________________
- ८३. ११३ ]
पाण्डवकौर व कथानकम्
२०७
ततो द्रौपदिका तेन कचेष्वाकृष्य पाणिना । सभामध्ये पराभूतिं प्राप्तां तां पश्यतां सताम् ॥८२॥ एवं विदधतं क्रूरं तदा दुःशासनं खलम् । निवार्याजातशत्रुं च जगौ दुर्योधनो नृपः ॥ ८३ ॥ ”दण्डकोपपदेऽरण्ये भवद्भिः सकलैरपि । नूनं द्वादशवर्षाणि स्थातव्यं मम शासनात् ॥ ८४ ॥ वर्षमेकं तथा लोकेऽज्ञातरूपतया पुनः । स्थातव्यं साधुताधारैर्युष्माभिरखिलैरपि ॥ ८५ ॥ भवतो यदि जानामि तत्कथां दैवयोगतः । भवद्भिर्द्वादशान्यानि स्थातव्यान्यधिकानि च ॥ ८६ ॥ श्रुत्वा दौर्योधनं वाक्यं सत्यवादी युधिष्ठिरः । विदुरस्य गृहे कुन्तीं स्थापयामास सात्त्विकः ॥८७॥ द्रौपद्या सह पञ्चापि पाण्डवा द्वादशाष्टजाम्' । प्रतिज्ञां ते विधायाशु दण्डकाख्यं वनं ययौ ॥८८॥ नन्दिघोषं रथं दिव्यमारोप्यार्जुनमादरात् । महाप्रतापसंपन्नं धनुर्वेदपरायणम् ॥ ८९ ॥ निनाय मातलिः स्वर्गे शोभनाममरावतीम् । नन्दितूर्यकलस्वानां पुरन्दरपुरीमसौ ॥ ९० ॥
९४ ॥
९५ ॥
तत्रासुरान् निहत्याशु हस्ते ' तालुनि मर्मणि । सर्वाम्राणि नरः प्राप्य धर्मपुत्रं समं ययौ ॥ ९१ ॥ " एकवर्षं प्रयत्नेन तदा पञ्चापि पाण्डवाः । अज्ञातचरितेनैते विराटस्य गृहे स्थिताः ॥ ९२ ॥ विप्रवेषं समादाय चाग्रभोजी युधिष्ठिरः । तत्र तस्थौ विनीतात्मा विराटभवने शुचिः ॥ ९३ ॥ मोSपि सूपकारोऽस्य भक्तसूपादिकोविदः । बभूव विनयोपेतः स्वामिभक्तिपरायणः ॥ अर्जुनो नर्तकाचार्यो बृहंदलकरूपभाक् । नर्तयन् सुतरां कन्यां विराटस्य गृहेऽवसत् ॥ नकुलोsपि विशुद्धात्मा सप्तीनां परिपालकः । सहदेवो घटोनीनां विराटस्य पयोमुचम् ॥ ९६ ॥ is द्रौपदी च महादेव्या विराटस्य पिनष्टचलम् । गन्धान् सैरन्ध्रिरूपेण सुरभीकृत दिङ्मुखान् ॥९७॥ अनेन विधियोगेन कालो याति शनैः शनैः । विराटभवने तेषां पाण्डवानां महात्मनाम् ॥ ९८ ॥ अथ कौरवसैन्येन तदा दक्षिण गोग्रहे । गृहीताः सकला गावो महानादविधायिना ॥ ९९ ॥ विराटेनानुधाव्यैता गावो वेगेन पृष्ठतः । निहत्य तद्वलं किंचित् समानीताः कृपाणिना ॥ १०० ॥ ततो दुर्योधनः सार्धं द्रोणाचार्यादिनायकैः । उत्तरे गोग्रहे सर्वा गा जग्राह कृतारवाः ॥ १०१ ॥ २० गावो बृहदलेनैताश्चोत्तरेण समं पुनः । आनीतास्तत्पुरः सर्वाः सिंहविक्रमशालिना ॥ १०२ ॥ जित्वा तान् सकलान् ँ बाणैरमीभिः समरे द्रुतम् । प्राप्तान्निजालयान् सर्वान् वेपिताखिलविग्रहान् ॥ विराटपाण्डवानां च प्रीतिविज्ञानपूर्वकः । जातः समागमस्तत्र महानन्दविधायकः ॥ १०४ ॥ अत्रान्तरे परिप्राप्तो 'विष्णुर्द्वारावतीं पुनः । स्नेहनिर्भरचेतस्कः पाण्डवाभ्याशमादरात् ॥ १०५ ॥ देहादिकुशलं पृष्ट्वा क्षेमं दत्त्वा परस्परम् । पाण्डवा हरिणा सार्धं तस्थुर्मुदितचेतसः ॥ १०६ ॥ अन्येद्युः पाण्डवैरुक्तो हस्तिनागपुरं हरिः । दुर्योधनान्तिकं प्राप तत्संधान निमित्ततः ॥ १०७ ॥ विष्णुः क्रमेण संप्राप्य तदा दौर्योधनीं सभाम् । आसनस्थ जगादेतां कुशलप्रश्नपूर्वकम् ॥१०८॥ पाण्डवेभ्यः प्रदायार्धं दुर्योधन भुवः स्फुटम् । ततो विधीयते सन्धिः तत्समं सुखहेतवे ॥ १०९ ॥ श्रुत्वा वचनमेतस्य जगौ दुर्योधनोऽप्यमुम् । कर्णशूलकरं बाढं कोपारुणनिरीक्षणः ॥ ११० ॥ आस्तां वसुन्धरार्धं हि नारायण महामते । ग्रामार्धमपि नो तेभ्यो ददामि मम संगरः ॥ १११ ॥ ० दुर्योधनवचः श्रुत्वा तदा सन्धिपराङ्मुखम् । विराटनगरं प्राप वासुदेवस्त्वरान्वितः ॥ ११२ ॥ आगतस्य हरेः सद्यः सप्ताक्षोहिणिकानुगः । स्कन्धावारो बभूवैषां पाण्डवानां महात्विषाम् ॥११३॥
1 [ प्राप्ता ]. 2 पफ दन्दुकोपपदे 3 [ द्वादशाब्जजाम् ] 4 पफ युग्मम् ज युगलम्. 5 पफ तालनि. 6 फ भक्तरूपादि. 7 [ पयोऽमुचत् ] 8 पफ सकलैर्बाणै 9 ज विष्णुर्द्वारवतीं. 10 पफ युग्मम्, ज युगलम्.
Jain Education International
For Private & Personal Use Only
25
www.jainelibrary.org