________________
यमपाशकथानकम्
१७९
-७४. ३९ ] यो हि जीववधं कोऽपि करिष्यति दिनाष्टके । कालेऽत्र कृतकार्यस्य स मे वध्यो भविष्यति ॥७॥ एवं घोषणया तत्र दत्तयैकोऽस्ति वाणिजः । धर्मनाना स नाम्नैव पिशितासक्तमानसः ॥ ८॥ तेनैकस्य वराकस्य नूनमूरणिकस्य च । मिण्ढको निहतो दीनः पिशितासक्तचेतसा ॥९॥ निहतो मिण्ढकोऽनेन मांसभक्षणकारिणा । भूपस्योरणिकेनाशु तद्वार्ता कथिता तदा ॥ १० ॥ तेनापि भूभुजा शीघ्रं दुष्टो निगडसंयुतः । गुप्तौ निधापितः पापो दुःखतः सोऽवतिष्ठते ॥११॥ यावद् व्रजन्ति ते नूनं घोषणावासराः खलः । अत्र तिष्ठति धोऽयं मारयिष्याम्यमुं पुनः ॥१२॥ अतिमुक्तकसंज्ञाके श्मशाने तिष्ठति स्फुटम् । अमृताश्रवनामायं सर्वोषधिसमन्वितः ॥१३॥ यमपाशः पुनस्तत्र निजलोकसमन्वितः । उपसर्गविनाशाय श्मशाने तस्थिवानसौ ॥ १४ ॥ अमुं मुनि परिप्राप्य धर्मं श्रुत्वा जगद्धितम् । सोऽहिंसाव्रतमादाय पूर्णिमायां गृहं ययौ ॥१५॥ तत्र भायाँ निजां प्राह यमपाशः पुरः स्थिताम् । आरक्षकस्य मां ब्रूहि भद्रे ग्रामान्तरं गतम् ॥१६॥ 0 एवमुक्त्वा खकां कान्तां प्रविष्य स्वगृहान्तरः । स्वं वस्त्रेण समाच्छाद्य शिश्ये तद्वल्लभः सुखम् ॥१७॥ सुप्तमात्रस्य तस्यापि यमदण्डस्तलारकः । आगत्य तद्गृहं प्राह छर्दिकां तन्मनःप्रियाम् ॥ १८॥ छर्दिके त्वत्पतिर्भद्रे व गतो निगदाशु मे । साऽपि तद्वचनात् प्राह यमदण्डं यमोपमम् ॥१९॥ यथा भर्ता मम स्वामिन् भागिनेयाविवाहके । पलाशोपपदं ग्रामं जगामाद्य निमत्रितः ॥ २० ॥ आरक्षकः पुनः प्राह तदा तद्वचनादरम् । अद्य यस्तस्कर कोऽपि मरणं प्रापयिष्यति ॥ २१ ॥ 15 नानारुच्यानि दिव्यानि बहुमूल्यानि तस्य च । विद्यन्ते तानि सर्वाणि ग्रहीष्यत्यपरोऽन्त्यजः ॥२२॥ श्रुत्वा तद्वचनं सा च तं जगादाशु तत्प्रिया । वामहस्तेन तत्संज्ञां कुर्वती प्रीतमानसा ॥ २३ ॥ उत्क्षिप्य दक्षिणं हस्तं भूयोऽपीमं जगाद सा । स्वामिन्नद्यैव मे कान्तो गतो ग्रामं निमत्रितः ॥२४॥ यमदण्डेन तद्वाक्याद् विलोक्यैवं स भाषितः। रे रे पाप दुराचार निर्गच्छ निजमन्दिरात् ॥ २५॥ यमपाशोऽपि निर्गत्य तदानीं स्वनिकेतनात् । भयवेपितसर्वाङ्गो जगादेदं कृतानतिः ॥ २६ ॥2॥ स्वामिन् मयाऽद्य साध्वन्तेऽहिंसाव्रतमखण्डितम् । दिनमेकं गृहीतं च जिनाज्ञां कर्तुमिच्छता ॥२७॥ भवत्पादप्रसादेन यमदण्ड यमोपम । तदहिंसाव्रतं चैकं रक्षितुं नान्यतः प्रभुः ॥ २८ ॥ तद्भारती निशम्याशु यमदण्डो जगाद तम् । नृपाज्ञया समयातो न त्वां मुञ्चामि सर्वथा ॥२९॥ ततस्तौ द्वावपि क्षिप्रं सभामध्यस्थितं नृपम् । जग्मतुः प्रीतचैतस्कौ विनयानतविग्रहौ ॥ ३० ॥ यमपाशो नृपं नत्वा सभामध्ये व्यवस्थितम् । ललाटपट्टविन्यस्तकरकुड्मलराजितः ॥ ३१॥ 25 महाराज मयाऽद्यैव मुनि नत्वा तपोधनम् । अहिंसाव्रतमेकं च गृहीतं दिनमेककम् ॥ ३२ ॥ भवत्पादप्रसादेन व्रतमेतदहीनकम्' । पालयामि विना क्लेशान्मुञ्च मामधुना नृप ॥ ३३॥ श्रुत्वा तद्वचनं राजा यमपाशं जगावमुम् । कोपलोहितरक्ताक्षो भृकुटीभीषणालिकः ॥ ३४ ॥ विप्रभिक्षुपरिव्राजां भस्माङ्किततपस्विनाम् । त्वं व्रतं यदि गृह्णासि त्वां मुञ्चामि ततो ध्रुवम् ॥३५॥ नग्नश्रवणसामीप्यं परिप्राप्य त्वया खल । गृहीतं व्रतमेवेदं त्वां न मुञ्चाम्यतः स्फुटम् ॥ ३६ ॥ ॥ प्रतारणं विधायाध व्रतं दत्तं तकैस्तव । नग्नो भविष्यसि क्षिप्रं प्रभाते तन्मतेन च ॥ ३७॥ यमपाशं निगद्यैवं यमदण्डं जगौ नृपः । इमं मिण्ढकहन्तारं गृहीत्वा द्वावपि द्रुतम् ॥ ३८॥ एकं क्षपणकासक्तं द्वितीयं मिण्ढकाशनम् । नीत्वाऽमुं मुञ्च वेगेन शुंशुमाराकुले हृदे ॥ ३९ ॥
1फ संज्ञाको. 2 पफ युग्मम् , ज युगलम्. 3 पफ युग्मम् , ज युगलम्. 4 ज जगादेयं. 5 पफज त्रिकलमिदम्. 6जन तां. 7 पफ द्विहीनकम्.8 पफज त्रिकलमिदम्.9 पफ रक्ताख्यो.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org