________________
हरिषेणाचार्यकृते वृहत्कथाकोशे
[७८. ३४विश्वासं तत्र पौराणां विधाय सरसं सकः । अष्टापदादिकोशस्य संग्रहं कुरुते तराम् ॥ ३४॥ एवं प्रयाति तत्काले पद्मखण्डे पुरोत्तमे । बभूव धनसंयुक्तः सुमित्रो नाम वाणिजः ॥ ३५ ॥ सुमित्रोपपदा दत्ता तत्प्रिया रूपशालिनी । पुत्रः सुमित्रदत्तः स्यात् तत्प्रिया सुव्रताभिधा ॥३६ ॥ ततस्ते प्रीतचेतस्काः सर्वेऽपि धनवाञ्छया । वाणिज्यायै कृतानन्दाः प्रापुः सिंहपुरं परम् ॥ ३७॥ । श्रुत्वा जनमुखात् तत्र श्रीभूतिं सत्यवादिनम् । कृतभाण्डमहाशालं वैदेशिकहितावहम् ॥ ३८॥
मणिरत्नानि दिव्यानि बहुमूल्यानि तत्करे । तके समर्पयामासुस्तद्गुणाकृष्टमानसाः ॥ ३९ ॥ स्वस्खद्रव्यादिकं तत्र कस्यापि वणिजो गृहे । स्थापयित्वा पुनः सर्वे पद्मखण्डपुरं ययुः ॥ ४० ॥ दिनानि कानिचित्तत्र स्थित्वा मुदितमानसः । सुमित्रो मित्रदत्तोऽपि बहुमित्रसमावृतः॥४१॥
आरुह्य सत्वरं दिव्यं बोहित्थं ध्वजभूषितम् । कृतमङ्गलसत्कार्यो रत्नद्वीपं ययौ मुदा ॥४२॥ " गच्छन्तो जलमार्गेण महावातेन वेगिना । युगपद्भिन्नबोहित्था मम्रः सर्वेऽपि वाणिजाः ॥४३॥ सुमित्रोपपदो दत्तो न परं मृतिमागतः । भिन्नबोहित्थमारुह्य समुत्तीर्णो नदीपतिम् ॥ ४४॥ कथंचिदैवयोगेन समुत्तीर्य महाम्बुधिम् । सुमित्रोपपदो दत्तः सिंहादिपुरमाययौ ॥ ४५ ॥ विलोक्य मातरं तत्र भार्यां च पुरतः स्थिताम् । पितुर्वार्ता समाचक्षौ लोकान्तरमितस्य सः ॥४६॥ पितृकार्यं विधायात्र जलदानादिकं ततः । तदा श्रीभूतिविप्रस्य समीपं प्राप्तवानसौ ॥४७॥ 15 स्तोकवेलां समास्थाय तत्पुरो रत्नसंचयम् । ययाचेऽमुं च सस्नेहं मूल्येन परिवर्जितम् ॥४८॥
श्रीभूतिस्तद्वचः श्रुत्वा जगादेमं ससंभ्रमम् । स्वभारतीविशेषेण कुर्वन् वाचाटमम्बरम् ॥ ४९॥ नाहं रत्नानि जानामि त्वदीयानि मनागपि । पिशाचेन गृहीतः किं येन मां तानि याचसे ॥५०॥ ततः सुमित्रदत्तेन पौरभूपतियोगिनाम् । प्रकृतीनां समस्तानां प्रत्येकं कथितं हि तत् ॥ ५१॥ ततः श्रीभूतिवाक्येनं राज्ञा पौरजनेन च । निराकृतो वणिक् तत्र माहनैः सकलैरपि ॥ ५२ ॥ ७ ततो निराशको भूत्वा दुःखपूरितमानसः । पुरमध्यं परिभ्राम्यन् जल्पतीदं स वाणिजः ॥ ५३॥ रामदत्तागृहासन्नं तिन्तिणीवृक्षमादरात् । अधिरुह्य निशान्तेऽसौ जल्पतीदं वणिक् तदा ॥ ५४ ॥ अहो नरेन्द्र चान्यायस्त्वत्पुरे वर्ततेऽधुना । श्रीभूतिना गृहीतानि पञ्चरत्नानि मे ध्रुवम् ॥ ५५॥ दिव्यान्यनर्घ्यरत्नानि श्री तिर्लोभसंगतः । तानि नार्पयति स्पष्टं मदुक्तोऽपि पुनः पुनः॥५६॥ एवं निगद्य तत्रस्थस्तारेण वचसा पुनः । प्रयाति स्वगृहं दुःखी स्वकराहतमस्तकः ॥ ५७ ॥ 25 अन्यदा रामदत्ता सा सुप्ता खपतिना सह । निशम्य तवनिं प्राह भूपतिं कृपयाधीः ॥ ५८॥
श्रुतं वचनमेतस्य मया षण्मासमात्रकम् । पञ्चरत्नोद्भवं राजन् न किंचिदपरं क्वचित् ॥ ५९॥ श्रुतं मे वाक्यमेतस्य रत्नविह्वलचेतसः । नूनं केनाप्युपायेन सत्येनेदं परीक्षताम् ॥ ६० ॥ रामदत्तावचः श्रुत्वा भूपोऽपि निजगावमूम् । उन्मत्ततया हि वक्ति वाणिजो वाक्यमीदृशम् ॥६१॥ निशम्य भारतीमस्य रामदत्ताऽभणीदमुम् । ब्रवीति पञ्च रत्नानि षट् सप्त न कदाचन ॥ ६२ ॥ 30 अतः सत्यं ब्रवीत्येष मुग्धभावेन सर्वथा । राजन्नस्य मत्तबुद्धिः क्रियते स्थिरभावतः ॥ ६३॥ भार्यावचनतो राजा समाहूय निजान्तिके । एकान्ते भीतचेतस्कं श्रीभूतिं निजगाविति ॥ ६४ ॥ भवतैतानि रत्नानि वाणिजस्य हतात्मनः । गृहीतानि न वा तानि सांप्रतं ब्रूहि मे द्रुतम् ॥६५॥ नरेन्द्रवचनं श्रुत्वा श्रीभूतिः प्राह तं नृपम् । न गृह्णामि स्म भूपाल रत्नान्येतस्य निश्चितम् ॥६६॥
1फ जानीमि. 2 पज श्रीपति ( but corrected thus in ), फ श्रीभूपति'. 3 पफ चतुकुलकम् , ज चतुष्कुलकमिदम्. 4 पफ त्रिकलम् , ज त्रिकलकमिदम्. 5ज मत्तुबुद्धिः दयाबुद्धिः. 6 पफ युग्मम्, जयुगलम्. 7 पफ निजान्तके. 8 पफ युग्मम्,ज युगलमिदम्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org