________________
२०० हरिषेणाचार्यकृते बृहत्कथाकोशे
[८१. १३अधुना चूतवृक्षोऽयं फलपुष्पादिसंपदा । नूनं विनाशमायातो कथितोऽस्य मया नृप ॥१३॥ चूतं विनष्टमालोक्य मूलतो नरकुञ्जरः । महावैराग्यमापन्नो दध्यौ मनसि धीरधीः ॥ १४ ॥ धनं यौवनमायुश्च रूपं सौभाग्यमेव च । अनित्यं सर्वमेवेदं शकचापमिव क्षितौ ॥१५॥
एवं विचिन्त्य शुद्धात्मा महावैराग्यसंगतः । समाहूय सुतं ज्येष्ठमुदीर्णबलवाहनम् ॥ १६ ॥ 5 प्रदाय सकलं राज्यं सुतायास्मै नरेश्वरः । प्रणम्योत्तरसूर्याख्यं गुरुं दीक्षामशिश्रियत् ॥ १७ ॥ द्वीपायनमुनिस्तूर्णं पठित्वाऽऽगममञ्जसा । गुरुणा सर्वसंधेन संप्राप्तोजयनी पुरीम् ॥ १८॥ द्वीपायनमुनिस्तत्र मुनिसागरपर्वतम् । प्राप्य वैराग्यसंपन्नो वसति प्रीतमानसः ॥ १९॥ . नरवृन्दारकः श्रुत्वा मुनिवाता जनौघतः । तद्वन्दनार्थमायातस्तदुद्यानवनं परम् ॥ २० ॥ तत्र दृष्ट्वा मुनीन् सर्वान् वन्दित्वा भक्तितो नृपः। द्वीपायनमुनिं नैकं पश्यति प्रीतिकारणम् ॥२१॥ 10 ततो नरेश्वरः प्राप्य मुनिसागरपर्वतम् । दृष्ट्वामुं तत्र भावेन ववन्दे तत्क्रमद्वयम् ॥ २२ ॥
अन्यदा कोकिलाशब्दं पूर्णिमायां निशम्य सः । बभाण संघमध्यस्थो योगी योगिकदम्बकम् ॥२३॥ संघमध्येऽद्य यो योगी भिक्षार्थ कोऽपि यास्यति । पुरीमुज्जयनीं तस्य व्रतभङ्गो भविष्यति ॥२४॥ निशम्य तद्वचोऽमोघं तदा केचिदिगम्बराः । उपवासं विधायात्र तस्थुर्विस्मितचेतसः ॥ २५॥
उपवासपरिश्रान्ताः पारणार्थं कृतोद्यमाः । ग्राममन्यं परे जग्मुर्वालवृद्धतपोधनाः ॥ २६ ॥ 15 द्वीपायनमुनिस्तत्र तद्वचोऽसत्यतां विदन् । पारणार्थं परिणाप श्रीमदुजयिनी पुरीम् ॥ २७ ॥ विद्यतेऽस्यां नराधीशो जितशत्रुर्जिताहितः । भार्या कनकमालाऽस्य कनकोज्वलविग्रहा ॥ २८ ॥ काशीजनपदे रम्ये वाराणस्यां नराधिपः । श्रीमान् श्रीधर्मनामासीच्छ्रीमती तप्रिया प्रिया ॥२९॥ रूपयौवनसंयुक्ता श्रीकान्ता तनयाऽनयोः । स्ववक्रजितचन्द्रास्या तत्सखी कामसुन्दरी ॥३०॥
देवकन्येव सा तन्वी रूपयौवनगर्विता । जितशत्रोनरेन्द्रस्य जाता साऽत्यन्तवल्लभा ॥ ३१॥ 20 वरूपजितपौलोमी पीनोन्नतकुचद्वया । श्रीकान्ता दुर्भगा जाता जितशत्रोविधेर्वशात् ॥ ३२॥ ... एवं गतवति स्पष्टं श्रीकान्तायास्त्वनेहसि । ततः प्राप्य तं वक्ति जनकं जनितादरम् ॥ ३३ ॥
पट्टबन्धा महादेवी संजाता कामसुन्दरी । जितशत्रोरहं द्वेष्या तिष्ठामि च तदन्तिके ॥ ३४ ॥ निशम्य स्वसुतावाक्यं तत्पित्रा प्रीतचेतसा । श्रीकान्ता कामसुन्दा तेनानीतं स्वपत्तनम् ॥३५॥ क्रियमाणेऽन्यदा जातु तत्पुरे नखकर्मणि । श्रीकान्तायाः सुकान्ताया नापितेन विलासिना ॥३६॥ 25 नापितः कामसुन्दर्या यावन्नयति तान्नखान् । छेदं हि वामपादस्याङ्गुष्ठं तावत्समच्छिनत् ॥३७॥ . विषप्रयोगयोगेन वृषभेण नरेण तत् । तदा प्रच्छन्नतां नीतं वहन्नालिव्रणाशुचिम् ॥ ३८॥
अन्यदोजयनीं प्राप्य श्रीकान्ता भर्तुरन्तिकम् । संप्राप्ता कामसुन्दर्या कान्तवल्लभया तराम् ॥३९॥ जितशत्रुर्विलोक्येमां वल्लभां कामसुन्दरीम् । कुष्ठशीर्णतदङ्गुष्ठां तद्विरक्तोऽभवद् भृशम् ॥ ४० ॥
सुवर्णमयमङ्गुष्ठं वामपादे विधाय च । पण्यस्त्रीव्यवहारेण तस्थौ हि कामसुन्दरी ॥४१॥ ।। 30 अन्यदा भयतो नूनमुदीर्णबलवाहनात् । प्रदाय घोषणां शीघ्रं खातिकार्थ प्रयत्नतः ॥ ४२ ॥
श्रीमदुजयनीलोकं बालवृद्धपुरस्सरम् । आहूतवान् तदा स्पष्टं जितशत्रुः ससंभ्रमः ॥४३॥ द्वीपायनमुनिस्तत्र गृहपंक्त्या भ्रमन् क्रमात् । समाययौ तमुद्देशं बहुलोकसमावृतम् ॥ ४४ ॥ दृष्ट्वा मुनिं समायातं तत्रत्या बहवो नराः । इदमूचुस्तदा क्रूरा कृतकोलाहलखनाः ॥ ४५ ॥
... 1 पफ चतुष्कुलकम् , ज चतुष्कुलकमिदम्. 2 पफ त्रिकलम् , ज त्रिकलमिदम्. 3[संप्रापोज्जयिनी]. 4 जमुनिनैकं. 5 पफ श्रीमदुनयनी, 6पफ युग्मम् , ज युगलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org