________________
१०८
हरिषेणाचार्यकृते बृहत्कथाकोशे
[३. ११४सैन्यस्यैकादश प्रोक्ता अक्षौहिण्यः सुतेजसाम् । कुरूणां चतुरङ्गस्य महाइंकारचेतसाम् ॥ ११४॥ खसैन्यसमुदायेन पूरिताशेन नादिना । कुरुक्षेत्रं युधि प्रापुः पाण्डवाः कौरवास्तथा ॥११५ ॥ कुरूणां पाण्डवैः सार्धं तत्र रामानिमित्तकम् । बभूव भारतं युद्धं बहुसत्त्वक्षयावहम् ॥ ११६ ॥ ॥ इति श्रीस्त्रीनिमित्तयुद्धाख्यं पाण्डवकौरवकथानकमिदं संपूर्णम् ॥ ८३ ॥
८४. रामायणकथानकम् । विनीताविषये रम्ये साकेता नगरी परा । अस्यां नराधिपः शूरो नाम्ना दशरथोऽभवत् ॥१॥ चतस्रस्तन्महादेव्यो रूपलावण्यसंयुताः । आद्या सुकोशला नाम सुमित्राऽन्या मता प्रभा ॥२॥ तृतीया केकया प्रोक्ता चतुर्थी सुप्रजा परा । एता धरातले ख्याताः कलागुणविशारदाः ॥३॥ कोशलायाः सुतो जातो रामदेवो महागुणः । लक्ष्मीविराजितोरस्कः सुमित्रायाश्च लक्ष्मणः ॥४॥ ० भरतः केकयायाश्च शत्रुघ्नः सुप्रजात्मकः । समस्तभुवनख्याताश्चत्वारः सागरा यथा ॥५॥ जनकेन सुता दत्ता रामदेवाय शोभना । सीताख्या करुणोपेता सीमा सौभाग्यसंपदः ॥६॥ अन्यदा रूपसंपन्नान् रामादितनयानिमान् । विलोक्य पुरतः श्रीमान् दध्यौ दशरथो हृदि ॥७॥ वितीर्य सकलं राज्यं रामायाक्लिष्टतेजसे । वनवासं च याम्याशु तपोऽर्थं कृतनिश्चयः ॥ ८॥ चिन्तयित्वा चिरं राजा राममाहूय सत्वरम् । यावनाति राज्यस्य पढें सामन्तसंनिधौ ॥९॥ 15 महोत्सवेन हृद्येन मङ्गलातोद्यनिस्वनैः । कुतोऽपि वार्ता शुश्राव तावच्च भरताम्बिका ॥१०॥ दापयामि महीं त्वस्मै पुत्रायेति वचेतसि । कृत्वाकूतं प्रतस्थेऽतस्तदानीं नृपतिं प्रति ॥११॥ आगत्य केकयी' हृष्टा प्राहेदं नृपसंसदि । संतिष्ठते वरो यो मे तव पार्थे नरेश्वर ॥ १२ ॥ सांप्रतं देहि तं मह्यं सत्यपालनतत्पर । सत्यसन्धा हि राजानः पालयन्ति प्रतिश्रुतम् ॥ १३॥
मत्सुताय प्रदायैव भरताख्याय खं पदम् । लक्ष्मणेन समं रामं वनं प्रापय सांप्रतम् ॥ १४ ॥ 2" केकयावाक्यतस्तत्र तदा दशरथो नृपः । राज्यपढें बबन्धाशु भरताख्यसुतस्य सः ॥१५॥
सीतालक्ष्मणसंयुक्तो रामो हित्वा परिग्रहम् । जगाम दण्डकारण्यं दक्षिणाशाव्यवस्थितम् ॥१६॥ अत्रान्तरे महाराजो लङ्कायां रावणोऽभवत् । मन्दोदरी महादेवी तस्य मानसहारिणी ॥ १७ ॥ शूराविन्द्रजिदक्षाक्षौ स्यातां पुत्रौ मनोरमौ । विनयाचारसंपन्नावनयोः प्रेमरक्तयोः॥१८॥ खसा शूर्पनखा नामा रावणस्य कनीयसी । खरादिदूषणान्ताय वितीर्णाऽनेन रूपिणी ॥ १९ ॥ ॥ दण्डक्यारण्यमध्यस्थं विचरन्ती कदाचन । रामदेवं परिप्राप्य बभाणेनं सका मुदा ॥ २०॥
खामिन्नहं समायाता कुमारी त्वत्स्वयंवरा । प्रतीच्छ तेन मां भद्र गुणज्ञोऽसि तरां भुवि ॥२१॥ निशम्य तद्वचोरामो जगादैतां पुरःस्थिताम् । याहि त्वं लक्ष्मणाभ्याशं मत्प्रियाऽऽस्ते मनस्विनि ॥२२॥ लक्ष्मणान्तं परिप्राप्य सका रामनिदेशतः । जगादेमं पुरःस्थित्वा तव भार्या भवाम्यहम् ॥ २३॥ लक्ष्मणेन क्रुधा तस्या नासाकी निकृत्य च । निर्धाटिताऽमुतः स्थानात् खरान्तं प्राप सा पुनः ॥२४॥ ॥ तदवस्थां विलोक्यतां खरः प्राह षान्वितः । अवस्थामीदृशीं केन प्रापिता मेऽधुना वद ॥२५॥ धवोदितं निशम्यैषा बभाण रुचिरेक्षणा । अवस्थामीदृशीं नाथ प्रापिता लक्ष्मणेन हि ॥ २६॥ तद्वाक्यतः खरः क्रुद्धो दूषणस्त्रिसरस्तथा । त्रयोऽपि भ्रातरः प्रापुस्तत्समीपं बलान्विताः ॥२७॥
____1 पफ केकसी. 2 पफ त्रिकलम् , ज त्रिकलमिदम्. 3 [°जिद्दक्षाख्यौ ]. 4 [ दण्डकारण्य ]. 5 ["विशिर 1
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org