________________
२०३
-८२. २७ ]
कडारपिङ्गकथानकम् मृतामिमां श्मशानस्थां कुथितां कामसुन्दरीम् ।ध्यायन्न लजितोऽसि त्वं स्वभूतेभ्योऽधुना मुने॥११२॥ श्रुत्वा गुरूदितं वाक्यमवसानहितं तराम् । चकारालोचनां सर्वां स्वगुरोरन्तिके सकः ॥११३॥ प्रायश्चित्तमिदं कृत्वा तदानीं गुरुसाक्षिकम् । द्वीपायनस्तपश्चके स्वर्गमोक्षप्रसाधकम् ॥ ११४ ॥
॥ इति श्रीगोचरसंगीव्याख्यानमिदम् ॥ ८१॥
८२. कडारपिङ्गकथानकम् । काम्पिल्यनगरे श्रीमान्नरसिंहो नरेश्वरः । तद्भार्या कमला नाम बभूव कमलानना ॥१॥ तन्मत्री सुमति म धनश्रीरस्य कामिनी । पुत्रः कण्डारपिङ्गोऽभूदनयोः प्रेमरक्तयोः ॥२॥ महिलाव्यसनयुक्तो नितरां राजवल्लभः । निषेवते हठात् सोऽयं खेच्छया पुरयोषितः॥३॥ लोकोऽपि तस्य चापल्यं निवेदयितुमक्षमः । वल्लभस्य नरेन्द्रस्य द्वेषी चित्तेन तिष्ठति ॥४॥ तत्रैव नगरे श्रेष्ठी विद्यते नृपवल्लभः । कुबेरोपपदो दत्तो महाधनसमन्वितः ॥ ५॥ ॥ प्रियङ्गुसुन्दरी तस्य रमणी रूपसुन्दरी । महासौभाग्यसंपन्ना बभूव जनविश्रुता ॥६॥ दृष्ट्वैतां रूपसंपन्नां रतिं वा सतनुं तदा । जातः कडारपिङ्गोऽसौ मदनाकुलमानसः ॥७॥ सरस्यां पद्मिनीखण्डे नन्दने चारुचन्दने । धृति कडारपिङ्गोऽयं न लेभे तन्निरीक्षणात् ॥ ८॥ पुत्रं कडारपिङ्गाख्यं कामविह्वलमानसम् । जगाद सुमतिर्मत्री शोकवान् किं वदाशु मे ॥९॥ पितुर्वचनमाकर्ण्य मुञ्चन्निःश्वाससंततिम् । उष्णां बभाण तं तत्र वेपमानशरीरकः ॥ १०॥ ॥ कान्तां कुबेरदत्तस्य यदि प्राप्नोमि निश्चितम् । प्रियङ्गुसुन्दरीं तात ततो जीवामि नान्यथा ॥१२॥ श्रुत्वा पुत्रोदितं वाक्यं सुमतिः सुमतिस्तदा । मृत्युमाशङ्कमानोऽस्य जगाम नृपसंनिधिम् ॥१२॥ विधाय प्रणति मत्री नरेन्द्रस्य प्रयत्नतः । यथोचितासने स्थित्वा जगादेति विचक्षणः ॥ १३॥ श्रेष्ठी कुबेरदत्तोऽयं लवणाम्बुधिमध्यगम् । किंजल्पपक्षिणं लातुं स्वर्णद्वीपं व्रजत्वरम् ॥ १४ ॥ पतत्रिणोऽस्य सामर्थ्याद् दुर्भिक्षारिविनाशनम् । जायते राज्यवृद्धिश्च भवदारोग्यकारणम् ॥१५॥ मत्रिवाक्यं समाकर्ण्य नरसिंहो भुवः पतिः । कुबेरोपपदं दत्तमाजुहाव स्वकान्तिकम् ॥ १६ ॥ आगत्येशं प्रणम्यायं यथास्थानं निविश्य च । जगाद भूपति श्रेष्ठी नाथ किं क्रियतां वद ॥१७॥ वाक्यं कुबेरदत्तस्य निशम्य धरणीपतिः । वचसाऽतिप्रयत्नेन बभाणेमं पुरस्थितम् ॥१८॥ त्वयाऽवश्यं प्रगन्तव्यं स्वर्णद्वीपं समुद्रजम् । किंजल्पनीड शीघ्रमानेतुं हि मदन्तिकम् ॥१९॥ नरेश्वरोदितं श्रुत्वा प्रतिपद्य तदग्रतः । प्राप्य भार्याऽन्तिकं श्रेष्ठी जगादैतां पुरःस्थिताम् ॥ २० ॥ अहं नरेशिना कान्ते स्वर्णद्वीपान्तरं द्रुतम् । किंजल्पाण्डजमानेतुं स्वहस्तेन विसर्जितः ॥ २१ ॥ तद्वृत्तान्तविशेषज्ञा भर्तृभक्तिपरायणा । प्रियङ्गुसुन्दरी प्राह तदुक्त्या निजवल्लभम् ॥ २२ ॥ कृतं कडारपिङ्गेन भर्तः सर्वमिदं ध्रुवम् । मच्छीलखण्डनार्थं च विद्धि मद्वचनं हितम् ॥ २३॥ अवधार्य वचः सत्यं स्वप्रियाया वणिक्पतिः। आपृच्छय भूपतिं प्राप्य निर्जगाम तदालयात् ॥२४॥ बोधिस्थेन समं गत्वा स्वर्णद्वीपं प्रति स्फुटम् । निवृत्त्याविदितो लोकैः तस्थौ स निजमन्दिरम् ॥२५॥ ॥ अथ कामग्रहासंगविह्वलीभूतमानसः । तदा कडारपिङ्गोऽरं श्रेष्ठिमन्दिरमाययौ ॥ २६॥ वसन्तः सागरो धन्यः शिवेन सह पुण्यकः । प्रियङ्गुसुन्दरीभृत्याः पञ्चाप्यते प्रियंवदाः ॥ २७॥
____1 पफ चतुःकुलकम् , ज चतुष्कलकमिदम्. 2 [गोचरसंदीवाख्यान ]. 3 [कडारपिङ्गो]. 4 पफ युग्मम्, ज युगलम्. 5 पफ युग्मम्, ज युगलम्. 6 पफ युग्मम्, ज युगलम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org