________________
१८२ हरिषेणाचार्यकृते बृहत्कथाकोशे
[७६. २४पृष्टोऽमुना वसुः पश्चान्नारदोऽपि यथाक्रमम् । तद्वाक्यतो बभाणेमं विकसन्मुखपङ्कजः ॥ २४ ॥ मया कपर्दकान् दत्त्वा वणिग्भ्यश्चणकान् पुनः । आदाय भक्षितास्ते च भूयोभूयो यथारुचि ॥२५॥ त्वदीयाश्चणकाः श्रेष्ठिन् शोभना न भवन्त्यमी। मया डम्भमिमं कृत्वा गृहीताः स्वकपर्दकाः॥२६॥ अक्षानिमान् समादाय समस्तान् भवदन्तिकम् । संप्राप्तो वसुना सार्धं किं करोम्यधुना वद ॥२७॥ बुद्धिविस्तरमीदृक्षं स्वशिष्याणां विलोक्य सः। जगाद वल्लभामस्य पश्य चेष्टितमेतयोः ॥ २८ ॥ दृष्ट्वा स्वपुत्रविज्ञानं वसु-नारदयोरपि । सजोषा विस्मिता चित्ते तस्थौ स्वस्तिमती तदा ॥ २९ ॥ ततोऽन्यस्मिन् दिने जाते जगौ स्वस्तिमती पतिम् । मत्पुत्रं गौरवेण त्वं न पश्यसि मनागपि ॥३०॥ खकान्तावचनं श्रुत्वा तद्बुधोऽपि जगाद ताम् । भूयो मतिविकल्पं च त्रयाणां पश्य सुन्दरि ॥३१॥ नवं कलशमेकैकं त्रयाणां सकपर्दकम् । गुरुः प्रदाय सस्नेहं विधायेमं ममानय ॥ ३२॥ " गुरोराज्ञां समादाय प्राप्य तौ विशिखान्तरम् । ऊचतुर्वाणिजं हृष्टौ तदानीं वसुनारदौ ॥ ३३॥ घृतावगुण्डितं कुम्भं मदीयं कुरु वाणिज । मूल्येन तावता शीघ्रं येन यावः स्वमन्दिरम् ॥३४॥ तद्वाक्यतः पुनस्तेन निक्षिप्तः स्वगृहे कुटः । आदाय तं स्वहस्तेन चिक्षेपास्य पुरस्ततः ॥ ३५ ॥ तन्मूल्यजल्पनं कृत्वा जित्वा तं निजजल्पतः । गुरुपाद्यं गतौ तौ च स्निग्धकुम्भाक्षसंयुतौ ॥३६॥ विधाय विनतिं ताभ्यां भूयो भूयो गुरोरयम् । घृतावगुण्डितः कुम्भः कपर्दकयुतोऽर्पितः ॥३७॥ 15 घृतावगुण्डितं कुम्भ कारयित्वा कपर्दकैः । पर्वतोऽपि गुरोः पार्थं चिक्षेपेमं स्वपाणिना ॥ ३८॥ विलोक्य पर्वतस्यैषा वसुनारदयोरपि । मतिभेदं च संतस्थे म्लानवक्रसरोरुहा ॥ ३९॥ अथ स्वस्तिमती रुष्टा प्राप्य कोपं स्वभर्तरि । कलशं तत्परीक्षार्थ त्रयाणामपि संददे ॥४०॥ घृतेन कलशं पूर्ण कारयित्वा वणिक्पथे । आगच्छत ममाभ्याशे कपर्दकयुताः सुताः ॥४१॥ उपाध्यायीवचः श्रुत्वा त्रयोऽपि प्रीतमानसाः । ययुरापणमध्यं ते नानाजनसमाकुलम् ॥ ४२ ॥ ० घृतपूर्ण कुटं कृत्वा वणिग्वीथौ कपर्दकैः । गृहीत्वा पर्वतः शीघ्रं स्वगुरुभ्यां पुरोऽक्षिपत् ॥४३॥ कपर्दकैविना कुम्भं घृतपूर्ण वणिक्पथे । आदाय स्वगुरोरन्तं प्रापतुर्वसुनारदौ ॥ ४४ ॥ ततोऽन्यस्मिन् दिने तेषां त्रयाणामपि सत्वरम् । एकैकं छलकं दत्त्वा चोपाध्यायो बभाण तान् ॥४५॥ प्रदेशे यत्र नो कश्चित् प्रपश्यति जनः क्षितौ । निहत्य च्छेलकं तस्मिन्नागच्छत मदन्तिकम् ॥४६॥ स्ववच्छेलकसंयुक्ता वसुनारदपर्वताः । तद्वाक्यतः सुसंतुष्टा निर्ययुः कलनिस्वनाः ॥४७॥ 25 पुरं ग्रामं वनं भ्रान्त्वा बहुलोकसमाकुलम् । उपाध्यायसमीपं तौ प्रापतुर्वसुनारदौ ॥४८॥
खस्वच्छेलकसंयुक्तौ विलोक्य वसुनारदौ । उवाच जनकः क्षिप्रं कोपलोहितलोचनः ॥४९॥ निहत्य च्छेलकं वत्सौ प्रदेशे जनवर्जिते । स्तभं न भक्षितं कस्माद् ब्रूतं मम यथाक्रमम् ॥५०॥ निशम्य तद्वचस्तौ च विहस्य गुरुमूचतुः । भवदुक्तं प्रकुर्वाणौ पश्यत्यावां जनः परः ॥५१॥
हन्यमानावजं खे च चन्द्रादित्यग्रहादयः । नूनमावां प्रपश्यन्ति द्योतिताकाशभूतलाः ॥५२॥ 30 हतवन्तावमुं चावां वनेऽनोकुहसंकुले । प्रयत्नमपि कुर्वाणों पश्यन्ति वनदेवताः ॥ ५३॥
छेलकस्य वधं चावां कुर्वाणौ चेगुहोदरे । अस्मत्पञ्चेन्द्रियाणीश प्रपश्यन्ति मुहुर्मुहुः ॥ ५४॥ एवं हि सति संजाते कारणे सकले विभो । अस्माभिश्चिन्तितं भूयो भुवि जातकुतूहले ॥ ५५ ॥ आवयोः पुरतो नूनमुपाध्यायेन जल्पितम् । यथा यस्मिन् प्रदेशे हि कोऽपि पश्यति नो जनः॥५६॥ हत्वा तस्मिन् प्रदेशे च च्छेलकं क्रूरचेतसौ । तद्भक्षणं प्रकर्तव्यं भवद्भिर्वीतसंशयैः ॥ ५७॥
1 पफ चतुःकुलकम् , ज चतुष्कुलकमिदम्. 2 ज नवकलश. 3 पफ युग्मम् , ज युगलम्. 4 फ खगुरोरन्ते.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org