________________
-७८. १०० ]
श्रीभूतिपुरोहितकथानकम्
ततोऽन्यदिवसे जाते रामदत्तोदितेन च । पुरोहितसमं द्यूतं रमते नरकुञ्जरः ॥ ६७ ॥ अनयोर्दीव्यतोर्मध्ये रामदत्ताऽतिविस्मिता । तस्थौ मुदितचेतस्का तदानीं तत्समीपगा ॥ ६८ ॥ अत्रान्तरे महाबुद्धी रामदत्ता पुरोहितम् । पप्रच्छ प्रथमं साऽपि साभिज्ञानं स्फुटाक्षरम् ॥ ६९ ॥ रामदत्तावचः श्रुत्वा श्रीभूतिर्भूतिगर्वितः । साभिज्ञानमिदं प्राह रामदत्तापुरःसरम् ॥ ७० ॥ यथाऽद्य वेश्मनि स्पष्टं पायसं घृतसंयुतम् । सशर्करं मनोहारि परिविष्टं सुयोषिता ॥ ७१ ॥ पूर्वाशाभिमुखस्थेन पुत्रपौत्रयुतेन च । मया भुक्तमिदं साधु सानुरागं समीक्षितम् ॥ ७२ ॥ साऽभिज्ञानेन चानेन तदा बुद्धिमती द्रुतम् । प्राप्य तद्ब्राह्मणीं नूनं पञ्चरत्नानि याचते ॥ ७३ ॥ रामदत्ताऽबलावाक्यं श्रुत्वा तां साऽब्रवीदिति । यथाऽहं तानि रत्नानि न वेद्मि वनिते ध्रुवम् ॥ ७४ ॥ ब्रह्मसूत्रं तं द्यूते समादाय त्वरावती । प्राप्य द्वितीयवेलायां तकां बुद्धिमती जगौ ॥ ७५ ॥ साभिज्ञानेन चान्येन देहि रत्नानि मेऽबले । सा वक्तीमानि नष्टानि क्व गतानि न वेझ्यहम् ॥ ७६ ॥ 1 ततस्तृतीयवेलायां तन्नामाङ्कितमुद्रिकाम् । समादाय तकां प्राप्य जगौ बुद्धिमती त्विदम् ॥ ७७ ॥ यथा श्रीभूतिना प्रोक्तं मन्नामाङ्कितमुद्रिकाम् । दृष्ट्वा वाणिजरत्नानि दातव्यानि करे मम ॥ ७८ ॥ ततस्तां मुद्रिकां दृष्ट्वा भर्तरि क्रुद्धमानसा । साऽऽदाय पञ्चरत्नानि ददौ बुद्धिमतीकरे ॥ ७९ ॥ ततो बुद्धिमती शीघ्रं रत्नान्यादाय पञ्च वै । रामदत्ताकरे तानि ददौ पूर्णमनोरथा ॥ ८० ॥ रामदत्ता समादाय पञ्च रत्नानि सत्वरम् । बभ्राण भूपतिं तुष्टा धव द्यूतं विमुच्यताम् ॥ ८१ ॥ 15 रामदत्तावचः श्रुत्वा भूपतिर्यूतमण्डलात् । द्यूतकारैः समं शीघ्रं समुत्तस्थौ प्रमोदवान् ॥ ८२ ॥ ततो गतेषु सर्वेषु द्यूतकारेषु भूभुजे । रामदत्ता ददौ तानि पञ्च रत्नानि सत्वरम् ॥ ८३ ॥ नररत्नसमूहानां मध्ये तानि निधाय च । भूयः सुमित्रदत्तस्य दर्शितानि महीभुजा ॥ ८४ ॥ ततः सुमित्रदत्तेन रत्नमध्ये विलोक्य च । गृहीतानि समस्तानि निजरत्नानि सादरम् ॥ ८५ ॥ समुद्रदत्तमालोक्य निजरत्नसमन्वितम् । महादेवी नरेन्द्रोऽपि तुतोष बहुविस्मयः ॥ ८६ ॥ खरादिरोहणं तत्र पञ्चबिल्वविबन्धनम् । सर्वस्वहरणं चापि कारयित्वाऽस्य यत्नतः ॥ ८७ ॥
१९१
Jain Education International
९१ ॥ 25
९२ ॥
विधिना शीघ्रं श्रीभूतिर्धनहारकः । भूभुजा रोषतः पापः स्वदेशादपसारितः ॥ ८८ ॥ * ततो निकारमासाद्य भूपतेः साधुनिन्दितम् । विदीर्णहृदयः पापः श्रीभूतिः पञ्चतामितः ॥ ८९ ॥ आर्तध्यानान्मृतिं प्राप्य सिंहसेनस्य भूपतेः । भाण्डागारेऽजनि क्षिप्रं गन्धनः स भुजंगमः ॥९०॥ श्रीभूतस्थानके राज्ञा धमिलो नाम माहनः । चतुर्वेदसमायुक्तः कृतोऽनेन पुरोहितः ॥ तदा समुद्रदत्तोऽपि सत्यवादित्वमाप्य च । पद्मखण्डपुरं गत्वा ददौ दानं स साधवे ॥ दानं दत्त्वा सुसाधुभ्यो वक्तीदं वचनं पुनः । सुतोऽहं रामदत्ताया भविष्यामि भवान्तरे ॥ गिरिं विमलकान्तारं प्राप्य धर्मधिया सकः । वरधर्ममुनेः पार्श्वे श्रावकाणां व्रतं दधौ ॥ जिनधर्मसमादानाद् विरोधं प्राप्य तत्समम् । मृत्वा तत्पर्वते जाता भीमव्याघ्री तदम्बिका ॥ ९५ ॥ ततः सुमित्रदत्तोऽयं गतवान् वन्दितुं मुनिम् । विलोक्य तं सुतं व्याघ्री जघासारुणलोचना ॥९६॥ ततोऽयं भक्षितो व्याघ्या कालं प्राप्य निदानतः । सिंहसेनसुतो जातो रामदत्ताशरीरजः ॥ ९७ ॥ नाम्ना च सिंहचन्द्रोऽयं नन्दनः कुलनन्दनः । तद्धाता पूर्णचन्द्राख्यः पूर्णचन्द्रसमाननः ॥ ९८ ॥ अथैकस्मिन् दिने जाते भण्डशालां निजामसौ । सिंहसेनो विवेशाशु द्रविणस्य दिदृक्षया ॥ ९९ ॥ सिंहसेनं विलोक्यात्र प्रविष्टं पूर्ववैरतः । ददंश * पन्नगः क्रुद्धस्तदा गन्धननामकः ॥ १०० ॥
1 पफ omit the second line of 77 and the first line of 78. 2 पफ युग्मम्, ज युगलमिदम् 3 ज विमलकां भारं 4 ज ददर्श.
For Private & Personal Use Only
९३ ॥
९४ ॥
5
20
www.jainelibrary.org