________________
-८1. ७७] द्वीपायनकथानकम्
२०१ आदेशेन नरेन्द्रस्य जनाः खनति खातिकाम् । अतो मुनेः' सहायत्वमस्माकं भव सांप्रतम् ॥४६॥' श्रुत्वा तद्वचनं योगी जगादैतान् पुरःस्थितान् । पुरे भिक्षां विधायाशु खनिष्ये खातिकामतः॥४७॥ तन्मुक्तो नगरस्यान्तः प्रविष्टः स दिगम्बरः । दृष्टोऽयं कामसुन्दर्या स्वगृहाजिरमागतः ॥४८॥ कामसुन्दरिकां दृष्ट्वा कामाकुलितमानसः। ततो निवृत्तमानः सन् ब्राह्मणैगदितो मुनिः॥४९॥ आकर्ण्य तद्वचः साधुर्बभाणैतान् रुषं गतः । खातिकाऽर्थं च कुद्दालं समर्पयत मेऽधुना ॥ ५० ॥ तद्वाक्यतोअर्पितो विप्रैः कुद्दालमभिमत्रयन् । यावजलं खशक्त्यैष चखान धरणीमरम् ॥ ५१ ॥ खात्वा तत्र भुवं तेन मुक्त्वाऽमुं सहसा मुनिः । जगाम क्षुत्परिश्रान्तो मुनिसागरपर्वतम् ॥५२॥ गत्वा तं पर्वतं साधुनानातरुसमाकुलम् । रूपं हि कामसुन्दर्या विलिखन् व्यवतिष्ठते ॥ ५३॥ तत्खातिकाप्रहारेऽत्र दत्ते सति तपस्विना । प्रवृत्तं तजलं गन्तुं बाह्याभ्यन्तरतः पुरः ॥ ५४॥ ततो नृपगृहं व्याप्तं बाह्येनाभ्यन्तरेण च । खातिकाजलपूरेण महाप्लवविधायिना ॥ ५५ ॥ ॥ तद्वातों सकलां ज्ञात्वा तदा जनसमूहतः। समाकुलो बभूवायं जितशत्रु रेश्वरः ॥५६॥ सामन्तसचिवानां हि तलवर्गपुरोधसाम् । समस्तप्रकृतीनां च योषितोऽगुस्तदन्तिकम् ॥ ५७ ॥ असमर्था वशीकर्तुं द्वीपायनमुनि पुनः । जग्मुर्युवतयः शीघ्रं निजगेहं विचेतसः ॥ ५८॥ ततो गतप्रभा रामा मुनिना विहितास्तदा । स्वयमेव जगामाशु तदन्तं कामसुन्दरी ॥ ५९॥ हत्वाऽमुं पादघातेन वशीकृत्य स्वरूपतः । द्वीपायनमुनि निन्ये खगेहं कामसुन्दरी ।। ६०॥ . 15 मानं महाव्रतं हित्वा तदा द्वीपायनो मुनिः। कामभोगांस्तया साधं भुञ्जानो व्यवतिष्ठते ॥६१॥ अक्षोभ्योऽलङ्घनीयोऽन्यैर्गम्भीरो गुणसागरः । रामासंगेन तन्निन्द्यो बभूवासौ धरातले ॥ ६२॥ सुवर्णागसमुत्तुङ्गो धरणीसमविभ्रमः । तृणसारो बभूवायं योषासंगेन तत्क्षणात् ॥ ६३॥ साधुगन्धगजोत्तुङ्गो मन्दमन्दगतिक्रियः । स्त्रीकरेणुसमासक्तो वारिबन्धं गतः कथम् ॥ ६४ ॥ ज्ञानदर्शनचारित्रतपोब्रह्मसमन्वितः । सद्ध्याननष्टचेतस्को जातोऽसौ स्त्रीप्रसङ्गतः ॥ ६५ ॥ एवं द्वादशवर्षाणि भुञ्जानस्यास्य शं तराम् । तदानीं कामसुन्दर्या गतो मोहो हि तत्पुरे ॥६६॥ अन्यदागत्य वेगेन श्रीमदुज्जयनी पुरीम् । वेष्टयित्वा स्वसैन्येन रुद्धा तेन समन्ततः॥ ६७॥ कलकोलाहलध्वाननादिताशेषपुष्करः । तस्थौ जनाहितो धीरमुदीर्णबलवाहनः ॥ ६८॥" तत्रत्यस्य सुतस्यास्य लेखं द्वीपायनस्तदा । शुकतुण्डस्थितं कृत्वा प्रेषयामास सत्वरम् ॥ ६९ ॥ अहं द्वीपायनः पुत्र त्वत्पिता व्रतखण्डनम् । विधायावस्थितोऽत्रैव नगरे त्वद्भयाकुले ॥ ७० ॥ लेखार्थे शुकतुण्डस्थमवधार्य सुभूपतिः । महावैराग्यसंपन्नो बभूव क्षणमात्रतः ॥७१॥ श्रीमदुजयनीको विहाय जनकोक्तितः । श्रावस्ति प्रययौ तूर्णमुदीर्णबलवाहनः ॥ ७२ ॥ खसुताय निजं राज्यं दत्त्वा वैराग्यसंगतः। यशोधरगुरोः पार्थे स दीक्षामग्रहीत् तदा ॥ ७३ ॥ जितशत्रुः परिज्ञाय गतं परबलं पुरात् । द्वीपायनमतेनास्य पूजां चक्रे धनादिकम् ॥ ७४ ॥ द्वीपायनाय तोषेण सर्वाङ्गीणेन सत्वरम् । जितशत्रुर्जनाध्यक्षं महामत्रिपदं ददौ ॥ ७५॥ " यत्पुनः प्राभृतं पूर्वं बहुमूल्यं दिने दिने । जितशत्रुर्ददात्यस्मै महातोषसमन्वितः ॥ ७६ ॥ पूजयित्वा धनैर्बाढं द्वीपायनमनेकशः । जितशत्रुर्बभाणेदं वचसा कामसुन्दरीम् ॥ ७७॥
1 [मुने सहायस्त्व॰]. 2 पफ युग्मम् , ज युगलम्. 3 [मौनं]. 4 ज मन्दं मन्द. 5 पफ वीरमुद्दीर्ण". 6पफ युग्मम् , ज युगलम्. 7 पफ द्वीपायिनः 8 पफद्वीपायिनः. 9 पफ तूर्णमुहीर्ण. 10 पफ द्वीपायनेन.
वृ• को. २६
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org