________________
-८०. २२ ]
शिववर्मविप्रकथानकम्
शेषतीर्थकराणां च स्वस्वतीर्थप्रवर्तिनाम् । चक्रवर्त्यादिसामन्तैर्दत्तं विकृतिकारणम् ॥ ८ ॥ विपुलादिगिरेः शृङ्गे सरणे समवादिके । स्थितस्य वीरनाथस्य सौधर्मेन्द्रो जगाविमम् ॥ ९ ॥ विकृत्यादिकमेतेषामल्पसंयमकारणम् । वितीर्णं हि मया भक्त्या मुनीनां शुद्धचेतसाम् ॥ १० ॥ तथा श्रेणिकराजोऽपि तद्वचोऽपि निशम्य च' । बभाणेमं विनीतात्मा पुरन्दरपुरस्सरम् ॥ ११ ॥ मया धरणिनाथेन विकृत्यादिकमादरात् । वितीर्णं यदि संघेम्यः संयमस्यावनं ध्रुवम् ॥ १२ ॥ तथाऽन्यैरपि सामन्तैर्भक्तिहृष्टतनूरुहैः । विकृत्यादिकमेतेषां वितीर्णं यमसाधनम् ॥ १३ ॥ इन्द्रादिभिर्यतिभ्यो हि विधिनाऽवग्रहादिना । वितीर्णं तुष्टचेत स्कैर्विकृत्यादिकमादरात् ॥ इच्छाकारं विधायोच्चैर्मुनिभिर्विधिपूर्वकम् । विकृत्यादिकमात्तव्यं कालेऽमुष्मिन्नपि स्फुटम् ॥ ॥ इति श्री इन्द्रादिमुनिदत्ताविकृतिकथानकम् ॥ ७९ ॥
१४ ॥
१५ ॥
*
१९७
८०. शिववर्मविप्रकथानकम् ।
'कुरुजाङ्गलदेशेऽस्ति धनधान्यजनालये । आखण्डलपुर श्रीकमहिच्छत्रपुरं परम् ॥ १ आसीद् दत्तपुरे विप्रः श्रोत्रिको वेदपारगः । शिवभूतिः प्रिया चास्य वसुशर्मा मनः प्रिया ॥ २ ॥ सोमशर्माऽभवत् तस्याः शिवशर्मा च नन्दनः । सोमकान्तिसमो ज्येष्ठः कनीयान् सुखलम्पटः ॥३॥ शिवशर्मा पठन् वेदमशुद्धं सोमशर्मणा । हतो वारत्रयं रोषात् कनिष्ठ द्यायसा तरम् ॥ ४ ॥ अनेन कारणेनास्य नाम वारत्रिकाभिधम् । लोके प्रसिद्धमायातं द्वितीयं शिवशर्मणः ॥ ५ ॥ सर्वशास्त्रार्थनिष्णातः श्रोत्रिकोऽसौ वारत्रिकः । षटुर्माभिरतस्तस्थौ तत्पुरे प्रीतमानसः ॥ ६॥ एवं तिष्ठन् पुरे तत्र वारत्राख्यं स्वनामकम् । शृण्वन् जनसमूहेभ्यो वैराग्यं गतवानसौ ॥ ७ ॥ अमुतो नामतः प्राप्य वैराग्यं स गृहादरम् । निर्गत्य प्राप तां सारां श्रावस्थि नगरीमसौ ॥ ८ ॥ जिनधर्मं समाकर्ण्य तदा दमवरान्तिके । शिवशर्मा सवैराग्यो दधौ जैनेश्वरं तपः ॥ ९ ॥ अन्यदा कूपपानीयमध्ये निजतनुं मुनिः । पश्यन् विलोकितो जातु नितरां निजसूरिणा ॥ १० ॥ 20 तं योगिनं तत्र जगादैनं गुरुस्तदा । महिलार्थं निजं बिम्बं पश्यसि त्वं जलान्तरे ॥ ११ ॥ श्रुत्वा गुरुदितं वाक्यं नवधर्मी विलक्षकः । महाटवीं विवेशायं 'स्त्री पाण्डपशुवर्जितम् ॥ १२ ॥ मुक्त्वा मासोपवासं च पारणार्थं वनान्तरे । भ्राम्यति स्म गुणाधारः प्रलम्बितभुजद्वयः ॥ १३ ॥ वृक्षोपरि स्थितास्तत्र देवता भक्तितत्पराः । अदृष्टविग्रहास्तस्मै भिक्षां ददति क्षापरम् ॥ १४ ॥ ग्रहीतुं सोऽपि तां भिक्षां तद्दत्तां नेच्छति स्फुटम् । पान्थसार्थं जगामासौ मन्दं मन्दगतिक्रियः ॥ १५ ॥ 25 तद्दत्तां च महाभिक्षां समादाय मुनीश्वरः । जगामाशु ततो देशात् तपोमार्गविचक्षणः ॥ १६ ॥ अपि साधुं प्रदेशं तं सार्थवाहो महाधनः । सागरोपपदो दत्तः प्राप सार्थसमन्वितः ॥ १७ ॥ पुनस्तेनैव सार्थेन सहैको गङ्गदेवकः । लंखिकोऽस्य' प्रिया नाम्ना गङ्गदत्ता समागता ॥ १८ ॥ मदनोपपदा वेगा तत्सुता चारुलोचना । सर्वलक्षणसंपूर्णा सर्वशास्त्र कलान्विता ॥ १९ ॥ एवंविधा च सा कन्या नानाभरणभूषिता । तदा मध्याह्नवेलायां नानाजनपदान्विता ॥ २० ॥ नानातूर्यकलध्वानबधिरीकृतदिग्मुखम् । वरत्रायां समारूढा नृत्यति स्म मदालसम् ॥ २१ ॥ भिक्षाषेलाप्रविष्टेन वारत्राख्येन साधुना । कुर्वती नर्तनं दृष्ट्वा दुर्गादेवीपुरस्तदा ॥ २२ ॥
30
1 ज तद्वचो विनिशम्य 2 ज कुरुजंगल. 3 [ ज्यायसा ]. 4 [ श्रावस्तीं ] 5 पज पाण्डु, [पण्ड ]. 6 ज सुधुप्रदेशं 7 ज लेखको.
Jain Education International
For Private & Personal Use Only
5
10
15
www.jainelibrary.org