ्गि हा घनस्तनि हा प्रिये ॥४९॥ हा कोकिलाकलखाने हा मुक्ताभसमद्विजे । हा वज्रोदरि हा शान्ते हा सजनमनःप्रिये ॥ ५० ॥ देहि मे वचनं कान्ते कर्णामृतरसायनम् । येनाहं तोषमामोमि सर्वाङ्गीणं वरानने ॥५१॥ एवं कृत्वा महाशोकं लक्ष्मणेन प्रबोधितः । किंचिद्बभूव शान्तात्मा भस्मगूढाग्निवन्नृपः ॥५२॥ 25 अत्रान्तरे बलं प्रापुः सुग्रीवाङ्गाङ्गदं मुदम् । हनूमान्नलनीलाद्या वानरा बहवो नराः ॥ ५३॥ सेतुबन्धं समुद्रस्य कारयित्वाशु वानरैः । रामो नदीनमुत्तीर्य प्राप लङ्कां बलान्वितः ॥५४॥ ततो महति संग्रामे हत्वा रामोऽथ रावणम् । बभूव भूपतिर्भूपमस्तकोपात्तशासनः ॥ ५५ ॥ रामरावणसंबन्धं बहुसत्त्वक्षयावहम् । स्त्रीनिमित्तमिदं जातं लोके रामायणं पुनः ॥५६॥ अन्यान्यपि च जातानि घोरयुद्धानि भूतले । नराणां स्त्रीकृते कष्टं मूलं युद्धस्य योषितः ॥५७॥ ॥ इति श्रीसीताहरणनिमित्तरावणवधसंबन्धरामायण
कथानकमिदम् ॥ ८४ ॥
5 पफ "स्तदुत्सकः,
1 पफ परा. 2 [भ्रातर्लक्ष्मण]. 3 ज त्वं मां किं. 4 पफ निषयैवं. 6ज गूढोनि. 7 पफ षभिः कुलकम् , ज षट्रकुलकमिदम्. 8 पफ रावणसंबन्ध
बृ० को० २७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org