________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[७६. १५७विनीताख्यमहादेशे साकेता नगरी परा । अस्यां बभूव भूपालः सगरो गुणसागरः ॥ १५७ ॥ बभूवास्य नरेन्द्रस्य महादेवी मनःप्रिया । पद्मश्रीरिति विख्याता पद्माभिः पद्मपाणिका ॥१५८ ॥ सुबुद्धिरभवत् तस्य मत्री मत्रविदां वरः। स्वबुद्धिबुद्धराजार्थों' नीतिशास्त्रविशारदः ॥ १५९ ॥ सुयोधननृपस्तत्र सामन्तः सगरस्य सः। तस्यातिधीः प्रिया चासीत् तत्पुत्रोऽप्यतिमुक्तकः॥१६०॥ 5 रूपातिशयसंपन्ना कन्दोट्टदललोचना । पीनोन्नतकुचद्वन्द्वा तत्सुता सुलसाऽभवत् ॥ १६१॥ पोदनाख्ये पुरे राजा शूरो रूपी सुपिङ्गलः । मनोहरी प्रिया चास्य नितान्तं तन्मनोहरी ॥ १६२॥ रूपयौवनसंपन्नस्तत्पुत्रो मधुपिङ्गलः । सुयोधननृपस्यायं भागिनेयः प्रतापवान् ॥ १६३ ॥ सुलसाऽस्मै प्रयत्नेन मधुपिङ्गलरूढये । दातुमिच्छति तत्तातस्तूर्यमङ्गलनिस्वनैः ॥ १६४ ॥
अन्यदा नागरेऽमुष्मिन् पताकावलिराजिते । शङ्खतूर्यनिनादेन बधिरीकृतदिग्मुखे ॥ १६५ ॥ 10 नानाऽनोकुहसंकीर्णं फलपुष्पसमन्वितम् । नन्दनाभं वनं दिव्यं प्राप्तं चारणयुग्मकम् ॥ १६६ ॥
चारणान्तं परिप्राप्य धर्म श्रुत्वाऽतिमुक्तकः । तदन्ते च प्रवव्राज महावैराग्यसंगतः ॥ १६७॥ पुरान्निर्गच्छताऽनेन सगरेण नरेशिना । सुलसा रूपसंपन्ना प्रासादस्था विलोकिता ॥ १६८ ॥ तत्रत्यां तां समालोक्य तदा सगरभूपतिः । बभूव विस्मितस्वान्तो मन्मथाकुलमानसः ॥ १६९॥
ततोऽसौ योधनं प्राप्य मन्दिरं मदविह्वलः । सगरोऽमुं ययाचे तां सुलसां रूपशालिनीम् ॥१७०॥ 15 सोऽपि तां सुलसामस्मै प्रदातुं नेच्छति स्फुटम् । देया मे सौकुमाराय मधुपिङ्गलिने स्फुटम् ॥१७१॥
मधुपिङ्गलमेतं च रूपान्वितमपि क्षितौ । साऽपि नेच्छति तं कन्या सुलसा रूपगर्विता ॥ १७२॥ सगरोऽपि महादुःखव्याकुलीभूतमानसः । सुलसाहृतचेतस्को दध्याविति स चेतसि ॥ १७३॥ मच्चित्तकुसुमाली तां मत्तमातङ्गगामिनीम् । केनोपायेन वा कन्यां लप्स्येऽहं कलनादिनीम् ॥१७४॥ तदाकूतं परिज्ञाय सगरं तत्पुरोहितः । बभाण दुःखितस्वान्तं वचसाश्चर्यमीयुषा ॥ १७५ ॥ 20 मध्वादिपिङ्गलस्यैतां तत्पिता चेन्न दास्यति । ततो भविष्यति क्षिप्रं सुलसा तव सुन्दरी ॥१७६॥ पुरोहितवचः श्रुत्वा सगरो दीनमानसः । जगावमुं विनीतात्मा चित्ते सोत्कण्ठतां वहन् ॥१७७॥ उपायं कुरु तं भद्र येन सा सुलसा द्रुतम् । मधुपिङ्गलविद्विष्टा जायते बुद्धिसागर ॥ १७८ ॥ सगरस्य वचः श्रुत्वा जगावेषोऽपि तं पुनः । एवं करोमि राजेन्द्र विस्रब्धो भव सांप्रतम् ॥१७९॥ विस्रब्धीकृत्य भूपालं शास्त्रं सामुद्रनामकम् । साधु साधुनराशंसं चकार स पुरोहितः ॥ १८० ॥ 15 पर्यादिवाजिकाया हि सचिवेन प्रयत्नतः । तदानीं विष्णुदत्तायाः सामुद्र शास्त्रमर्पितम् ॥१८१॥
सुयोधनगृहं प्राप्य पुस्तकं वाचयत्यसौ । कन्यानिवहमध्यस्था तस्थौ मुदितमानसा ॥ १८२ ॥ प्रशस्तनरशास्त्रार्थ व्याख्याय कलभाषिणी । अप्रशस्तनराख्यानं कृत्वा श्लोकं पठत्यसौ ॥ १८३॥ षष्ठिः काणे शतं कुण्टे वामने दोषसंततिः । मधुपिङ्गलके नूनं दोषाः सन्ति सहस्रशः ॥ १८४॥
मधुपिङ्गलनेत्रेण परिणीताऽपि कन्यका । तत्क्षणाद् विधवा वा स्यान्न कदाचित् सुखान्विता ॥१८५॥ 30 श्रुत्वा तत्पुस्तकाख्यातं सुलसा मधुपिङ्गले । विरक्ता साऽभवच्छीघ्रं द्वेषाख्यानं विषं भवेत् ॥१८६॥ तद्विरक्तां परिज्ञाय सुलसां प्रीतमानसा । विष्णुदत्ता जगावेतां म्लानवक्रसरोरुहाम् ॥ १८७ ॥ आत्मतातं परिप्राप्य त्वं वदैवं मनस्विनि । यथा स्वयंवरं शीघ्रं मदर्थं घोषयादरात् ॥ १८८ ॥ कृते स्वयंवरे हित्वा समस्तान् नरकुञ्जरान् । वृणीष्व सगरं चोक्त्वा विष्णुदत्ताऽगमद् गृहम् ॥१८९॥
1 फ बुद्धभाजार्थो. 2 फ नन्दनाभवनं. 3 पफ युग्मम् , ज युगलमिदम्. 4 [ततः सौयोधनं ]. 5 ज कुरुत. 6 पफ युग्मम् , ज युगलमिदम्. 7 पफ त्रिकलम् , ज त्रिकलमिदम्. 8 पफ त्रिकलम्, जत्रिकलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org