________________
२०६ हरिषेणाचार्यकृते बृहत्कथाकोशे
[१३. ४८अभ्याख्यानमिदं नीताः पाण्डवाः कविभिः खलैः । कुमतिभ्रान्तचेतस्कैः सुतरामात्मवैरिमिः॥४८॥ असत्यतामिदं प्राप्तं तद्वचः फल्गुतामपि । युक्त्या विचार्यमाणं हि शतधा शीर्यते यतः ॥ ४९ ॥ पाण्डवाः पाण्डुना जाताः कुन्त्यां मद्यां च पञ्च ते । कुर्वन्त्यर्धधराराज्यमिन्द्रप्रस्थे मुदाऽन्विताः ॥५०॥
गन्धारिण्याः शतं पुत्रा धृतराष्ट्रस्य भूभुजः । रूपशौर्यादिसंपन्ना जाता दुर्योधनादयः ॥५१॥ 5 एतेऽप्यर्धधराराज्यं कुर्वन्तः कृतसंमदाः । दुर्योधनादयः सर्वे हस्तिनागपुरे स्थिताः ॥ ५२ ॥ ततो युधिष्ठिरो राजा कृत्वा दिग्विजयं भुवि । मखं प्रवर्तयामास राजसूयाभिधानकम् ॥ ५३॥ क्रियमाणे मखे तत्र सोऽन्तःपुरबलान्वितः । निमत्रितः समायातो दुर्योधननरेश्वरः ॥ ५४॥ प्रविशन्तं मखक्षोणी तथा दुर्योधनं नृपम् । भीमसेनो जगादाशु वचसा कुटिलाशयः ॥ ५५ ॥
प्रदेशेऽत्र कचिद्वाप्यो जलकल्लोलसंकुलाः । कारापितावतिष्ठन्ते केनचित् पद्मराजिताः ॥५६॥ 10 अन्यत्र शोभनाकारा मुकुरामलविग्रहा । जलकान्तशिलाभूमिस्तिष्ठति प्रीतिकारिणी ॥ ५७ ॥
नभःस्फटिकसंकाशाः सितीकृतनभःस्थलाः । अन्यत्र शिल्पिभिस्तत्र शिलानां भित्तयः कृताः॥५८॥ अन्यत्र शुद्धमाकाशमिन्द्रनीलविनिर्मितम् । श्यामलीकृतभूताङ्गं विहितं वरशिल्पिभिः ॥ ५९॥ जलकान्तिशिलामध्ये परिधानमुदस्य च । भीमोदितेन संविष्टस्तत्र दुर्योधनोऽभयः ॥ ६ ॥
जलधाने पुनस्तत्र प्रविशन् सरसं सकः । नीरमध्येऽमलच्छाये निमज्जति शनैः शनैः ॥ ६१॥ 15 अवतीर्य नभःस्थानं स्फटिकस्य शिलामसौ । मन्यमानो विशत्याशु दुर्योधनमहीपतिः ॥ ६२ ॥ स्फटिकाश्मशिलास्थाने चरणाभ्यां समुत्थितः । दुर्योधनः प्रयात्येष मन्दं मन्दगतिक्रियः॥६३॥ एवं प्रविशतस्तस्य दुर्योधनमहीभुजः । शिरः संचूर्णते तेन तच्छिलाजालतस्तराम् ॥ ६४॥ एवं सोऽपि प्रकुर्वाणः समीपस्थनरैस्तदा । हसितो रोषमासाद्य हस्तिनागपुरं ययौ ॥६५॥ प्रविष्टः स्वगृहं राजा प्रोक्तः शकुनिना पुनः । भीमोऽयं शत्रुभूतो नः सर्वकालं वितिष्ठते ॥६६॥ 20 द्यूतव्याजेन निर्जित्य वसुधाऽध वृकोदरम् । निर्धाट्य भ्रातृसंयुक्तं तिष्ठामोऽत्र वयं पुनः ॥६७॥ तद्वाक्यतो निमच्याशु पाण्डवान् सकलानपि । आजुहावान्तिकं खस्य तदा दुर्योधनो नृपः॥६८॥ तन्निर्धाटनकार्येण स्वदेशात् तेन मायिना । कृतो द्यूतप्रयोगो हि तदा दुर्योधनेन सः ॥ ६९॥ ततो युधिष्ठिरो रन्तुमक्षयूतं समुद्यतः । निजभूम्यैकपर्यायं समं दुर्योधनेन सः॥ ७० ॥
शकुन्यन्तस्थितस्यास्य नूनं दुर्योधनस्य च । चिन्तितानन्तरं द्यूते निपतन्ति दुरोदराः ॥ ७१॥ 25 तथा भीमसमेतस्य धर्मपुत्रस्य च स्फुटम् । हुंकारानन्तरं द्यूते निपतन्ति दुरोदराः ॥ ७२ ॥ " एवं सति प्रवृत्तेऽस्मिन् अक्षयूतेऽनयोस्तदा । भीमसेनं जगादेति शकुनिः पुरतः स्थितम् ॥७३॥
ज्येष्ठानां पुरतो भीम जल्पं कर्तुं न युज्यते । तव चापल्ययुक्तस्य कठोरवदनस्य च ॥ ७४ ॥ निशम्य तद्वचो भीमो भीमसेनो विमानदम् । शममादाय तत्रायं तस्थौ विनतमस्तकः ॥ ७५॥
ततो युधिष्ठिरः सर्वं धनं धरणिमण्डलम् । हस्तिनः पर्वतोत्तुङ्गांस्तुरङ्गान् वातरंहसः ॥ ७६ ॥ ३० स्वमर्जुनं यमं हृद्यं तथा द्रौपदिकामपि । दुर्योधनजितं छूते नूनं हारितवानसौ ॥ ७७॥ .. हारितेषु समस्तेषु धर्मपुत्रेण भूभुजा । सभामध्ये समस्तानां भूपतीनां विलासिनाम् ॥ ७८ ॥
दुःशासनोंऽशुकं जहे द्रौपद्या नृपसंनिधौ । अपरं शीघ्रमुत्पन्नं पुण्यतः किं न जायते ॥ ७९ ॥ तदंशुकानि सर्वाणि तेनाकृष्टानि वेगतः। उत्पन्नानि तदान्यानि धर्मतः किं न लभ्यते ॥ ८०॥ परिधानं समाकृष्टं तस्या दुःशासनेन च । पूर्ववत् तत् समुत्पन्नं वृषात् सर्वं हि जायते ॥ ८१ ॥ .: 1 [ कारापिता वितिष्ठन्ते ]. 2 पफ युग्मम्, ज युगलम्. 3 पफ युग्मम् , ज युगलम्. 4 पफ वेनाकृष्टेन,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org