________________
-७६. २३ ]
नारदपर्वतकथानकम्
१८१
द्वयोरपि तयोः संधौ मातङ्गो नाम पर्वतः । सभार्यास्तत्र मातङ्गा वसन्ति प्रीतमानसाः ॥ ३ ॥ तत्रोपरि महादेशः शराणां निवासकः । नानातरुसमाकीर्णो गव्यूतिद्वादशात्मकः ॥ ४ ॥ शबराणां पुनस्तत्र व्यवस्थाऽभवदीदृशी । विवाहसमयात् पूर्वं यथोक्ताचारकारिणाम् ॥ ५ ॥ षण्मासं वर्षमेकं वा ब्रह्मचर्येण संगतौ । विद्यां साधयतस्तत्र तदा म्लेच्छवधूवरौ ॥ ६ ॥ भूयोऽपि तौ कुमारौ च विद्यामादाय भक्तितः । अटवीदुर्गदं व्यग्रे तकां साधयतस्तराम् ॥ ७ ॥ सत्येन युक्तयोस्तत्र ब्रह्मचर्येण च स्फुटम् । अनयोः सिद्धिमायाति विद्यानिश्चितचेतसोः ॥ ८ ॥ ब्रह्मचर्ये गते नाशं तथा सत्यव्रतेऽपि च । विद्या विनाशमायाति तयोर्विह्वलचेतसोः ॥ ९ ॥ ॥ इति श्रीसत्यव्रतयुक्तमातङ्गकथानकम् ॥ ७५ ॥
७६. नारदपर्वतकथानकम् ।
15
विनीतविषये चासीदयोध्या नगरी परा । अस्यां ययातिराजेन्द्रः ' सुरकान्ताप्रियापतिः ॥ १ ॥ अनयो रूपसंपन्नः सत्यवादी प्रियंवदः । विनयाचारसंपन्नो वसुनामा सुतोऽभवत् ॥ २ ॥ अस्यां क्षीरकदम्बाख्यश्चतुर्वेदोऽभवद् द्विजः । उपाध्यायोऽस्य भार्या च चार्वी स्वस्तिमती प्रिया ॥३॥ अन्योन्यप्रेमसंबन्धबद्धमानसयोस्तयोः । बभूव तनयो मूर्खः प्रियः पर्वतकाभिधः ॥ ४ ॥ शिष्याः क्षीरकदम्बस्य त्रयो गुणगरीयसः । बभूवुः पठनोद्युक्ता वसु पर्वत - नारदाः ॥ ५ ॥ बह्वीभिरपि संस्थाभिर्न गृह्णाति पदादिकम् । पर्वतः पर्वतग्रावसमानो मतिवर्जितः ॥ ६॥ दृष्ट्वा स्वस्तिमती पुत्रं मन्दबुद्धिं पतिं जगौ । स्वपुत्रं पर्वतं हित्वा विटान् पाठयसि स्फुटम् ॥ ७ ॥ उपाध्यायीवचः श्रुत्वा चोपाध्यायो जगाद ताम् । आगमं दातुमेतस्मै न समर्थोऽस्मि सांप्रतम् ॥८॥ बुद्धिर्नरविशेषेण जायते दयिते नृणाम् । बुद्धिरत्नविहीनानां तच्छरीरं न शोभते ॥ ९ ॥ परीक्षितुं मतिं तस्य दृष्टान्तं दर्शयत्यसौ । स्वप्रियाया ह्युपाध्यायस्तदानीं मुग्धचेतसः ॥ १० ॥ त्रयाणामपि हस्ते च दत्त्वा तेषां कपर्दकान् । जगौ क्षीरकदम्बस्तान् स्वस्तिमत्यां समन्वितान् ॥ ११॥ 20 दत्त्वा कपर्दकान् पुत्रास्त्रयोऽपि वणिजां पुनः । क्रीत्वा तैश्चणकान् बुद्ध्या भक्षयित्वा तकानपि ॥ १२ ॥ भूयः कपर्दकान् सर्वान् सर्वेऽपि वरबुद्धयः । समर्पयत मे क्षिप्रं क्रयविक्रयकोविदाः ॥ १३ ॥ * तानादाय ततः सर्वास्ते तदानीं कपर्दकान् । वीथीमार्ग ययुस्तुष्टाः कौतुकव्याप्तमानसाः ॥ १४ ॥ तन्मध्ये पर्वतो दध्यौ मूर्खो मज्जनको भुवि । यो वक्ति वणिजां दत्त्वा चणकार्थं कपर्दकान् ॥ १५॥ आदाय चणकान् भद्रा भक्षयित्वा तकानपि । भूयः कपर्दकान् सर्वान् ममानयत सत्वरम् ॥ १६ ॥ 2s दत्त्वा कपर्दकानेषां गृहीत्वा चणकानथ । भक्षयित्वा तकान् स्वस्थः स्वगृहं पुनराययौ ॥ १७ ॥ इतरौ द्वावपि स्पष्टं कुशलौ वसुनारदौ । दत्त्वा कपर्दकानेभ्यो गृहीत्वा चणकानरम् ॥ १८ ॥ अल्पकान् चणकान् भुक्त्वा शोभनान्निमकानलम् । अर्पयित्वा पुनस्तेभ्यः समादाय कपर्दकान् ॥ १९॥ तदुत्तरं प्रदायेमान् गृहीत्वा स्वकपर्दकान् । स्वगृहं प्राप्य तौ तस्मै ददतुस्तान् कपर्दकान् ॥ २० ॥ स्वस्तिमत्याः पुनः' स्पष्टं कौतुकव्याप्तमानसा' । पप्रच्छ पर्वतं तत्र तदा क्षीरकदम्बकः ॥ २१ ॥ ३० मयाऽर्पिता हि ये पुत्राः क्व गतास्ते कपर्दकाः । ममार्पय तकान् भद्र सांप्रतं तैः प्रयोजनम् ॥ २२ ॥ पितृवाक्यं समाकर्ण्य जगौ पर्वतकोऽपि तम् । आदाय चणकानक्षैर्भुक्त्वा तानहमागतः ॥ २३ ॥
1 ज प्रपाति राजेन्द्रो. 2 ज विडान् 3 पफज त्रिकलम्. 4 पफ कपर्दकान्येषां 5 पफज त्रिकलमिदम् 6 पफज त्रिकलमिदम्. 7 [ पुरः ] 8 [मानसः ].
Jain Education International
For Private & Personal Use Only
14
www.jainelibrary.org