________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[७४. ४०नृपवाक्यं समाकर्ण्य धर्मचौरो भयादितः । यमपाशं जगादेति मरणाशङ्किमानसः ॥ ४० ॥ मारणं कार्यते नूनं ममान्येनापि केनचित् । हत्वा मां स्खेन हस्तेन रक्षात्मानं प्रयत्नतः ॥४१॥ नियेऽपि यद्यहं नूनं जीवाम्यद्य तथाऽपि नो । जीवघातं करोम्यत्र व्रतखण्डमकारणात् ॥ ४२ ॥
यमदण्ड पुरस्कृत्य तौ तदा द्वावपि स्फुटम् । पुरमध्ये नयत्येष बहुलोकसमावृतः ॥४३॥ ६ नग्नश्रमणपार्थे हि यो गृह्णाति व्रतं जनः । एवंविधं फलं सोऽपि लभते नात्र संशयः॥४४॥
आरक्षको वदन्नेवं समन्तात् खरनादतः । गङ्गाह्रदं स संप्राप्य शुंशुमारसमन्वितम् ॥४५॥ आरक्षकः स्वहस्तेन चौरं चिक्षेप तत्र च । क्षिप्यमाणोऽप्यसौ शीघ्रं शुंशुमारैस्तु भक्षितः॥४६॥ प्राध्वंकृत्य ततः पाणं चिक्षेपायं धुनीहदे । तस्य प्रक्षिप्तमात्रस्य बभूव पुलिनं हि सः॥४७॥ गङ्गापुलिनमध्यस्थं विधाय मणिनिर्मितम् । सिंहासनं मनोहारि मेरुकूटमिवोन्नतम् ॥ ४८॥ " स्थापयित्वाऽत्र तं देवाः पाणं भासुरविग्रहम् । जाम्बूनदमयैः पद्मः सरत्नैः पूजयन्त्यलम् ॥ ४९ ॥ अहो शीलमहो धैर्यमहो स्थैर्य व्रतेऽस्य कौ । देवा नभोगता हृष्टा घोषयन्ति गुणान्तरम् ॥५०॥ अत्रान्तरे सुदीनास्यः पाकशासनभूपतिः । हन्यमानश्चपेटाभिः पुरमध्ये पिशाचकैः ॥ ५१ ॥ भो भो जनपदाः स्पष्टं मद्वचो हि निशम्यताम् । मुनिदत्तव्रतानां च यो भङ्गं विदधात्यरम् ॥५२॥ इह लोके परत्रापि परिभूतिं स दुःसहाम् । पाकशासनवन्मक्षु देही प्राप्नोति वेदृशीम् ॥ ५३॥ 15 एवं निगद्य तैर्देवैर्विस्मयव्याप्तमानसैः । प्राध्वंकृत्य ततो नीतः शुंशुमारहदं नृपः ॥ ५४॥
शुंशुमारहदे देवैस्तदा निक्षिप्यमाणकः । यमपाशं बभाणेमं पाकशासनभूपतिः ॥ ५५ ॥ पाहि पाहि व्रताधार मां परित्राणवर्जितम् । यमपाश समागच्छ ममाभ्याशं त्वरान्वितः ॥५६॥ एवं निगद्यतेऽनेन भूयो भूतपिशाचकाः । यमपाशं वदन्तीमे कोपारुणनिरीक्षणाः ॥ ५७॥ यावदेतं दुराचारं धर्मविघ्नकरं खलम् । तावद् ब्रवीषि मा किंचिन्निक्षिपामो ह्रदे वयम् ॥ ५८ ॥ 20 नरेन्द्रवचनं श्रुत्वा यमपाशो जगौ सुरान् । भवद्भिर्न च हन्तव्यो मत्प्रभुः पाकशासनः ॥ ५९॥
अवाचि भूपतिर्भूतैर्भयवेपितविग्रहः । यमपाशोदितैः क्षिप्रं भीमरूपविधायिभिः ॥ ६०॥ पाकशासन यद्येतं कृत्वा भोज्यं स्वमानतः । यशोमतिसुतामस्मै चार्धराज्यं प्रयच्छसि ॥ ६१॥ पश्यतां सर्वलोकानां बन्धमोक्षोऽस्ति ते परम् । अन्यथा नेति जानीहि संगरोऽस्माकमीदृशः॥६२॥"
भूपालो भूतवाक्येन पूजयित्वा पुरान्तरे । अर्धराज्यं सुतां चास्मै यमपाशाय संददे ॥ ६३॥ 15 पाकशासनतः पूज्यो भूत्वा राजा हि तत्पुरे । महाविभवसंपन्नो यमपाशो बभूव सः ॥ ६४ ॥
इदमाश्चर्यमालोक्य बहवो नरकुञ्जराः । जिनधर्म समाश्रित्य बभूवुर्मुनिपुङ्गवाः ॥ ६५ ॥ केचिच्छ्रावकतां प्राप्ताः केचिन्मध्यस्थतां पराम् । जिनधर्म प्रशंसन्तः केचित्तस्थुः स्वमन्दिरे ॥६६॥ ॥ इति श्रीएकदिवसग्रहणादहिंसावतफलसहितशुंशुमारहृदनिक्षिप्तदेवप्राति
हार्यपाकशासनपूजाकरणयमपाशयाताहिंसाव्रतकथानकमिदम् ॥ ७४॥
७५. मातङ्गकथानकम् । दक्षिणापथदेशेऽस्ति विषयो मलयादिकः । तद्दक्षिणदिशोभागे पाण्ड्वादिविषयों महान् ॥१॥ तदुत्तरदिशाभागे नानानोकुहसंकुले । नदीनगसमाकीर्णे जलनिर्धारणान्विते ॥ २॥
1 पफ युग्मम् , ज युगलम्. 2 [ गुणांस्तराम् ]. 3 पफज त्रिकलमिदम्. 4 पफ युग्मम् , ज युगलम्. 5 पफज त्रिकलमिदम्. 6 पफ मध्यस्थितां. 7 ज omits इति श्री. upto the end of theMs. and adds इदम्. 8फ पाड्वादि, [पाण्ड्यादि°].9 पफ युग्मम् , ज युगलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org