________________
१९२ हरिषेणाचार्यकृते वृहत्कथाकोशे
[७८. १०१अत्रान्तरे समायातः पुरं सिंहपुरं परम् । विषनि शकस्तूर्णं दण्डान्तो गरुडादिकः ॥ १०१॥ ततस्तेन समाहूताः सर्पाः सर्वेऽपि तत्क्षणात् । काकोदराख्यमन्त्रेण स्वान्तिकं लोलजिह्वकाः ॥१०२॥ ततो गरुडमत्रेण भाषितास्ते समागताः। योऽपराधी भवेत् कोऽपि तिष्ठत्वत्र स केवलम् ॥१०३॥ येऽन्येऽपराधनिर्मुक्ताः स्वस्वस्थानानि सत्वरम् । गच्छन्तु ते सुसंतुष्टा मया मुक्ता विसंशयम् ॥१०४॥ निशम्य तद्वचस्ते च दन्दशूकाः ससंभ्रमाः । श्रीभूतिपन्नगं हित्वा सर्वे जग्मुर्यथागतम् ॥१०५॥ दृष्ट्वा सरीसृपं मत्री सजीवं सविषं तथा । जगाद तं दुराचारं गृहाणेदं विषं द्रुतम् ॥ १०६ ॥ अथवेदं विषं पाप ग्रहीतुं यदि नेच्छसि । खदिराङ्गारसंयुक्तमग्निकुण्डं द्रुतं विश ॥ १०७ ॥ श्रुत्वा तद्वचनं सो जातो जातिस्मरः क्षणात् । स्मृत्वा चिरंतनं वैरं दध्यौ विस्मितमानसः ॥१०८॥
पूर्ववैरी ममायं हि कृत्यकृत्योऽस्मि सांप्रतम् । गन्धनोऽग्निं प्रविश्याहिर्ममार कृतनिश्चयः॥१०९॥ 1" मृत्वा कालवने भीमे नानानोकुहसंकुले । श्रीभूतिपूर्वकः सर्पो बभूव चमरी चला ॥ ११०॥ सिंहसेनो नृपो मृत्वा नागदष्टः स तत्क्षणे । बभूव सल्लकीविन्ध्ये तदा मदकलः करी ॥ १११॥ विधाय सत्वरं कालं धम्मिल्लाख्यः पुरोहितः । तत्रैव मर्कटो जातो दाडिमीपुष्पवक्रकः ॥११२॥ सिंहचन्द्रः स्वपुण्येन तदा सिंहपुरेश्वरः । बभूव साधितारातिर्गुणरञ्जितभूतलः ॥ ११३॥
पोदनाख्ये पुरे रम्ये पूर्णचन्द्रो नरेश्वरः । बभूवास्य महादेवी हिरण्योपपदामती ॥ ११४ ॥ 15 अन्यदा पूर्णचन्द्रो हि धर्म श्रुत्वाऽवधीश्वरात् । भद्रबाहुगुरोः पार्थे संजातः श्रमणो महान् ॥११५॥
नत्वाऽऽचार्यमिमं भक्त्या महावैराग्यसंगता । दत्तक्षान्त्यार्जिकापार्थे हिरण्यमतिकार्यिका ॥११६॥ निजकान्तिकया साधं हिरण्यमतिरर्जिका । पूर्णचन्द्रमुनिं नत्वा जगाम कृतनिश्चया ॥ ११७॥ नत्वा मुनिं पुनः प्राह हिरण्यमतिरर्जिका । रामदत्ता कथं नाथ तिष्ठति बेहि मेऽधुना ॥११८ ॥
पूर्णचन्द्रमुनिः श्रुत्वा तद्वाक्यं स्थिरमानसः । दिव्यज्ञानेन तां ज्ञात्वा जगादेति विचक्षणः ॥११९॥ 20 त्वज्जामाताऽहिना दष्टो लघु पञ्चत्वमागतः । त्वत्सुता रामदत्ता च संजाता विधवा ततः॥१२०॥
पूर्णचन्द्रवचः श्रुत्वा नत्वाऽमुं भक्तितत्परा । हिरण्यमतिका साधू दत्तक्षान्तिकयाऽगमत् ॥१२१॥ रामदत्ता समालोक्य मातरं दीक्षितामिमाम् । प्रणम्यासनगां भक्त्या चक्रे ख्यान्तिकया सह ॥१२२॥ जिनधर्ममुपाश्रित्य रामदत्ता तदन्तिके । प्रवव्राज विनीतात्मा जिनभक्तिपरायणा ॥ १२३ ॥ विलोक्य सिंहचन्द्रोऽपि मातरं तपसि स्थिताम् । पूर्णचन्द्रे श्रियं न्यस्य हरिहस्तिधनादिकम् ॥१२४॥ 25 महावैराग्यसंपन्नो निर्जिताक्षकदम्बकः । भद्रबाहुमुनेः पार्श्वे धीरधीः स तपोऽग्रहीत् ॥१२५ ॥
महावैराग्यसंपन्नो जिनभक्तिपरायणः । चारणर्द्धिसमायुक्तो दिव्यज्ञानी महातपाः ॥ १२६ ॥ पूर्णचन्द्रोऽपि राज्यस्थो मिथ्यात्वग्रहदूषितः । बभूव निष्ठुरस्वान्तो जिनवाक्यपराङ्मुखः ॥१२७॥ अन्यदा रामदत्ताऽपि सिंहचन्द्रं मुनीश्वरम् । पप्रच्छ चारणं भक्त्या तदानीं स्वभवान्तरम् ॥१२८॥ श्रुत्वा तद्वचनं साधुजंगादैतां पुरः स्थिताम् । विनयाचारसंपन्नां भक्तिहृष्टतनूरुहाम् ॥ १२९ ॥ " अत्रैव भरतक्षेत्रे विषये कोशलाभिधे । विद्यते वर्धकिग्रामे ब्राह्मणोऽत्र मृगायणः ॥ १३०॥ तप्रिया मधुरा नामा तत्सुता वरुणाऽभवत् । मृगायने मृति प्राप्ते साकेतनगरे परे ॥ १३१ ॥ विद्यतेऽतिबलो राजा भार्याऽस्य श्रीमती मता । अनयो रूपसंपन्ना हिरण्यमतिका सुता ॥१३२॥ पोदनाख्यपुरेशस्य पूर्णचन्द्रस्य दीव्यतः । सा वितीर्णा कलवानां विधिना तत्पितामही ॥१३३॥ मधुराया पुरा चार्वी कालं कृत्वा विधानतः । प्राप्य तद्गर्भसंभूतिं रामदत्ताधुनाऽभवः ॥ १३४ ॥ या पुरा वरुणा भद्रे मृता कर्मानुभावतः । त्वद्गर्भ प्राप्य संभूतः पूर्णचन्द्रः स नन्दनः॥ १३५॥
1[कृतकृत्यों ]. 2 ज धर्मिलाख्यः. 3 पफ दत्तख्यान्या. 4 ज नन्तुं. 5 पफ युग्मम् , ज युगलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org