________________
१८८ हरिषेणाचार्यकृते बृहत्कथाकोशे
[७६. २२३आकर्ण्य तद्वचस्तत्र पर्वतः प्रीतमानसः । तन्माहनसमं तूर्णमयोध्यां नगरी ययौ ॥ २२३॥ केनापि सगरस्येयं किंवदन्ती निवेदिता । यथाऽभवत् पुरे राजन् ब्रह्मा ब्रह्मपुरादितः ॥ २२४ ॥ निशम्य वचनं तस्य सगरो हृष्टमानसः । द्रष्टुं स्वयंभुवं प्राप ब्रह्माणं परमोदयम् ॥ २२५ ॥ प्रणम्य सगरो भक्त्या ब्रह्माणं कलनिस्वनः । तदानीं तत्पुरस्तस्थौ भक्तिहृष्टतनूरुहः ॥ २२६ ॥ 5 दृष्ट्वा विधिरयं तत्र सगरं पुरतः स्थितम् । बभाण भूपते क्षिप्रमश्वमेधं मखं कुरु ॥ २२७॥ क्रियमाणेऽश्वमेधेऽस्मिन् विमानानि तदाऽसुरः। मणिचित्राणि दिव्यानि दर्शयामास तत्पुरः ॥२२८॥ यथैतानि विमानानि मखमाहात्म्यकारणात् । नाकात् समागतानीह पश्य त्वं नरकुञ्जर ॥२२९॥ एवमुक्त्वा विमानेषु जनानारोप्य तेषु सः । आरुरोहासुरो व्योम खनादापूरिताम्बरः ॥ २३०॥ निवेद्य पार्वतं वैरं शिलया हन्ति तत्पुनः । कांश्चित् पादप्रहारेण कांश्चित् करतलेन वा ॥ २३१॥ 10 तथा विमानमारोप्य सगरं दीनचेतसं । शिलया मस्तके हत्वेत्यमारयदमुं क्रुधा ॥ २३२ ॥
आदाय सुलसां पश्चादरण्यान्तेऽतिकोपतः । हन्त्यतः खल्लिबिल्वोत्थन्यायान्मुनिरिहाययौ ॥२३३॥ निवेद्य पूर्वसंबन्धमतिमुक्तकसाधुना । असुरोऽथो शमं नीतः स्वभावोऽयं महात्मनः ॥ २३४ ॥ सापराधाऽपि नेह स्त्री हन्तव्या शुद्धबुद्धिभिः। विशुद्धायाविकल्पस्तु गर्हितः स्त्रीवधो यतः॥ २३५ ॥
साधुवाक्येन तां भूयो मुमोचायं कृपार्द्रधीः । योषितं यद्यपि क्रुद्धा न निघ्नन्तीह वैरिणः ॥२३६॥' 15 तथाऽयोध्यापुरीजातपुरोहितमहत्तरान् । सगरस्य निहत्यायं विनीताविषयं ययौ ॥ २३७ ॥ तत्रापि मखयोगेन जीवहिंसनकारिणा । जघान सकलं लोकमसुरो ग्रावभिस्तदा ॥ २३८ ॥ एवं समस्तजीवानां दुष्टे कलियुगे सति । जातं मखनिधानं हि पापोपादनकारणम् ॥ २३९ ॥ वैरनिर्यातनं कृत्वा हत्वा सगरभूपतिम् । असुरः प्रीतचेतस्को जगाम स्वमनीषितम् ॥ २४० ॥ मल्लितीर्थे मखे विप्रैहिंसाधर्मः प्रवर्तितः । पूर्वं न विद्यते क्वापि यज्ञे जीववधो भुवि ॥ २४१॥ ॥ इति श्रीनारदपर्वतप्रतिज्ञाकरणकथानकमिदम् ॥ ७६ ॥
७७. सागरदत्तकथानकम् । पारिजातजनान्तेऽस्ति चित्रकूटं पुरोत्तमम् । गोपदासो नृपस्तत्र गोपदासी प्रियाऽस्य च ॥ १॥ समुद्रोपपदो दत्तः श्रेष्ठी तत्र महाधनः । भार्या समुद्रदत्ताऽस्य गृहीतपतिमानसा ॥२॥
अपराधशतेनायं भूभुजा रोषमीयुषा । समस्तधनमादाय निर्धनो विहितः पुनः ॥३॥ 25 ततो गहिल्लको भूत्वा मूढचित्तः स वाणिजः। मद्धनं सकलं नष्टं वदन्ननोऽभ्रमत् पुरे ॥४॥
एवं हि भ्राम्यतस्तस्य घृततैलादिभिः कृतैः । बन्धुभिर्यत्नतो बाढं नोपशाम्यति स ग्रहः ॥ ५॥ वैद्येन बान्धवास्तस्य गदिता बुद्धिशालिना । पुरोऽस्य धनमन्येषां कुरुत ग्रहहानये ॥६॥ निशम्य वचनं तस्य परकीयं धनं बहु । विदधुः तत्पुरः क्षिप्रं बान्धवाः स्नेहतत्पराः ॥७॥ दृष्ट्वा सागरदत्तोऽपि तद्धनं तोषसंगतः । आलिङ्गति शयानोऽपि करोति स्वपरोऽन्तिके ॥ ८॥ ० तिष्ठन् हस्ते समादाय तिष्ठति प्रीतमानसः । पुनः पुनः प्रकुर्वाणः स विश्रब्धोऽभवत् क्षणात् ॥९॥ परकीयं धनं यच समानीतं तदर्थकम् । धनिनां बंधुभिस्तुष्टैस्तत्समस्तं समर्पितम् ॥१०॥ ॥ इति श्रीधनापहरणग्रहणधनसमर्पणविश्रब्धीकरण
सागरदत्तकथानकमिदम् ॥ ७७ ॥
1 पफ युग्मम् , ज युगलमिदम्. पफ परिजात.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org