________________
---७८. १६९] श्रीभूतिपुरोहितकथानकम्
१९३ सुमित्रोपपदो दत्तः पद्मखण्डे पुरे पुरा । यः प्राप्य त्वन्मतेनाशु श्रीभूते रत्नपञ्चकम् ॥ १३६ ॥ त्वत्सानुरागतः कृत्वा निदानं कालसंगतः । सांप्रतं सिंहचन्द्राख्यो जातस्त्वन्नन्दनः स्फुटम् ॥१३७॥' मपिता सिंहसेनोऽपि कालं कृत्वा यकः पुनः । गहने हस्तितां प्राप्तो ग्राहितः स वृषं मया ॥१३८॥ हिमालयसमुत्तुङ्गः सितदन्तविराजितः । यूथकेसरिनद्यन्ते कुञ्जरः स वितिष्ठते ॥ १३९ ॥ चमरी सा मृति प्राप्य तद्वने दरदायिनि । कुर्कुटोपपदः सर्पो बभूव सोऽतिभीतिदः ॥ १४०॥ । तेन कुर्कुटसर्पण दष्टोऽसौ कलकुञ्जरः । कालं चकार शुद्धात्मा जिनं चित्ते विचिन्तयन् ॥१४१॥ श्रीप्रभाख्यविमानेऽसौ सहस्रारे सुरोत्तमः । बभूव श्रीधरो नाम्ना हारकुण्डलराजितः ॥ १४२ ॥ यःश्रीभूतिपदे विप्रः स्थापितो भूभुजा तदा । धम्मिल्लाख्यो मृतिं कृत्वा संजातो मर्कटो महान् ॥१४३॥ ततः कुक्कुटसर्पोऽयं मृति प्राप्य स दुःखितः । वालुकादिप्रभा जातो नानादुःखसमाकुलाम् ॥१४४॥ ततः किरातराजस्य मृतों नाम शृगालकः । प्राप्तः करिवरोद्देशं कौतुकव्याप्तमानसः ॥ १४५॥ ॥ मौक्तिकानि समादाय दन्तानपि गजेश्वरात् । वाणिजाय स्वमित्राय तदानीं शबरो ददौ ॥ १४६॥ तेनापि पूर्णचन्द्रस्य ते पुत्रस्य समर्पिताः । तेनापि भूभुजा दन्तैः कारितं स्वस्य विष्टरम् ॥१४७॥ मौक्तिकैरपि सद्धारः कारितस्तेन शोभनः । कृत्वा हारं गले कुर्वन् राज्यं सिंहासने स्थितः॥१४८॥ एवं मुनिवचः श्रुत्वा तदानीं रामदत्तया । पूर्णचन्द्रोऽपि सद्वाक्यैबोंधितः परमोदयैः ॥ १४९ ॥ आकर्ण्य श्रावकं धर्म कालं कृत्वा समाधिना । सहस्रारेऽभवदेवः स वैडूर्यविमानके ॥ १५० ॥ 15 रामदत्ताऽपि तत्रैव कल्पे कालं विधाय च । स्वयंप्रभविमानेऽभूद् देवः सूर्यप्रभो महान् ॥१५॥ विधाय सिंहचन्द्रोऽपि परां सल्लेखनामसौ । प्राप्य ग्रैवेयकं चोर्ध्वं जातो देवो महर्द्धिकः॥१५२॥ सूर्यप्रभः स्फुटस्तस्मात् स्वर्गाद् भोगमनोरमात्। यत्र स्थाने समुत्पन्नस्तद्वदाम्यधुना हितः ॥१५॥ अत्रैव भरतक्षेत्रे जम्बूद्वीपोपलक्षिते । दक्षिण विजयार्धस्य भागे च परमोदये ॥ १५४॥ धनधान्यसमाकीर्णे धरणीतिलके पुरे । विद्यतेऽतिबलो भूपः सर्वविद्याधराधिपः ॥१५५॥ 2॥ सुशीला तन्महादेवी चारुरूपा सुलक्षणा । तत्सुता च कलाधारा श्रीधरा श्रीधरा सदा ॥१५६॥ स कालकपुरे रम्ये खेचरोऽस्ति सुदर्शनः । वितीर्णाऽस्मै महाभूत्या पितृभ्यां सुखभोजिने ॥१५॥ तद्वैडूर्यविमानाग्राच्युत्वा देवो मनोरमः । यशोधराभिधा कन्या जाता साऽस्य मनोहरी ॥१५८ ॥ परमस्योत्तरश्रेण्यां विजयाधमहीभृतः। प्रभातनगरं रम्यं विद्यते परमोत्सवम् ॥ १५९ ॥ सूर्यप्रभो नृपस्तत्र नाम विद्याधराधिपः। जनकेन च सा दत्ता तस्मै संबन्धमिच्छता ॥ १६० ॥ 25 तस्मान्नाकालयाच्युत्वा तदानीं वारणामरः । रश्मिवेगोऽभवत् पुत्रस्तस्या जनमनोहरः ॥ १६१ ॥ दत्त्वा राज्यं सुतायास्मै सूर्यदत्तो नरेश्वरः । मुनिचन्द्रसकाशेऽस्मिन् दीक्षां दैगम्बरी श्रितः ॥१६॥ श्रीधरा च मुनिं नत्वा जिनभक्त्या यशोधरा । गुणमत्यर्जिकापार्श्वे दधौ जैनेश्वरं तपः ॥ १६३ ॥ सिद्धकूटजिनं नन्तुं जिनपूजनतत्परः। रश्मिवेगो जगामाशु भक्तिहृष्टस्तनूरुहः ॥ १६४॥ भक्तितस्त्रिःपरीत्येदं जिनं नत्वा सुरार्चितम् । समस्तसाधुसंघं च स तस्थौ मुनिसंनिधौ ॥१६५॥ 30 जिनधर्म समाकर्ण्य भव्यलोकसुखप्रदम् । हरिचन्द्रमुनेः पार्थे रश्मिवेगो दधौ तपः॥ १६६ ॥ अथ काञ्चनसंज्ञायां गुहायां स तदा पठन् । त्रिलोकोपपदां नूनं प्रज्ञप्ति तस्थिवान् मुदा ॥१६७॥ ततः श्रीधरया साकमर्जिका सुयशोधरा । वन्दित्वा तं मुनिं भक्त्या तदन्ते तस्थुषी पुनः॥१६८॥ तृतीयश्वभ्रसंजातो नारकः कलुषाशयः । तस्मादुत्तीर्य दुःखेन संजातोऽजगरो महान् ॥ १६९ ॥ 1 पफ युग्मम् , ज युगलमिदम्. 2 ज मृत्यो. 3 [यतः]. बृ० को० २५
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org