________________
२०२ हरिषेणाचार्यकृते बृहत्कथाकोशे
[८१. ७८यत्नं कुरु त्वमेतस्य महता गौरवेण हि । यदन्यत्र प्रयात्येष हन्म्यहं त्वां ततः क्रुधा ॥ ७८॥ जितशत्रुवचः श्रुत्वा जगौ तं' कामसुन्दरी । यथाऽऽज्ञापयसि स्वामिंस्तथैव विदधाम्यहम् ॥७९॥ ताम्बूलभोजनेनास्य पुष्पगन्धानुलेपनैः । उपकारं चकारैषा स्नानवस्त्रप्रियोदितैः ॥ ८॥ अथोत्तरपथादेशादागते रत्नपादुके । प्राभृतार्थ नरेन्द्रस्य बहुमूल्यसमन्विते ॥ ८१॥ द्वीपायनाय ते दत्ते भूभुजा जितशत्रुणा । सोऽपि शीघ्रं समादाय ययौ निजगृहं मुदा ॥ ८२॥ वामपादं समादाय स्थितः स्थापयितुं तके । तदायं कामसुन्दर्या शोभने रत्नपादुके ॥ ८३॥ न दत्ते सापि ते दिव्ये विधातुं निजपादके । निरस्ता तेन तत्पादात् तदावत्खटिका द्रुतम् ॥८४॥ कुष्ठशीर्णं तदाऽङ्गुष्ठं विलोक्य सहसामुतः । दध्यौ द्वीपायनश्चित्ते तद्विरक्तमनाश्विरम् ॥ ८५ ॥ .
अनया कामसुन्दर्या कुष्ठदूषितदेहया । कामभोगान् प्रभुञ्जानो निहीनोऽहं कथं स्थितः ॥ ८६ ॥ " ततो निर्वेदमासाद्य मुनिसागरपर्वते । विमलोपपदं चन्द्रं संघयुक्तं जगाम सः ॥ ८७॥ प्रणम्येम गुरुं भक्त्या महावैराग्यसंगतः । द्वीपायनो दधौ दीक्षां तदन्ते जिनसेविताम् ॥ ८८॥ प्रतिक्रमणवेलायां स्वाध्यायानेहसि स्फुटम् । जिनस्तुतिं विधायासौ दध्यौ तामेव सुन्दरीम् ॥८९॥ कष्टं भार्या कथं त्यक्ता मया सा चित्तहारिणी । कुष्ठशीर्णतदङ्गुष्ठदोषेणैकेन निश्चितम् ॥ ९० ॥
ज्ञात्वा तच्चञ्चलं चित्तं यतीशो विषयोन्मुखम् । तद्धर्म कथयामास महाज्ञानसमन्वितः ॥ ९१॥ . 15 रमणीभिः समं मैत्री संध्यारागसमन्विता । किंपाकफलसादृश्यं तत्सुखं क्षणभङ्गुरम् ॥९२॥
यथा यथाऽबलां हृद्यां नितान्तं मन्यते नरः । तथा तथा पराभूतिं करोत्येषाऽस्य सर्वदा ॥ ९३॥ यथा यथा स्त्रियं हृष्टस्तरां कामयते नरः । तथा तथाऽस्य संसक्ता करोत्येषा विमानवम् ॥ ९४॥ श्रुत्वा तद्वचनं सोऽपि महावैराग्यसंगतः । बभूव लजितः स्वस्य तद्विरक्तमनःक्रियः ॥ ९५॥ तद्दिने विगते साऽपि गणिका नृपभीतितः । उल्लम्ब्य खं ममाराशु तदानीं कामसुन्दरी ॥ ९६ ॥ 20 अन्ये वदन्ति तत्रत्याः पूर्वप्रेमानुरागतः । मातङ्गेन मृतिं नीता सका भूपतिशासनात् ॥ ९७॥
आदाय शर्वरीमध्ये तदानीं कामसुन्दरीम् । मातङ्गोऽपि मुमोचैतां श्मशाने जीववर्जिताम् ॥ ९८॥ विकटास्थिशिराजालकुथिताखिलविग्रहा । संतिष्ठते श्मशाने सा मण्डलादिसमन्विते ॥ ९९ ॥ द्वीपायनमुनिस्तत्र स्वाध्यायादिक्रियाविधौ । एकाग्रमानसो भूत्वा ध्यायतीमां मुहुर्मुहुः ॥१०॥ पादाङ्गुष्ठो यदि स्पष्टं विनष्टः कुष्ठतोऽमुतः । मुखाक्षिभ्रूस्तनादीनां विलासः शोभनः पुनः॥१०१॥ " रामारत्नं विहायेदं सर्वस्त्रीतिलकं तराम् । अङ्गुष्ठकुष्ठदोषेण मया मुक्तं हि तत्कथम् ॥ १०२॥
ज्ञात्वाऽभिप्रायमेतस्य स्मृतभार्यागुणस्य सः । तद्गुरुः प्राह तं तत्र ज्ञाताखिलपदार्थकः ॥ १०३॥ द्वीपायनं पुरस्कृत्य तदन्तं प्राप्य तद्गुरुः । मुक्त्वाऽत्रैव जगामाशु स्तोकान्तरमसौ सुधीः ॥१०४॥ मुहूर्तमेकमास्थाय तदन्ते स मुनिस्तदा । घ्राणं पिधाय हस्तेन तस्थौ विस्मितमानसः ॥ १०५॥ यथाचार्यों व्रजत्यस्मद्धामतः क्षणमात्रतः । ततो दुर्गन्धमेतस्या निहन्म्यौषधयोगतः ॥ १०६॥ ॥ एवं चिन्तयतस्तस्य द्वीपायनमुनेस्तदा । आचार्योऽपि तदन्तं च संप्राप्तस्तदनन्तरम् ॥ १०७॥ दृष्ट्वा द्वीपायनं तत्र तदाकुलितमानसम् । जगादति वचः सत्यं तद्गुरुस्तद्धितेच्छया ॥१०८॥ त्वया राज्यमिदं हित्वा प्रणताशेषशात्रवम् । धनधान्यसमाकीर्णं यशोव्याप्तदिगन्तरम् ॥ १०९ ॥ अन्तःपुरं समस्तं च सुरदेवीसमप्रभम् । हावभावविलासेन विभ्रमेण समन्वितम् ।। ११०॥ तपो जैनेश्वरं सारं गृहीत्वा शक्रवाञ्छितम् । समस्तशेखरीभूतमनर्व्यमणिवद्भुवि ॥ १११॥
1 पफ ता. ५ ज खटिका सडिता. : पफज चतुर्भिः कुलकम् .
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org