________________
द्वीपायनकथानकम्
१९९
अन्योन्यप्रेमसंयुक्तवाञ्छितमनसोस्तराम् । सौधर्मादेत्य संजातः ' शिवशर्माऽनयोः सुतः ॥ ५६ ॥ श्रवणत्वं परिप्राप्य देवानामपि दुर्लभम् । हित्वा तपोऽपि जैनेन्द्रं संप्राप्तोऽहं गृहस्थताम् ॥ ५७ ॥ अन्यजन्मनि या भार्या खेचरी मम वल्लभा । सौधर्मादेत्य संजाता लिंखिका' सेह सांप्रतम् ॥५८॥ अनया सह भुञ्जानः कामभोगान् मनोरमान् । पर्यटन् विविधान् देशान् संप्राप्तोऽहं पुरोत्तमम् ॥५९॥ विद्याधरा मरेर्यो न तृप्तिमुपागतः । स कथं लेखिकाभोगैस्तृप्तिं यास्यामि सांप्रतम् ॥ ६० ॥ एवं विचिन्त्य बुद्धात्मा नृत्यारम्भं विहाय च । वेणोर्मस्तकतः क्षिप्रं समुत्तीर्णो भुवस्तलम् ॥ ६१ ॥ साऽपि विद्येश्वरी भूत्वा स्ववंशशिरसो द्रुतम् । उत्तीर्णा तोषसंपूर्णा मन्दमन्दगतिक्रिया ॥ ६२ ॥ एवं कृते सति स्पष्टं पूर्वजन्मनि संचिताः । विद्याः समागताः सर्वाः किंकर्तव्यसमाकुलाः ॥ ६३ ॥ अथ श्रेणिकराजोऽपि दृष्ट्वा विद्यास्तदन्तिके । पप्रच्छेमं यथावृत्तं कौतुकव्याप्तमानसः ॥ ६४ ॥ श्रेणिकस्य वचः श्रुत्वा वारत्रेण कुतूहलात् । विद्याधरादिकं सर्वं यथाक्रममुदाहृतम् ॥ ६५ ॥ श्रुत्वाऽतिशयमीदृक्षं तदानीं बहवो नराः । भोगाद् विरममासाद्य बभूवुः श्रमणोत्तमाः ॥ ६६ ॥ केचिच्छ्रावकतां प्राप्ताः केचिन्मध्यस्थतां पराम् । केचिज्जिनस्य धर्मस्य प्रशंसां चक्रिरे तराम् ॥६७॥ वात्रोऽपि विधायाशु प्रायश्चित्तं विशुद्धधीः । गुरोर्दमवरस्यान्ते दधौ दैगम्बरं व्रतम् ॥ ६८ ॥ श्रेणिकोऽपि महाराजस्तत्तपश्चरणे दिने । चक्रे महोत्सवं भक्त्या जनविस्मयकारणम् ॥ ६९ ॥ वराटविषये रम्ये दिशाभागे च पश्चिमे । वैराकरस्य सारस्य जनानन्दविधायिनः ॥ ७० ॥ विन्यानदीसमीपस्थं सालूरापणराजितम् । विहरन् स मुनिः क्वापि प्राप विन्यातटं पुरम् ॥ ७१ ॥ नानातपः प्रकुर्वाणो राद्धान्तकृतभावनः । तत्र कर्मक्षयं कृत्वा निर्वाणं गतवानसौ ॥ ७२ ॥ जिनधर्मं ससम्यक्त्वं गृहीत्वा लेखिकाऽपि च । बभूव श्राविकात्यन्तं तज्जनोऽपि तथाविधः ॥ ७३ ॥ ॥ इति श्रीशिववर्मविप्रवरत्राभिधानकथानकमिदम् ॥ ८० ॥
*
-८१.१२]
८१. द्वीपायनकथानकम् ।
कुलालाख्यजनान्ते च श्रावस्ती नगरी परा । अस्यां द्वीपायनो राजा तत्प्रिया च मनोरमा ॥ १ ॥ वसन्तसमये जाते वनं नन्दनसंनिभम् । रन्तुं गोचरसंदीवो ययावन्तः पुरान्वितः ॥ २ ॥ चूतवृक्षं विलोक्यात्र मञ्जरीभिः समन्वितम् । तन्मञ्जरीं समादाय चकार श्रवणे नृपः ॥ ३ ॥ दृष्ट्वा तन्मञ्जरीमेकां भूभुजः शिरसि स्थिताम् । स्कन्धावारेण सर्वेण लुण्टितोऽयं क्षयं ययौ ॥ ४ ॥ दृष्ट्वा क्षयं गतं चूतं नग्नाचार्येण केनचित् । तन्मूलमेकमादाय स्वशिखायां निवेशितम् ॥ ५ ॥ प्राध्वंकृत्य शिखायां तत्पुरो धावति भूपतेः । उच्चरन् सुगुणानस्य कृतकोलाहलध्वनिः ॥ ६ ॥ नग्नाचार्यशिखायां च बद्धं तं वीक्ष्य सांप्रतम् । ततो विस्मयमापन्नः पप्रच्छैतं स भूपतिः ॥ ७ ॥ चूतवृक्षो मया दृष्टो मञ्जरीपरिशोभितः । नग्नाचार्यः कुतो नात्र दृश्यते सोऽधुना वद ॥ ८ ॥ श्रुत्वा तद्वचनं वृद्धो जगादेति कुतूहली । एतन्नाशनिमित्तं श्रीभूप शृणु वदाम्यहम् ॥ ९ ॥ गच्छताऽत्र त्वया नाथ चुतस्य नवमञ्जरी । गृहीत्वा मस्तके न्यस्ता कौतुकव्याप्तचेतसा ॥ १० ॥ ७ त्वत्सैन्येन समस्तेन चूतस्येत्थं विलोक्य च । पत्रमूलादिकं सर्वं कृतं कर्णे पवित्रतः ॥ ११ ॥ पश्चात् समागतेनेदं चूतमूलं मया नृप । यत्नेन महता लब्धं शिखायां विनिवेशितम् ॥ १२ ॥
1 पफ संयातः 2 [ लेखिका ]. 3 ज मन्दं मन्द°. 4 पफ त्रिकलम् ज त्रिकलमिदम्. 5 पफ read श्रीत्रिकलमिशिव. 6. पफ द्वीपायिनो.
Jain Education International
15
For Private & Personal Use Only
20
25
www.jainelibrary.org