________________
१९८ हरिषेणाचार्यकृते बृहत्कथाकोशे
[८०. २३दृष्ट्वेमां लंखिकां तत्र कामविह्वलमानसः । तपो विहाय जैनेन्द्रं लंखिकाभ्याशमाप सः ॥ २३॥ दृष्ट्वाऽन्योन्यमुखाम्भोजं प्रीतिविस्फारितेक्षणौ । परस्परसुखासंगसक्तचित्तौ बभूवतुः ॥ २४ ॥ वरत्रारोपितस्कन्धमहिच्छत्रपुरं गतम् । दृष्ट्वाऽमुं ब्राह्मणाः सर्वे नागराश्च वदन्त्यलम् ॥ २५ ॥ भवतां कर्म नो योग्यमिदमागच्छ सत्वरम् । ब्राह्मणान्तं परिप्राप्य प्रायश्चित्तं कुरु स्फुटम् ॥२६॥ । पूर्वयाऽवस्थया तिष्ठ खगृहे निजलीलया । निजं कर्म प्रकुर्वाणैर्लज्यते न हि जन्तुभिः ॥ २७॥ श्रुत्वा तद्वचनं सोऽपि जगादतान् पुरः स्थितान् । शोभनावस्थया विप्राः स्थितोऽहं किंतु सस्पृहम्॥२८॥ अङ्गवेदचतुष्कं च मीमांसान्यायविस्तरम् । धर्मशास्त्रपुराणं च विद्यास्थानान्यमूनि च ॥ २९॥ विद्यास्थानेषु सर्वेषु शास्त्रेष्वन्येषु च द्रुतम् । यदि कोऽपि कृताभ्यासः समायातु ममान्तिकम् ॥३०॥
युष्माकं येन संदेहं निराकृत्य व्रजाम्यहम् । दूरं न याति यावच्च लंखिका मन्मनोहरी ॥ ३१ ॥ 10 अपकर्य वचस्तेषां निजविद्याबलेन सः । जगाम लंखिकाभ्याशं तद्गुणाकृष्टमानसः ॥ ३२ ॥
ततो द्वादशवर्षाणि निरूढ़ा तद्वरत्रिकाम् । लंखिकायाः प्रविज्ञानं विदांचक्रे स शोभनम् ॥३३॥ अन्यदा लंखिकायुक्तो विहरन् गतियोगतः । साधुलोकसमाकीर्णं सको राजगृहं ययौ ॥ ३४ ॥ कान्तासमन्वितस्यास्य श्रेणिकस्य पुरस्तदा । खड्गचापोपरि स्पष्टं चके नृत्यं स शोभनम् ॥ ३५॥
वैद्याधरं युगं दृष्ट्वा गगने शोभनाकृतिः । जातिस्मरो बभूवायं नर्तकः प्रीतमानसः ॥ ३६॥ 15 दृष्ट्येदं शोभनाकारं वार्तिको वरवर्त्मनि । दध्यौ विस्मितचेतस्कः श्रेणिकस्य सभान्तरे ॥ ३७॥
अत्रैव भरतक्षेत्रे विजयार्धस्य भूभृतः । दक्षिणस्या दिशो भागे प्रियंकरपुरे वरे ॥ ३८॥ प्रियंवरो नृपोऽत्रैव नगरे परमोदयः । महाव्रती महादेवी भूपतेरस्य शोभना ॥ ३९ ॥ सोऽहं तन्नन्दनः पूर्वभवे प्रीतिकरोऽभवम् । नानाविद्यासमासंगविज्ञातजनभावनः ॥४०॥
अन्यदा गगने गच्छन् वापी वालाम्बुगाभिधाम् । ददर्श कञ्जसंछन्नं वालवाजलसंभृताम् ।। ४१॥ 20 तत्समीपे मया दृष्टा लंखिकेयं पुराभवे । विद्याधरी महाविद्यां साधयन्ती मनोरमाम् ॥ ४२ ॥ वापीजलान्तरस्थाया मुखमालोक्य संमितम् । एतस्या भ्रमरो भूत्वा पद्मे लीनोऽहमुत्सुकः॥४३॥ तत्समीपं परिप्राप्य तन्मुखाम्भोजमाप्य सः । स्वरूपं दर्शयामास कृतलोककुतूहलम् ॥ ४४॥ ललाटपटविन्यस्तकरकुड्मलराजिता । जगौ विद्याधरं सा च प्रणम्येति कुतूहलात् ॥४५॥
मा तावच्छीघ्रगामिन्या विद्याया विघ्नकारकः। भव त्वं साध्यमानाया विद्याधरमहेश्वर ॥ ४६॥ 25 नूनं साधितविद्यस्य लोकद्वयविलासिनः । तव भार्या भविष्यामि प्रतिज्ञेयं महेश्वर ॥४७॥
श्रुत्वा तद्वचनं खेटस्तन्मतं प्रतिपद्य च । तोषपूरितचेतस्को ययौ निजपुरं पुनः॥४८॥ ततः साधितविद्येन तेन खेटेन सत्वरम् । परिणीता सका खेटी जयमङ्गलनिस्वनैः॥४९॥ अनया सह भुञ्जानो भोगान् भोगीन्द्रसंनिभान् । तिष्ठति प्रीतचेतस्कः खेचरो निजपत्तने ॥५०॥ अन्यदा सौधमूर्धस्थो विमानाभं समुन्नतम् । विलीनं धनमालोक्य वैराग्यं गतवानसौ ॥५१॥ " श्रुत्वा जैनेश्वरं धर्म महावैराग्यसंगतः । गुरोः संयमसेनस्य समीपे सोऽग्रहीत् तपः ॥ ५२॥ तपो जैनं विधायाशु कालं चापि समाधिना । सौधर्मे धर्मसंबन्धाद् बभूवासौ सुरोत्तमः ॥५३॥ विद्याधरी तपः कृत्वा जैनं मृत्वा समाधिना । सौधर्म प्राप सद्भार्या कनकोज्वलविग्रहा ॥ ५४॥ अहिच्छत्रपुरे विप्रः शिवभूतिर्बभूव च । गेहिनी वसुमित्राऽस्य भर्तृप्रीतिपरायणा ॥ ५५ ॥ ___1 पफज त्रिभिः कुलकम्. 2 [ साङ्गवेद°]. 3 पफ समायान्तु. 4 [अपकृत्य ]. 5 पफज चवाः कुलकम्. 6 पफ वरवर्तिनि. 7 [सस्मितम् ].8 पफज कुलकम.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org