________________
२०४ हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ०२. २८अमीभिः पञ्चमिदृष्ट्वा तदा स्वगृहमागतम् । बद्धा कडारपिङ्गं च निक्षिप्तोऽधः पथे पुनः ॥२८॥ षण्मासावधिपर्यन्ते स्वर्णद्वीपान्तरादरम् । कुबेरदत्तो बोधिस्थः संप्रापत् खपुरं पुनः॥२९॥ तदा कडारपिङ्गोऽपि चञ्चूपक्षादिभूषितः । तत्पक्षिरूपसंपन्नो नीतो भूपान्तिकं नरैः ॥ ३०॥
दृष्ट्वा पुरःस्थितं राजा पक्षिणं पूर्ववर्णितम् । जगाद जल्प जल्पेति किंचिद्विस्मितमानसः ॥३१॥ 5 आकर्ण्य नरसिंहस्य वाक्यं विस्मितचेतसः । सामन्तमत्रिसेवस्य जगादेदं स तत्पुरः ॥ ३२॥
पृथिवीपालनासक्त नरेन्द्र कृतशासन । भूपाहं किं प्रजल्पामि न किं जल्पामि दुःखितः ॥३३॥ निशम्य तद्वचो राजा विस्मयव्याप्तमानसः । कृताञ्जलिपुटान् सत्यान् बभाणेति कुतूहलात् ॥३४॥ सत्यं कडारपिङ्गोऽयं मन्महत्तरनन्दनः । मया शब्देन विज्ञातश्चञ्चूपक्षादिसंयुतः ॥ ३५ ॥ ततो नरेन्द्रवाक्येन विज्ञातः सकलैर्जनैः । नूनं कडारपिङ्गोऽयं न चान्यो नरकुञ्जर ॥ ३६॥ ॥ ततः कुबेरदत्तोऽपि सभाध्यक्षं महीपतिम् । कडारपिङ्गवृत्तान्तं समस्तं निजगाद सः ॥ ३७॥
वचः कुबेरदत्तस्य निशम्य वसुधाधिपः । बभूव भासुराकारः सर्पिषेव तनूनपात् ॥ ३८॥ ' सर्वखहरणं कृत्वा मत्रिणः सुमतेस्तदा । राजा कडारपिङ्गं च जग्राह क्रोधभीषणः ॥ ३९ ॥
खरादिरोहणं तूर्णं पञ्चबिल्वविबन्धनम् । तदा कडारपिङ्गस्य कारयामास भूपतिः॥४०॥
जनधिक्कारमासाद्य साधुलोकजुगुप्सितम् । नरसिंहमहीपालात् पत्तनादपसारणम् ॥४१॥ 15 कालेन पञ्चतां प्राप्य दुःखाकुलितमानसः । तदा कडारपिङ्गोऽयं नरकं प्राप भीषणम् ॥ ४२ ॥
॥ इति श्रीकडारपिङ्गकथानकमिदम् ॥ ८२॥
..
.
८३. पाण्डवकौरवकथानकम् । कुरुजाङ्गलदेशेऽस्ति पुरं नागपुरं परम् । कुरुवंशसमुद्भूतः शान्तनोऽत्र नरेश्वरः ॥१॥ लावण्यरससंपूर्णा शोभना जनविश्रुता । बभूव तन्महादवी गङ्गा गङ्गेव वारिधेः॥२॥ " अनयोः स्नेहसंसक्तचेतसोर्भुवि विश्रुतः । भीष्मनामाऽभवत् पुत्रः पितृस्नेहपरायणः ॥३॥ कालेन पञ्चतां नीता गङ्गा शान्तनवल्लभा । तदभावे सुखं कृत्वा बभूवायं विशोककः ॥४॥ अत्रैव नगरे दिव्ये गङ्गाख्यो धीवरोऽभवत् । रमणी रमणीयाङ्गी गङ्गाऽस्य मनसः प्रिया ॥५॥ सुता योजनगन्धाऽस्या रूपयौवनराजिता । नीलोत्पलदलश्यामा कन्दोट्टदललोचना ॥६॥ अन्यदा तगृहं प्राप्य भीष्मो योजनगन्धिकाम् । पित्रथै गङ्गनामानं ययाचे धीवरं तदा ॥७॥ " भीष्मवाक्यं समाकर्ण्य कैवर्तोऽपि जगावमुम् । भवत्कुलं महद् धीमन्नस्मदीयं जुगुप्सितम् ॥८॥ ददामि चेत्सुतां राजन् भवत्ताताय निश्चितम् । सुतोऽस्या यदि जायेत न राज्यं तस्य जातुचित् ॥९॥ धीवरस्य वचः श्रुत्वा जगौ भीष्मोऽपि तं पुनः । निवृत्तिर्मम राज्यस्य यावज्जीवं हि गङ्गकः ॥१०॥ निशम्य भारतीमस्य गङ्गोऽपि निजगावमुम् । त्वमिच्छसि न राज्यं चेत् भवत्पुत्रः करिष्यति ॥११॥
कैवर्तवचनं श्रुत्वा भीष्मः प्रोवाच तं तदा । कौमारब्रह्मचर्य मे गृहीतं सार्वकालिकम् ॥ १२॥ • शपथार्थं च तेनाशु कैवर्तेन शिलोपरि । भीष्मोऽपि धारितस्तत्र स्वप्रयोजनहेतुतः ॥१३॥
उपविष्टस्य तस्यापि शिलोपरि शनैः शनैः । शुक्रबिन्दुः पपाताशु तदानीं दैवयोगतः ॥१४॥ तद्विन्दुना समुत्पन्नस्तत्क्षणेन शिलोपरि । महामतङ्गजस्तुङ्गः सितदन्तविराजितः ॥१५॥
. 1 पफ युग्मम् , ज युगलम्. 2 [ सभ्यान् ]. 3 ज सत्याः, [ सभ्याः ]. 4 पफ युग्मम् , ज युगलम्. 5 [गाक].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org