________________
-७८. २३७ ] श्रीभूतिपुरोहितकथानकम्
१९५ श्रुत्वा मुनिवचः सत्यं तदा रत्नायुधः पुनः । स्थिरं सम्यक्त्वमादाय बभूव श्रावको महान् ॥२०५॥ वज्रायुधमुनिं दृष्ट्वा प्रियङ्गुवनमध्यगम् । पङ्कप्रभामतिक्रम्य भिल्लो भूत्वा रुषं ययौ । २०६॥ मृगयाऽर्थं वनं यातः काकतालीययोगतः । शरघातेन तं साधुं चकार गतजीवितम् ॥ २०७॥ कालं कृत्वा मुनिस्तत्र शुभध्यानपरायणः । प्राप्य सर्वार्थसिद्धिं स कृतसर्वार्थसाधनः ॥ २०८॥ साधुं निहत्य मिल्लोऽपि मृत्युमासाद्य वेगतः । सप्तमं नरकं प्राप घोरवेदनया युतम् ॥ २०९ ॥ रत्नायुधस्तथा रत्नमाला मातृसुतद्वयम् । कालं कृत्वा समाधानाजातौ तावच्युतेऽमरौ ॥ २१०॥ अनयोश्युतयोस्तस्मात् तदा देवायुषः क्षये । अवतारं वदाम्याशु सांप्रतं शृणुतादरात् ॥ २११॥ अथास्ति धातकीखण्डे पूर्वमेरोः प्रभास्वतः । अपरादिविदेहे हि विषयो गन्धिलो महान् ॥२१२॥ कासपुष्पसमानाभैः प्रासादनिकरैः परैः । अयोध्या नगरी तत्र विद्यते लोकसंकुला ॥ २१३॥ अस्यां नरेश्वरः श्रीमानहद्दासो हताहितः । कान्त्या जयन् विधु विद्वान् दीप्त्या चरविमस्ति सः॥२१४॥" बभूवास्य नरेन्द्रस्य महादेवी मनोहरी । सुव्रता जिनदत्ता च विषाणदललोचना ॥ २१५॥ आयो वीतभयः पुत्रो द्वितीयोऽपि विभीषणः । तृतीयो बलदेवोऽपि वासुदेवश्चतुर्थकः ॥ २१६ ॥ अनयो रूपसंपन्ना विनीताकारधारिणः । बभूवुनन्दना वित्ताश्चत्वारोऽम्बुधयो यथा ॥ २१७ ॥ कालं विधाय कालेन श्वभ्रं यातो विभीषणः । अनिवृत्तगुरोरन्ते बलदेवोऽग्रहीत् तपः ॥ २१८ ।। बलदेवो मुनिस्तूर्णं कालं कृत्वा समाधिना । कृतार्ककीर्तिनामायं लान्तवेन्द्रो बभूव सः॥२१९॥ 15 बोधितो लान्तवेन्द्रेण श्वभ्रं प्राप्य विभीषणः । बाढं सहोदरप्रीत्या स्नेहतः किं न जायते ॥२२०॥ भुक्त्वा परं सुखं स्वर्गे दुःखं च नरके तथा । उत्पत्तिमनयोर्वक्ष्ये स्वर्गश्वभ्रनिवासिनोः॥२२१॥ अथ जम्बूमति द्वीपे वास्ये भरतनामनि । विषये गन्धमालिन्यां विजयाध पुरोत्तमम् ॥ २२२ ॥ बभूवात्र पुरे राजा श्रीधर्माख्यो महामतिः । श्रीदत्ताऽस्य प्रिया चावीं श्रीदासस्तनयोऽनयोः ॥२२॥ सोऽन्यदा मन्दरं स्वर्ण विद्यां साधयितुं गतः । बोधितो लान्तवेन्द्रेण श्रावकत्वमुपागतः ॥२२४॥ 20 अनन्तमतियोगीन्द्रं प्राप्य दीक्षां विधाय च । ब्रह्मलोके सुरो जातश्चन्द्राभाख्ये विमानके ॥२२५॥ निर्गत्य सप्तमाच्छुभ्रात् सो भूत्वाऽतिदारुणः । भूयोऽपि प्रथमं श्वभ्रं प्राप्तोऽयं पापयोगतः ॥२२६॥ ततो निसृत्य पापिष्ठो भ्रान्त्वा तिर्यग्गतावपि । नानादुःखानि भुञ्जानस्तिष्ठति क्षीणशक्तितः ॥२२७॥ अत्रैव भरतक्षेत्रे जम्बूद्वीपसमन्विते । भूतवज्राटवीमध्ये विद्येतैरावती नदी ।। २२८॥ तत्तटे तापसो नाना खण्डकेशी वसत्यसौ । तद्भार्या स्वर्णकेशी च मृगशृङ्गः सुतोऽनयोः॥२२९।। 25 ततः पञ्चाग्निमध्यस्थः कन्दमूलादिभक्षणम् । कुर्वाणो मृगशृङ्गोऽसौ तिष्ठति प्रीतमानसः॥२३०॥ चन्द्राभखेटमालोक्य देवादिपुरनायकः । कृत्वा निदानकं तत्र तूर्णं कालं चकार सः ॥२३१॥ इहैव भरतक्षेत्रे जम्बूद्वीपोपलक्षिते । विजया?त्तरश्रेण्यां पुरं गगनवल्लभम् ॥ २३२ ॥ विद्युत्प्रभोऽभवत् तत्र पुरे विद्याधराधिपः । भार्या विद्युत्प्रभा चास्य विद्युदंष्ट्रः सुतोऽनयोः ॥२३॥ भद्रशालवनं गत्वा प्रियया सह सादरः । ततो निवर्तमानः सन् मुनिं दृष्ट्वा चुकोप सः॥२३४ ॥ 30 खभायों खपुरं प्राप्य प्रदोषसमये सति । बाहुभ्यां तं समुत्क्षिप्य कायोत्सर्गस्थितं मुनिम् ॥२३५॥ इहत्यमारते भागे विजयार्धस्य दक्षिणे । मुक्त्वा पञ्चनदीसंगे यति स स्वपुरं ययौ ॥ २३६ ॥ स्तोककालं सुखं सुस्वा क्रोधं प्राप्य पुनः सकः। विद्याधरान् समाहूय जगाविति पुरः स्थितान् ॥२३७॥
1 पफ गधिलो. 2 ज वित्ताः=ज्ञानवन्तः. 3 पफ युग्मम् , ज युगलम्. 4 [सप्तमाच्छुभ्रात् ], 5 [°मध्येऽविद्य]. 6 पफ युग्मम्, ज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org