________________
-४३. ४.] पाण्डरकौरवकथानकम्
२०५ गङ्गासुतेन तेनापि पश्चिमोत्तरपूर्वतः । आव्रजन् प्रतिषिद्धोऽसौ प्रेषितो दक्षिणाशया ॥ १६ ॥ नानानोकुहसंछन्ने नानानगविराजिते । प्रविष्टस्तत्र मातङ्गः कानने प्रीतमानसः॥१७॥ . धीवरेण ततस्तेन सुता योजनगन्धिका । शान्तनाय नरेन्द्राय वितीर्णा विधिना तदा ॥१८॥ कालेन तनया जातास्तेन तस्यास्त्रयोऽनघाः। चित्रो विचित्रनामा च चित्राङ्गस्ते यथाक्रमम् ॥१९॥ चित्रस्याम्बाऽभवद् भार्या विचित्रस्याम्बिका तथा। चित्राङ्गदस्य चान्तस्य विचित्रा बालिकाभिधा २० । कालगोचरतां प्राप्ते शान्तने धरणीपतौ । बबन्ध वसुधापर्ट भीष्मोऽप्येषां यथाक्रमम् ॥ २१ ॥ सक्रमं संप्रदायैषां राज्यं विगतकण्टकम् । भीष्मोऽपि तान् जगादेति विनयानतमस्तकान् ॥२२॥ जातुचिदक्षिणाशायां स्थितं भीमं महावनम् । मा गच्छत गजान् धर्तुं भ्रातरः शिशुचापलान् ॥२३॥ स्तोककालं विहायैतां दिशं दक्षिगगोचराम् । भूयोऽपि वारिताः सन्तो जग्मुस्ते कुञ्जरार्थिनः॥२४॥ गजेन भीष्मपुत्रेण तत्रत्येन गरीयसा । त्रयोऽपि ते हतास्तत्र युगपद् भ्रातरः क्रुधा ॥ २५॥ ॥ मृतेषु तेषु सर्वेषु भीष्मपुत्रगजाहतेः । बभूव राज्यविच्छेदं पुत्रसंतानहानितः ॥ २६ ॥ तदा योजनगन्धाया व्यासो नाम महामुनिः । स्मृति मृतः समानीतो जटामुकुटभीषणः ॥ २७॥ पिधाय लोचने स्वस्य चीरचीरिकया तदा । अम्बायास्तस्य सामीप्यं गतायाः संततीच्छया ॥२८॥ उत्पादितः सुतोऽनेन व्यासेनापि तपखिना । धृतराष्ट्राख्यया युक्तो लोचनाभ्यां परिच्युतः ॥२९॥ अम्बिकाया द्वितीयाया विधायापाण्डुतां तनुम् । गताया व्याससामीप्यं पुत्रसंततिकारणात् ॥३०॥" व्यासेन नन्दनो जातो नन्दिताशेषबान्धवः । पाण्डुनामा महासत्त्वो रूपराजितविग्रहः ॥ ३१ ॥ विधाय तनुसंस्कारं सुरविद्याधरोपमम् । जगाम बालिकाऽभ्याशं तदा व्यासमहामुनेः ॥ ३२॥ विधाय सुरतं हृद्यमनया सह सादरम् । सुतमुत्पादयामास व्यासोऽपि विदुराभिधम् ॥ ३३॥ एवमेकैकमुत्पाद्य तनयं तिसृणामपि । व्यासो योजनगन्धायाः स्तुतिं कृत्वा जगाम सः॥ ३४॥ तस्मिन् व्यासमुनौ याते खमनोगतमादरात् । बभूव भूपतिः पाण्डुस्तदानीं पार्थपत्तने ॥ ३५॥" तस्य भार्या मनःकान्ता कुन्ती मद्री च भूपतेः । अभवद् रूपसंपन्ना पतिस्नेहपरायणा ॥३६॥ पाण्डुना मृगमध्यस्थो मृगचारी मुनिर्वने । चापमुक्तेन बाणेन निशितेन निपातितः ॥ ३७॥ अधिरूढेन तेनापि मैथुनार्थं स्वयोषिति । प्रियमाणेन संदत्तोऽभिशापोऽस्य महीपतेः ॥ ३८॥ अधिरूढः स्वभार्यायां दुराचार भवानपि । विदीर्णहृदयः पाप मरिष्यसि विसंशयम् ॥ ३९ ॥ दत्त्वा शापं नृपस्यास्य स मुनिः पञ्चतामितः । ब्रह्मवैरं समादाय तस्थौ पाण्डुश्च शङ्कितः॥४०॥ कुन्ती च विद्ययाहूय व्यासेन वरदत्तया । पुत्रार्थ रतिवेलायां धर्म वातं पुरन्दरम् ॥४१॥ एभिः समं समासंगं कृत्वा किल जनोक्तितः । पुत्रं युधिष्ठिरं भीमं तथाऽर्जुनमजीजनत् ॥४२॥ मद्री चाश्चिनिदेवाभ्यां सह कृत्वा समागमम् । नकुलं सहदेवेन समं पुत्रमजीजनत् ॥४३॥ कृतं पाण्डुमतेनेदं कुन्या मद्या च कान्तया । जुगुप्तितमपि क्षिप्रं मुनिशापभयाद्भुवि ॥४४॥ उक्तमत्र यदस्माभिर्विरुद्धमपि भूतले । तन्मिथ्यादृष्टिसंवादात् तत्कथानकसंभवात् ॥४५॥ ॥ एतद्विचार्यमाणं हि वचनं बुधसंसदि । घटामघटते नात्र महापुरुषदोषतः ॥ ४६॥ एका न विद्यते जातु कामिनी कामिनामपि । महासत्ववतां तेषां कुलजानां कथं भवेत् ॥४७॥
__1 पफ यातास्तेन. 2 [चान्त्यस्य ]. 3 पफ युग्मम् , ज युगलम्. 4 पफ गोचरम्. 5 पफ युकलोचनाभ्यां. 6 पफ युग्मम् , ज युगलम्. 7 ज महामुनिः. 8 पफ जाते. 9 पफ युग्मम्,ज युगलमू. 10 [जुगुप्सितमपि].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org