________________
१९६
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ७८. २३८
यथाऽद्य रजनीमध्ये देवता मां जगाविदम् । गत्वा पञ्चनदीसंगे पञ्चचापशतोन्नतिः ॥ २३८ ॥ आस्ते नग्नत्वरूपेण सज्जनोद्वेगकारकः । भक्षयिष्यति खेटौघानतीते' दिवसत्रये ॥ २३९॥ ततः सर्वेऽपि संप्राप्य ते पिशाचं ससंभ्रमाः । अग्निवर्णशलाकाभिर्भित्त्वा लौहिभिरादरात् ॥ २४०॥ हतेऽमुष्मन् पिशाचा धृतननत्वभीषणे । विद्याधरसमूहस्य शान्तिरद्य भविष्यति ॥ २४१ ॥ • श्रुत्वा तद्वचनं प्राप्य सर्वविद्याधरैर्मुनेः । कायो भिन्नोऽग्निवर्णाभिस्तच्छलाकाभिरादरात् ॥ २४२ ॥ एवं कृते मुनेरस्य सर्वविद्याधरैर्युतम् । केवलज्ञानमुत्पन्नं लोकालोकावलोकनम् ॥ २४३ ॥ श्रीभूतिपूर्वको विप्रो विद्युष्ट्रोऽयमुग्रधीः । उपसर्गं चकाराशु मुनेरस्यासुना खलः ॥ २४४ ॥ योऽसौ वज्रायुधो देवश्युतः सर्वार्थसिद्धितः । तस्यावतरणं वक्ष्ये भवद्भिः श्रूयतामिति ॥ २४५ ॥ नगर्यां वीतशोकायां संजयन्तोऽभवत् पुनः । सिंहसेनो नृपः पूर्वं भ्रमित्वा बहुधा सकः ॥ २४६ ॥ 1. संजयन्तस्य यो भ्राता ब्रह्मलोकाच्युतः पुनः । जयन्तस्त्वं स संजातो धरणेन्द्रोऽधुना सुरः ॥२४७॥ त्वमन्यजन्मनि स्पष्टं खर्णचन्द्रोऽसि निश्चितम् । जातोऽहं लान्तवेन्द्रस्तु ध्यानसंपन्नभोगकः ॥ २४८ ॥ भवत्पूर्वभवे माता संजाता प्रीतिकारिणी । रामदत्तेति विख्याता सकले वसुधातले ॥ २४९ ॥ कारणेनामुना वत्स धरणेन्द्र ससंभ्रमः । वैरं हित्वा भव क्षिप्रं त्यक्तसर्वदुरीहितः ॥ २५० ॥ लान्तवेन्द्रवचः श्रुत्वा धरणेन्द्रो खलानिमान् । खेचरानाजुहावाशु भक्तिहृष्टतनूरुहः ॥ २५१ ॥ 1s आगताः सकलाः खेटा मस्तकन्यस्तपाणयः । अनयाऽवस्थयाऽनेन स्थापिता धरणेन ते ॥ २५२ ॥ श्रीमन्तं पर्वतं प्राप्य संजयन्तस्य योगिनः । पञ्चचापशतोत्सेधां कारयध्वं प्रयातनाम् ॥ २५३ ॥ संजयन्तपदाभ्याशे सर्वा विद्या मनोरमाः । यास्यन्ति भवतां सिद्धिं साध्यमाना न चान्यथा ॥ २५४ ॥ एवमुक्त्वा तकान् सर्वान् धरणेन्द्रस्त्वरान्वितः । तद्भक्तिहृष्टचेतस्को जगाम निजमालयम् ॥२५५॥ मधुरायामभूद् राजाऽनन्तवीर्यो महाबलः । मेघमाला महादेवी प्रथमाऽस्य प्रकीर्तिता ॥ २५६ ॥ लान्तवेन्द्रस्ततयुत्वा पुत्रो जातोऽनयो परः । सर्वलक्षणसंपूर्णो बन्धुलोकमनोहरः ॥ २५७ ॥ अमितप्रभसंज्ञायाः द्वितीयायाः स्वयोषितः । धरणेन्द्रोऽभवत् कान्तो मेरुनामानयोः सुतः ॥ २५८ ॥ ततस्तौ भ्रातरौ तत्र भुक्त्वा भोगान् मनोरमान् । तपो जगृहतुर्जेनं श्रेयस्तीर्थकरान्तिके ॥ २५९ ॥ तत्र मेरुकुमारोऽयं केवली मन्दरः पुनः । श्रेयसो देवदेवस्य संजातो गणनायकः ॥ २६० ॥ ॥ इति श्री श्री भूतिपुरोहितकथानकमिदम् ॥ ७८ ॥
*
७९. इन्द्रादिमुनिदत्ताविकृतिकथानकम् ।
B
ऋषभस्य' जिनेन्द्रस्य सरणे समवादिके । सौधर्मेन्द्रो बभाणेदं कौतुकव्याप्तमानसः ॥ १ ॥ अदत्तं साधवस्तावन्न गृह्णन्ति स्वतः क्वचित् । दन्तशोधनमात्रं वा मुक्तिरामासमुत्सुकाः ॥ २ ॥ अन्यैरपि न चादत्तं ग्राहयन्ति यतीश्वराः । गृह्णन्तो वा परे दत्तं मन्यन्ते न मनागपि ॥ ३ ॥ विकृत्यं गृह्णतां तेषामदत्तं हि तपखिनाम् । न जाघटीति साधूनां तृतीयं तु महाव्रतम् ॥ ४ ॥ • सौधर्मेन्द्रवचः श्रुत्वा भरतश्चक्रलाञ्छनः । बभाणेदं विशुद्धात्मा तदा संसत्पुरःसरम् ॥ ५ ॥ साधूनां गृह्णतां तेषामल्पसंयमकारणम् । न भङ्गो जायते नूनं तृतीयस्य यमस्य सः ॥ ६ ॥ भरतस्य वचः श्रुत्वा भक्तिनिर्भरचेतसः । इदमेवोदितं सर्वं ग्रामकूटैरपि स्फुटम् ॥ ७ ॥
20
25
1 फज पेटौधान्, 2 पफ त्रिकलम् ज त्रिकलमिदम् 3 पफ रिषभस्य 4 पफ समुत्सकाः. 5 पफज चतुर्भिः कुलकम्. 6 पफ युग्मम् ज युगलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org