________________
G
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ७६.९२
शरे पराङ्मुखीभूते सारङ्गः प्रीतमानसः । सुखं व्यवस्थितस्तत्र बभूव वधवर्जितः ॥ ९२ ॥ तत्समीपं परिप्राप्य' विस्मयव्याप्तमानसः । व्याधोऽपि तां भुवं यावद् भूयो भूयः प्रपश्यति ॥ ९३ ॥ तावदाकाशसंकाशां स्फटिकाच्छमणिप्रभाम् । शिलां ददर्श तत्रत्यां स व्याधो विधुनिर्मलाम् ॥९४॥ विलोक्य तां पुलिन्द्रोऽपि विस्मयं प्राप्य वेगतः । राज्ञो निवेदयामास शिलां व्याधः सकौतुकः ॥ ९५ ॥ • श्रुत्वा तद्वचनं राजा जगादैनं सविस्मयः । कृत्वा प्रच्छन्नमूर्ति तामानयस्व मदन्तिकम् ॥ ९६ ॥ तदुक्तेन समाच्छाद्य पुलिन्द्रेण तदन्तिकम् । आनीता सा शिला शीघ्रं भूभुजेयं विलोकिता ॥९७॥ दृष्ट्वा तां विस्मयं प्राप्य दत्त्वाऽस्मै पारितोषिकम् । आस्थानमण्डपे राजा स्थापयामास तां शिलाम् ॥९८॥ तच्छिलोपरि संस्थाप्य दिव्यं सिंहासनं वसुः । आस्ते तद्विष्टरारूढः सभामध्ये समङ्गलम् ॥ ९९ ॥ लोकमध्ये प्रसिद्धिः स्यादीदृशी वसुधातले । समस्त भुवनव्यापियशसो वसुभूपतेः ॥ १०० ॥ " यथाऽयं भूपतिः खे वा सिंहासनमधिष्ठितः । आस्थानमण्डपे सत्त्वात् तिष्ठति प्रीतमानसः ॥ १०१ ॥ अत्रान्तरे श्रुताधारो नारदः कलहप्रियः । शिष्यपञ्चशतीयुक्तः प्राप्य पार्वतकं सदः ॥ १०२ ॥ व्याख्यानमत्र कुर्वाणः शिष्याणां पर्वतः पुरः । जगाद नारदं प्रीतो वेदवाक्यमिदं शृणु ॥ १०३ ॥ यशोव्याप्तसमस्ताशैर्धर्म संबन्धमिच्छुभिः । नरैरजैः प्रयष्टव्यं स्वर्गारोहणकामिभिः ॥ १०४ ॥ अस्य वाक्यस्य सत्यार्थो नारदैवं प्रतीयताम् । अजा हि च्छेलकाः प्रोक्ता यष्टव्यं तैर्नरैर्मखे ॥१०५॥ 15 पर्वतस्य वचः श्रुत्वा नारदो निजगाद तम् । अजाः स्तभा यदुक्तं हि शोभनं नोदितं त्वया ॥ १०६ ॥ सर्वातिशयसंपन्नं रूपातिशयसंयुतम् । सजीवं वा धरापृष्ठे कृत्वा पिष्टमयं पशुम् ॥ १०७ ॥ अजा हि नाम ते प्रोक्ता व्रीहयो येऽप्ररोहकाः । त्रैवार्षिका न जायन्ते यष्टव्यं त्वत्पुरस्तकैः ॥ १०८॥ तथा चोक्तं अमुना
कृत्वा घृतपशुं संगे कुर्यात् पिष्टमयं तथा ।
नन्वेच्छतु वृथा हन्त पशुं घ्नन्ति द्विजोत्तमाः ॥ १०९ ॥ ततः परं कृतयुगे त्रेतायां ज्ञानमुच्यते । द्वापरे यज्ञमेवाहुर्दानमेव कलौ युगे ॥ ११० ॥ पश्य त्रैवार्षिकैरुक्तं कुर्यात् तद्भृत्यवर्गयोः । अधिकं वापि वेद्येन समस्तान्यातुमर्हति ॥ १११ ॥ अतः स्वल्पीयसे द्रव्ये यः सोमं पिबति द्विजः । अपीतसोमपूर्वोऽपि न तस्याप्नोति तत्फलम् ॥१९२॥ एतेन पटुवाक्येन विद्धि मद्वचनं शुभम् । वर्षत्रयसमुद्भूता व्रीहयोऽजा भवन्त्यतः ॥ ११३ ॥ एतैरजैः प्रयष्टव्यं पुरुषैः पुरुबुद्धिभिः । 'महानुभावतोपेतैर्नितान्तं धर्ममिच्छुभिः ॥ ११४ ॥ इदमेव समाख्यातं व्याख्यातं परमोदयम् । मम क्षीरकदम्बेन तथाऽपि श्रुतशालिना ॥ ११५ ॥ नारदोक्तं समाकर्ण्य पर्वतो निजगावमुम् । अजैर्यष्टव्यमाख्यानं गुरुणा कथितं मम ॥ ११६ ॥ यथाजैश्छेलकैर्नूनं यष्टव्यं स्वर्गकामिभिः । विनयाचारसंपन्नैर्नरैर्धर्मपरायणैः ॥ ११७ ॥ एवं विवादमन्योन्यं कृत्वा पर्वत - नारदौ । पर्वतेन प्रतिज्ञेयं विहिता जनसाक्षिकम् ॥ ११८ ॥ अजशब्देन भण्यन्ते छेलका नारद स्फुटम् । अतो नरैः प्रयष्टव्यं छेलकैर्विनयान्वितैः ॥ ११९ ॥ अयमर्थः समुद्दिष्टश्चोपाध्यायेन नो यदि । मम जिह्वासमुच्छेदो निग्रहो वा भविष्यति ॥ १२० ॥ श्रुत्वा पार्वतकं वाक्यं नारदोऽपि बभाण तम् । यद्यजा व्रीहयो न स्युर्जिह्वाच्छेदो ममास्तु भो ॥ १२१ ॥ कृत्वाऽन्योन्यं प्रतिज्ञां तावूचतुर्वचनं त्विदम् । आवाभ्यां हि विधातव्यो वादः श्वो वसुसाक्षिकम् १२२ स्वमानसे वसुं कृत्वा प्रमाणं कृतनिश्चयौ । जग्मतुः स्वगृहं हृष्टौ तदा पर्वत - नारदौ ॥ १२३ ॥
20
25
30
1 पफ परिप्राप 2 पफ स्फुटिका 3 ज नन्वेच्छन्तु, ( नन्वेत्थ तु ? ), [ नन्वत्र तु ]. 5 पंफ महानुभावनो'.
Jain Education International
For Private & Personal Use Only
4 [ तपः ].
www.jainelibrary.org