________________
श्रीभूतिपुरोहितकथानकम्
७८. श्रीभूतिपुरोहितकथानकम् ।
5
1
१० ॥
११ ॥
अपरादिविदेहेऽस्ति विषयो गन्धमालिनी । वीतशोका पुरी तत्र वीतशोकजनाञ्चिता ॥ १ ॥ वैजयन्तोऽभवत्तत्र भूपतिर्जनवत्सलः । सर्वश्रीस्तन्महादेवी सर्वश्रीः शीलशालिनी ॥ २ ॥ अनयो रूपसंपन्नो विद्याबलयुतोऽजनि । संजयन्तो जयन्तोऽपि नन्दनः कुलनन्दनः ॥ ३ ॥ वीतशोकां पुरीं श्रीमान् स्वयंभूस्तीर्थकृत् तदा । आजगाम पुराधीशैः सेव्यमानो महर्द्धिभिः ॥ ४ ॥ स्वयंभुवो जिनस्याथ समीपे भक्तितत्परः । धर्मं श्रुत्वा जिनप्रोक्तं वैजयन्तो नराधिपः ॥ ५ ॥ संजयन्तो जयन्तश्च जिनभक्तिपरायणः । भोगनिस्पृहचेतस्कः कीर्तिच्छन्नदिगन्तरः ॥ ६ ॥ स्वनन्दने श्रियं न्यस्य निजगोत्रक्रमागताम् । कीर्तिव्याप्तसमस्ताशे प्रतापाक्रान्तशात्रवे ॥ ७ ॥ आभ्यां समं विनीताभ्यां वैजयन्तो नरेश्वरः । पिहिताश्रवसामीप्ये' दीक्षां दैगम्बरीं दधौ ॥ ८ ॥ पिहिताश्रवसंयुक्ता वैजयन्तादिसाधवः । तपोनिहितचेतस्का विहरन्ति पुरादिकम् ॥ ९ ॥ एवं विहरतां तेषां वैजयन्तस्य योगिनः । केवलं ज्ञानमुत्पन्नं लोकालोकावलोकनम् ॥ तदा चतुर्विधा देवा भक्तिहृष्टतनूरुहाः । प्रापुः केवलिपूजार्थं विकसन्मुखपङ्कजाः ॥ धरणेन्द्रं विलोक्यात्र जयन्तो मूढमानसः । तन्निदानफलेनाशु धरणेन्द्रत्वमाप सः ॥ १२ ॥ मनोहरीं पुरीं प्राप्य संजयन्तः श्मशानके । दिनानि सप्त संतस्थे कायोत्सर्गेण निश्चलः ॥ १३ ॥ कायोत्सर्गस्थितं दृष्ट्वा संजयन्तं मुनीश्वरम् । पूर्ववैरी चुकोपाशु विद्युट्रो खगेश्वरः ॥ १४ ॥ ततस्तं कोपतः क्षित्वा जम्बूद्वीपार्थभारते । दक्षिणे विजयार्धस्य भागे जनमनोहरे ॥ १५ ॥ हर्यादिकवती दिव्या कुसुमादिवती तथा । सुवर्णादिवती चान्या चण्डवेगा जगावती ॥ १६ ॥ तासां पूर्वोदितानां हि नदीनां पञ्चसंगमे । प्रदेशे स्थापयित्वाऽमुं स्वपुरं गतवानसौ ॥ १७ ॥ सुवा नक्तं परिप्राप्य पुरे गगनवल्लभे । सर्वेषां बन्धुलोकानां जगादेति स्वचेष्टितम् ॥ १८ ॥ यथावृत्तं मया रात्रौ दुष्टस्वप्नो विलोकितः । उपसर्गो मुनेः कर्तुं प्रारब्धं खेटसाक्षिकः ॥ १९ ॥ नूनं शीतलतीर्थान्ते संजयन्तो मुनीश्वरः । कर्मक्षयं विधायाशु सिद्धिं प्राप्तो निरञ्जनम् ॥ २० ॥ तच्छरीरसुपूजार्थं देवागमनमुत्तमम् । बभूव धूपपुष्पादिगन्धामोदितदिग्मुखम् ॥ २१ ॥ धरणेन्द्रः परिप्राप्य दृष्ट्वा विद्युद्दृढं पुरः । क्रुद्धः कोपारुणाक्षोऽयं भृकुटीभीषणालिकः ॥ २२ ॥ नागपाशैर्दृढं बद्ध्वा खगं विद्युदृढं खलम् । दुराचारमिमं क्रूरं क्षिपामि वडवामुखे ॥ २३ ॥ गृहीतं तं विलोक्यायमादित्याभः कृतादरः । लान्तवेन्द्रः परिप्राप्य धरणं वारयत्यरम् ॥ २४ ॥ मुञ्च मुञ्च त्वमुं साधो धरणेन्द्र कृतागसम् । मैवंविधं कुरु स्पष्टं पापं मद्वचनं शृणु ॥ २५ ॥ त्वमहं चैष खेटोऽपि संजयन्तस्तपोधनः । संसारगहने भ्रान्ताश्चत्वारो वैरकारणात् ॥ २६ ॥ आदित्याभः पुनः प्राह लान्तवेन्द्रः पुरः स्थितम् । धरणेन्द्रं प्रगर्जन्तं खेटमन्तःक्रुधान्वितम् ॥ २७ ॥ sa भरतक्षेत्रे जम्बूद्वीपोपलक्षिते । बभूव शोभनाकारो विषयः शकटादिकः ॥ २८ ॥ तत्र सिंहपुरं नाम विद्यते पुरमुत्तमम् | सिंहसेनो नृपः शूरो रामदत्ताऽस्य गेहिनी ॥ २९ ॥ विद्यते रामदत्ताया धात्रिका निपुणाऽभिधा । सर्वभाषासु कुशला सर्वशास्त्रार्थकोविदा ॥ ३० ॥ अस्यैव भूपतेर्विप्रः सत्यवादी पुरोहितः । परद्रव्यनिराकाङ्क्षः श्रीभूतिरभवद् बुधः ॥ ३१ ॥ श्रीदत्ता तत्प्रिया चार्वी रूपयौवनराजिता । नीलोत्पलदलश्यामा कन्दोट्टदललोचना ॥ ३२ ॥ पुरोहितेनानेनाशु तत्पुरस्य समन्ततः । भाण्डशाला विशाला हि कारिता धनसंगताः ॥ ३३ ॥
20
1 पफ सामीपे 2 पफ चतुष्कलकम् ज चतुष्कलकमिदम् 3 ज केवलज्ञान.
- ७८. ३३ ]
Jain Education International
૯૨
For Private & Personal Use Only
10
15
25
38
www.jainelibrary.org