________________
-७६. २२२ ] नारदपर्वतकथानकम्
१८७ ततस्तद्वाक्यतः शीघ्रं तत्पिता प्रीतमानसः । पृथिवीमण्डले पुंभिः स्वयंवरमघोषयत् ॥ १९० ॥ श्रुत्वा स्वयंवरं सर्वे मिलिता नरकुञ्जराः । यथाक्रमं सुखं तस्थुर्मणिमञ्चेषु सादरम् ॥ १९१ ॥ शङ्खतूर्यनिनादेन बधिरीकृतदिग्मुखम् । स्वयंवरं विवेशाशु सुलसा सा सखीयुता ॥ १९२॥ मधुपिङ्गलमुरिक्षत्त्वा' नरवृन्दारकानपि । मुमोच सुलसा मालां सगरस्य गले तदा ॥ १९३॥ विलोक्य सगरासक्तां सुलसां मधुपिङ्गलः । महावैराग्यमासाद्य निर्ययौ तत्सभालयात् ॥ १९४ ॥ तदा भव्यजनानन्दं मलितीर्थ प्रवर्तते । पूर्वोक्तचारणाभ्याशे प्रवव्राज स पिङ्गलः ॥ १९५॥ तस्मिन् प्रव्रजिते बाढं सगरः सुलसासमम् । कामभोगान् प्रभुञ्जानस्तत्पुरे व्यवतिष्ठते ॥ १९६॥ मधुपिङ्गलयोगीन्द्रो विहरन् नगरादिकान् । विनीतां नगरीमेष विवेशाशनवाञ्छया ॥ १९७॥ गृहं सागरदत्तस्य प्रविष्टः क्रमतो मुनिः । धृतोऽस्य भार्यया भक्त्या श्रद्धादिगुणयुक्तया ॥१९८॥ तस्मिन्नेव गृहे विप्रः सोमशर्माप्तभोजनः । बृहत्पुस्तकभारेण युक्तस्तद्वेश्मनि स्थितः ॥ १९९ ॥ 10 मधुपिङ्गलकाये च दृष्ट्वा सल्लक्षणानि सः। जगाद श्रेष्ठिनीं विप्रः कौतुकव्याप्तमानसः ॥ २००॥ अम्ब मेऽग्निं द्रुतं देहि कार्यमेतेन सांप्रतम् । किं करिष्यसि वानेन विप्रोऽयं गदितोऽनया ॥२०१॥ सोमशर्मा पुनः प्राह श्रेष्ठिनी पुरतःस्थिताम् । सामुद्रं पुस्तकं भद्रे दहामीति विसंशयम् ॥२०२॥ ब्राह्मणोक्तं समाकर्ण्य श्रेष्ठिनी निजगाद तम् । पुस्तकस्य हि को दोषो वद विप्र ममाधुना ॥२०३॥ श्रेष्ठिनीभाषितं श्रुत्वा ब्राह्मणोऽपि बभाण ताम् । यथायं पुस्तकोऽसत्यः सुतरां श्रेष्ठिनि क्षितौ ॥२०४॥ 15 लक्षणानि च तादृशि 'नन्द्यावर्तादिकान्यलम्। एतस्मिन् मुनिकायेऽपि तादृशैर्लक्षणैः शुभैः ॥२०५॥ अनेन मुनिना नूनं शोभनाङ्गेन देहिनाम् । पृथिवीमण्डलं सर्वं भोक्तव्यं विघ्नतो विना ॥२०६॥ सर्वग्रन्थपरित्यागं कृत्वा देहेऽपि निःस्पृहः । निर्ग्रन्थो नग्नतां प्राप्तो भिक्षां भ्रमति सर्वदा ॥२०७॥ अनेन कारणेनार्ये पुस्तकं सत्यवर्जितम् । ततो दहाम्यहं मुग्धे देहि वह्निं मम द्रुतम् ॥ २०८॥ श्रुत्वा तद्वचनं भूयो विज्ञातपरमार्थिका । श्रेष्ठिनी निजगादैनं ब्राह्मणं कृतनिश्चयम् ॥ २०९॥ 20 सुलसाया निमित्तेन सगरेण कुमत्रिणा । विधाय कुत्सितं मत्रं स्वयंवरनिभेन च ॥ २१०॥ महानुभावतोपेतो मधुपिङ्गलनामकः । वञ्चितोऽयं मुनिस्ताभ्यां विमलो विमलोदयः ॥ २११॥ एतेन कारणेनायं महावैराग्यसंगतः। आजवंजवतो भीतो निर्विण्णो मुनितामितः ॥ २१२ ॥ आकर्ण्य तद्वचो योगी कोपमासाद्य वेगतः । सगरस्य वधाधायी भावयंश्चान्यजन्मनि ॥ २१३॥ कृत्वा निदानमीदृक्षं तदानीं मधुपिङ्गलः । सद्यः पञ्चत्वमासाद्य जातो देवोऽसुरो महान् ॥ २१४॥ 25 ततः सगरराजस्य मारणोपायचिन्तकः । अक्षसूत्रजटाधारी ब्रह्मरूपं चकार सः॥ २१५॥ कक्षमध्यस्थितस्यास्य पर्वतस्य समीपकम् । संप्राप्येमं जगादायं वचसाऽम्बरनादिना ॥ २१६ ॥ उत्तिष्ठ पर्वत क्षिप्रं भर्ताऽहं जगतः स्फुटम् । ज्येष्ठः सकललोकस्य ततो लोकपितामहः ॥२१७॥ शम्भुर्हिरण्यगर्भोऽहं ब्रह्मा विश्वस्य पूजितः । सर्वे वेदा विनिर्याता मन्मुखाम्भोजतो ध्रुवम् ॥२१८॥ भवन्तं दुःखितं दृष्ट्वा जनजल्पनतस्तराम् । साक्षाद्ब्रह्ममहासत्त्वो ब्रह्मलोकात् समागतः ॥ २१९ ॥ 30 अजैर्यष्टव्यमित्यस्य वाक्यस्यार्थों न तत्त्वतः । बुद्धः क्षीरकदम्बेन कोविदेन विपश्चिता ॥ २२० ॥ अजाः स्तमा हि विज्ञेया यष्टव्यं तैर्मखे द्विजैः। इममर्थमहं वेमि वाक्यस्यार्थं न चापरम् ॥२२१॥ उत्तिष्ठ तेन गच्छावो यागधर्मं स्तभैरिमैः । स्खेष्टदेशं परिप्राप्य कुर्वो द्वावपि संगतौ ॥ २२२ ॥
1 (°मुत्क्षिप्त्वा ?) [°मुत्क्षिप्य ]. 2 ज यथैव. 3 ज नन्यावर्तिका. 4 पफ चतुःकलकम् , ज चतुःकुलकमिदम्. 5 पफ चतुःकुलकम् , ज चतुःकुलकमिदम्. 6 पफ वधोधायी. 7 ज विपश्चितां. 8 पफज कुलकमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org