________________
१९४
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ७८.१७०
सुप्तं तत्रायमालोक्य निशायां शयुरुन्नतः । रश्मिवेगादिकं कोपाज्जघास स्मृतवैरकः ॥ १७० ॥ रश्मिवेगो मुनिस्तत्र नाके कापिष्ठनामनि । अर्कप्रभः सुरो रूपी हारधारी बभूव सः ॥ १७१ ॥ अमुमेव च कापिष्ठं रुचकादिविमानके । आर्जिकाद्वयमप्यार मृत्वा तद्देवतामितौ ॥ १७२ ॥ भक्षयित्वा शयुस्तानि कालं कृत्वा समाधिना । चतुर्थनरकं प्रापन्नानादुःखसमन्वितम् ॥ १७३ ॥ चारणाख्यो मुनिर्योऽसौ सिंहचन्द्रोऽहमिन्द्रकः । प्रीतिंकरः सुरो जातो देवप्रीतिविधायकः ॥ १७४॥ तस्मादुत्तीर्य दुःखेन सुखवार्धिसमन्वितान् । अवतारं चकारेव नाकसौख्यविरक्तधीः ॥ १७५ ॥ अत्र चक्रपुरे रम्ये राजाऽऽसीदपराजितः । भार्याऽस्य सुन्दरी नाम रूपयौवनसुन्दरी ॥ १७६ ॥ अनयो रूपसंपन्नः सुतश्चक्रायुधोऽभवत् । चित्रमाला प्रिया चास्य कन्दोट्टदललोचना ॥ ९७७ ॥ अर्कप्रभोऽवतीर्यासौ कापिष्ठादमुतः सुरः । वज्रायुधोऽभवत् तस्या नन्दनः कुलनन्दनः ॥ १७८ ॥ 1. एष पूर्वभवे राजा सिंहसेनो महाबलः । अवतारं ब्रवीम्यस्य सांप्रतं शृणुतादरात् ॥ १७९ ॥ अतिवेगोऽभवद् राजा पृथिवीतिलके पुरे । प्रियंकरा प्रिया चास्य रत्नमाला शुभाऽमुतः ॥ १८० ॥ एषा पूर्वभवे चास्य रामदत्ता मनः प्रिया । श्रीधराऽपि तथाऽन्यस्मिन् श्रीधरा तनुयोगतः ॥ १८१ ॥ पूर्व प्रीतिनिबन्धेन दत्ता वज्रायुधाय सा । पितृभ्यां स्नेहयुक्ताभ्यां महाभोगविधायिने ॥ १८२ ॥ तस्या यशोधरापूर्वयुतो नाकालयादरम् । रत्नायुधस्ततो जातो गुणरत्नमहोदधिः ॥ १८३ ॥ 15 एष पूर्वभवे नूनं पूर्णचन्द्रो महाद्युतिः । वज्रायुधतनूजाय ददौ चक्रायुधः श्रियम् ॥ १८४ ॥ पिहिताश्रवसामीप्ये दीक्षामादाय शुद्धधीः । निहत्याशेषकर्माणि मोक्षं चक्रायुधो ययौ ॥ १८५ ॥ वज्रायुधो निजं राज्यं दत्त्वा रत्नायुधाय सः । दीक्षां जग्राह जैनेन्द्रीं स्वर्गमोक्षसुखप्रदाम् ॥ १८६ ॥ ततो रत्नायुधो राज्यं कुर्वाणः पितृशासनात् । मिथ्यात्वं प्राप्य मूढात्मा क्रूरचित्तो बभूव सः ॥ १८७॥ तस्य मेघनिनादोऽभूद् राजहस्ती मदालसः । नदीं गतो जलं पातुं स शुचौ निजलीलया ॥ १८८ ॥ 20 तत्र साधुं समालोक्य जातो जातिस्मरः करी । तृष्णाक्रान्तशरीरोऽपि जलं पातुं स नेच्छति ॥ १८९ ॥ राजा तं हस्तिनं दृष्ट्वा दुःखपीडितमानसः । वज्रदत्तमुनिं प्राप्य सन्निमित्तं स पृच्छति ॥ १९० भूपालस्य वचः श्रुत्वा दुःखपीडितचेतसः । बभाणेमं मुनिः स्पष्टं स्वनादापूरिताम्बरः ॥ १९९ ॥ चित्रकारे पुरे रम्ये प्रीतिभद्रो नरेश्वरः । बभूव तन्महादेवी सुन्दरी नाम विश्रुता ॥ ९९२ ॥ प्रीतिंकरः सुतस्तस्याः सर्वप्रीतिविधायकः । तन्मन्त्री चित्रबुद्धिश्च तद्भार्या कमला मता ॥ १९३ ॥ 25 विचित्रमतिनामायं सुतोऽस्य मतिराजितः । बभूव भासुराकारो जिनधर्मपरायणः ॥ १९४ ॥ प्रीतिभद्रनृपसूनुर्विचित्रमतिरुन्नतः । मत्रिपुत्रोऽपि सद्बुद्धिर्जिनागमसुभावितः ॥ १९५ ॥ तदेतौ द्वावपि प्राप्य श्रुतसागरयोगिनम् । महावैराग्यसंपन्नावभूतां हि तपोधनौ ॥ १९६ ॥ विहरन्तौ ततः कापि गोचर्यार्थं तपोनिधी । अयोध्यां नगरीं प्राप्तौ पताकावलिराजिताम् ॥ १९७॥ गणिकां बुद्धिसेनाख्यां विलोक्यात्रातिरूपिणीम् । मन्त्रिपुत्रः क्षणाद् भग्नो विचित्रमतिरुत्सुकः ॥१९८॥ 30 मांसं प्रसाधयन् कान्तं नानाभेदसमन्वितम् । गन्धमित्रस्य भूपस्य सूपकारोऽभवत् सकः ॥ १९९॥ एवं प्रकुर्वतस्तस्य सूपकारस्य भूभुजा । तुष्टेन गणिका दत्ता बुद्धिसेनाऽतिरूपिणी ॥ २०० ॥ तया समं महाभोगान् भुञ्जानो मनसः प्रियान् । तदा कालं विधायासौ सप्तमं नरकं ययौ ॥ २०१ ॥ संसृतिं स चिरं भ्रान्त्वा संयातोऽयं' गजेश्वरः । अस्मान् विलोक्य राजेन्द्र जातो जातिस्मरोऽधुना २०२ हित्वा जिनोदितं धर्मं यथाऽहं संसृतिं सृतः । तथाऽयं कुञ्जरो राजन् प्राग्विचित्रमतिः स्फुटम् ॥२०३॥ 25 जिनधर्मं समादाय दुःखसंतप्तमानसः । बभूव श्रावको राजन् नितान्तं कलकुञ्जरः ॥ २०४ ॥ 1 पफ पूर्वप्रति 2 पफ संयातो, [ संजातोऽयं ]. 3 पफ युग्मम्, ज युगलम्.
1
5
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org