________________
-७६. १५६ ] नारदपर्वतकथानकम्
१८५ स्वगृहागतमालोक्य पर्वतं म्लानवक्रकम् । शोकस्य कारणं माता पप्रच्छ पुरतः स्थितम् ॥ १२४॥ अतो भोजनवेलायाः कुतो यातो व्यतिक्रमः । तव पुत्र यथा पृष्टं ब्रूहि मे सकलं लघु ॥ १२५॥ आत्ममातृवचः श्रुत्वा तामवोचत पर्वतः । मयाऽधुनाऽम्बिके वादो नारदेन समं कृतः॥१२६॥ यथाजैश्छेलकैर्यागो मयोक्तो गुरुवाक्यतः । नीवारैरजकैर्वन्ध्यैर्नारदेनोदितः पुनः ॥ १२७ ॥ कृत्वा पिष्टमयं छेलं तत्पुरः प्रीतमानसैः । ब्राह्मणैर्ब्रह्मसंकाशैरमीभिः क्रियते मखः ॥ १२८॥ । इदं गुरूदितं न स्यात् सत्यं यदि ततो मम । जिह्वाच्छेदः प्रकर्तव्यः प्रतिज्ञेयं कृताऽमुना ॥१२९॥ श्रुत्वा सुतोदितं वाक्यं जगौ स्वस्तिमती तकम् । भयवेपितसर्वाङ्गी बाष्पविप्लुतलोचना ॥१३०॥ प्रतिज्ञा शोभना पुत्र गर्वेण विहिता त्वया । व्याख्यानमीदृशं कुर्वन् श्रुतस्ते जनको मया ॥१३१॥ यथाऽजा व्रीहयो बीजाः प्रादुर्भावविवर्जिताः । यष्टव्यं तैब/जैनूनं कृत्वाऽजं पिष्टनिर्मितम् ॥१३२॥' अवाचि जननी तेन पर्वतेन मयाऽम्बिके । जानताऽपि पितुर्वाक्यं गणेदं प्रभाषितम् ॥१३३॥ ॥ तद्वाक्यतो भयग्रस्ता नक्तं स्वस्तिमती तदा । जगाम वसुसामीप्यमुपविष्टा यथासनम् ॥ १३४॥ यथाक्रमं च सस्नेहं कुशलप्रश्नपूर्वकम् । इदं संतोषतः सत्यं जगौ स्वस्तिमती वसुम् ॥ १३५॥ सांप्रतं देहि मे पुत्र प्राक्तनी गुरुदक्षिणाम् । उक्तेयं वसुना मातः कीदृशी गुरुदक्षिणा ॥ १३६ ॥ अभाणि खस्तिमत्याऽयं वसुस्तद्वाक्यतः पुनः । नारदेन समं जातो वादः पर्वतकस्य च ॥१३७॥ अजैर्यष्टव्यमित्यस्य वाक्यस्यार्थोऽयमीदृशः । अजैश्छेलैः प्रकर्तव्यो यागः पर्वतभाषितम् ॥ १३८॥ 15 नारदेन पुनः प्रोक्ता व्रीहयो येऽप्ररोहकाः । अजास्ते साधु यष्टव्यममीभिर्द्विजकुञ्जरैः ॥ १३९ ॥ जानताऽपि त्वया वत्स वाक्यस्यार्थमिमं पुनः। अजाःस्तभाः प्रकर्तव्याः सभामध्ये मदुक्तितः॥१४॥ जानता वसुनाऽनेन गुरुपापसमागमम् । स्वस्तिमत्युपरोधेन प्रतिपन्नं तथाऽखिलम् ॥ १४१॥ पातयित्वा वसुं सा च स्वमते प्रीतमानसा । प्रदायाशिषमेतस्य ययौ स्वस्तिमती गृहम् ॥ १४२॥ अथ वादार्थिनौ श्वस्तौ तदा पर्वत-नारदौ । जग्मतुर्वसुसामीप्यं बहुलोकसमावृतौ ॥ १४३॥ 20 प्राप्य सर्वादरेणैतौ सभामध्यस्थितं वसुम् । जगाद नारदस्तत्र नितान्तं सत्यवादिनम् ॥ १४४ ॥ वसो सत्यगुणाधान केन यज्ञो विधीयते । तद्वाक्यतो वसुः प्राह नारदं छेलकैरयम् ॥ १४५ ॥ एवं पूर्वोदिते वाक्ये सिंहासनसमं वसुः । नभोमार्गादसत्येन प्रापयद् वसुधातलम् ॥ १४६ ॥ भूयोऽपि नारदेनोक्तः सत्यं ब्रूहि वसो द्रुतम् । स्तभैर्मखो विधातव्यो नारद स्वर्गकामिभिः ॥१४७॥ एवं निगदिते नूनं वसुः सिंहासनान्वितः । पतितो धरणीमध्ये मृषाभाषणतत्परः ॥ १४८॥ 25 भूयोऽपि नारदः प्राह वसुं धरणिसंगतम् । उपाध्यायोदितं चार्थं सत्यं ब्रूहि यथायथम् ॥१४९॥ नारदोक्तं समाकर्ण्य भाषितं वसुना पुनः । छेलकैरध्वरः कार्यों विप्रैस्तद्भक्तितत्परैः ॥ १५० ॥ एवमुक्ते ततः शीघ्रं कालं कृत्वा समाधिना । असत्याद् वसुभूपालः सप्तमं नरकं ययौ ॥ १५१ ॥ नारदोऽपि ततो देवैः पुष्पैरत्यन्तशोभनैः । गन्धामोदितसर्वाशैर्मनुष्यैरपि पूजितः ॥ १५२ ॥ अहो शीलमहो धैर्यमहो सत्यव्रतं दृढम् । नारदस्य सुरा हृष्टा घोषयन्ति नभःस्थिताः ॥ १५३ ॥ पर्वतोऽपि ततः प्राप्य निन्दां जनसमूहतः । भूभुजा गर्दभारूढः स्वदेशादपसारितः ॥ १५४ ॥ अन्यदेशं परिप्राप्य पर्वतः शोकपीडितः । अधो न्यग्रोधवृक्षस्य तस्थौ नृपविमानितः ॥ १५५ ॥ अत्रान्तरे परं वृत्तं धर्मविन्यस्तचेतसाम् । भव्यानां निगदामीति समाधानविधायिनाम् ॥ १५६॥
____1 पफज त्रिकलम्. 2 पफ यातो. 3 पफ चतुर्भिः कुलकम् , ज चतुर्भिः कुलकमिदम्. 4 पफ निगद्यते.
बृ० को. २४
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org