________________
-७६.९१]
नारदपर्वतकथानकम् स प्रदेशो न कोऽप्यस्ति यस्मिन् कोऽपि न पश्यति।इति बुडा समायातावावां च भवदन्तिकम्॥५८॥' पर्वतो विजने देशे हत्वा तं छेलकं तदा । तद्भक्षणं विधायायादुपाध्यायान्तिकं पुनः ॥ ५९॥ इदं बुद्धिविशेषं स स्वस्तिमत्या जगौ पुनः । ज्ञात्वाऽमुं सर्वकालस्य तस्थौ जोषसमन्विता ॥६॥ अन्यदा त्रिभिरायुक्तः शिष्यैः क्षीरकदम्बकः । महाटवीं विवेशायं कृतक्षेत्रविशुद्धिकः ॥ ६१॥ एकान्ते निर्मलस्थाने चत्वारोऽपि महाजनाः । पठन्त्यारण्यकं ग्रन्थं पर्यङ्कासनसंस्थिताः ॥ ६२॥ एवं हि तिष्ठतामत्र चतुर्णामपि तद्वने । चारणो वीरभद्राख्यः शिवभद्रः समागतः ॥ ६३ ॥ दृष्ट्वा क्षीरकदम्बादीन् चतुरोऽपि महावने । शिवभद्रो जगादैतं वीरभद्रं महामुनिम् ॥ ६४ ॥ भगवन् पश्य पश्येदं यथा क्षेत्रादिशोधनम् । विधाय पठ्यतेऽस्माभी राद्धान्तो विनयानतैः॥६५॥ एतेऽपि च तथा विप्रा विनयाचारवर्तिनः । पठन्ति वागमं कक्षे पर्यङ्कासनयोगतः ॥ ६६ ॥ शिवभद्रवचः श्रुत्वा वीरभद्रोऽपि तं जगौ । दिव्यज्ञानसमासंगज्ञाताखिलपदार्थकः ॥ ६७॥ ॥ . अज्ञानिनो भवन्त्येते दिव्यज्ञानपरिच्युताः । कुशास्त्राहितसद्भावाः परिग्रहपरायणाः ॥ ६८॥ पठतामेव तेषां च सप्तमं नरकं नरः । एको यास्यति पापिष्ठो नानादुःखसमन्वितम् ॥ ६९॥ एवं निगद्य तौ साधू चारणौ गगनादरम् । अवतीर्य तदन्तं च तस्थतुर्ज्ञानतत्परौ ॥ ७० ॥ साधूदितं समाकर्ण्य तदा क्षीरकदम्बकः । संसारत्रस्तचेतस्को दध्यौ विस्मितमानसः ॥७१॥ मुग्धभावास्त्रयोऽप्येते ब्रह्मचर्यसमन्विताः । न यान्ति नरकं नूनं स्वभावार्जवचेतसः ॥ ७२ ॥ ॥ सर्वथा नरकं घोरं गन्तव्यं केवलं मया । अतः करोमि तत्किंचिद् येन यामि न दुर्गतिम् ॥७३॥ ततः क्षीरकदम्बेन दर्भपुष्पादिसंयुताः । प्रेषिताः स्वगृहं तेऽगुर्वसु-नारद-पर्वताः ॥ ७४॥ तद्वेलातिक्रमे जाते तदा स्वस्तिमती सुतम् । बभाण पर्वताभिख्यं किं नायाति पिता तव ॥ ७५॥ मातृवाक्यं समाकर्ण्य जगौ पर्वतकोऽपि वा । अस्मान् विसर्ग्य स क्वापि गतोऽहं वेभि नाम्बिके ॥७६॥ स्वस्तिमत्या तदुक्तेन पर्वतेन सहानया । एको विप्रो वनान्तेऽथ प्रेषितस्तद्वेषणात् ॥ ७७॥ ॥ उपाध्यायोऽपि तत्पार्श्वे दृष्टस्ताभ्यां वनान्तरे । शिलातलोपविष्टः सन्निर्ग्रन्थव्रतभूषितः ॥ ७८॥ उपाध्यायोऽपि ताभ्यां स दृष्टो मुनिसमीपके । वने यतित्वमापन्नो महावैराग्यकारणात् ॥ ७९ ॥ दूराद् विलोक्य तौ तत्र वस्त्रं यज्ञोपवीतकम् । पवित्रिकां समादाय संप्राप्तौ निजमन्दिरम् ॥८०॥ दृष्ट्वा स्वस्तिमती सद्यो वस्त्रादीनि स्वमन्दिरे । तदानीं तानि सर्वाणि रुरोद करुणावहम् ॥ ८१॥ प्रशंसन्ती कदाचित्तं निन्दन्ती च कदाऽपि च । तस्थौ स्वस्तिमती गेहे तदानीं जोषमास्थिता ॥८॥ उपाध्यायत्वमासाद्य तदा पर्वतकोऽपि सः । व्याख्यानं चापि भट्टानां कुर्वाणो व्यवतिष्ठते ॥८३॥ अत्रान्तरे ययातिश्च राजा वैराग्यसंगतः । राज्यपढें बबन्धासौ वसुनाम्नः सुतस्य सः॥ ८४॥ वितीर्य सकलं कोशं स्तोकाय वसवे ततः । गुणसेनगुरोः पार्थं स दीक्षामग्रहीत् परम् ॥ ८५॥ सत्यवादी नभःस्थायी महासामन्तसेवितः । चकार विपुलं राज्यं वसुर्वसुसमो भुवि ॥ ८६॥ उपाध्यायीं समाहूय तदा स्वस्तिमती वसुः । जगादेमां विनीतात्मा वरं ब्रूहि मनखिनि ॥ ८७ ॥३॥ वसुवाणीमुपाश्रित्य स्खचित्तानन्ददायिनीम् । उपाध्यायी बभाणेमं सभामध्यव्यवस्थितम् ॥ ८८॥ यस्मिन् काले सुतानेन मम कार्य भविष्यति । तस्मिन्निमं ग्रहीष्यामि तिष्ठत्वेष त्वदन्तिके ॥८९॥ अथास्ति नगरासन्ना भीषणा गहनाटवी । पुलिन्दस्तत्र पापर्ध्या गतस्तां सधनुःशरः ॥ ९॥ मृगं दृष्ट्वा निषादोऽपि मार्गणं धनुषोऽमुचत् । सोऽपि पाषाणमासाद्य परावृत्तः क्षणेन च ॥९॥
1 पफज कुलकम, 2 [तोकाय ].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org