________________
१७८
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ७३.२८४
देहि मे क्षुल्लक स्वामिन् प्रव्रज्यां भवनाशिनीम् । येनाहं त्वत्प्रसादेन करोमि हितमात्मनः ॥ २८४॥ मारिदत्तोदितं श्रुत्वा क्षुल्लकोऽपि जगाद तम् । दातुं ते न समर्थोऽहं दीक्षामुत्तिष्ठ भूपते ॥ २८५ ॥ अस्माकं गुरवः सन्ति कीर्तिच्छन्नदिगन्तराः । ते समर्थास्तपो दातुं भवतो ज्ञानिनोऽमलाः ॥ २८६ ॥ निशम्य क्षौल्लकं वाक्यं कौतुकव्याप्तमानसः । मारिदत्तो विशुद्धात्मा दध्याविति स चेतसि ॥२८७॥ पूसामन्तो' जनः सर्वो मत्पादाभ्याशमागतः । अहं बलसमोऽपि देवतापादमाश्रितः ॥ २८८ ॥ देवताऽपि पदद्वन्द्वं क्षुल्लकस्य समाश्रिता । अस्य चैवंविधस्यापि विद्यतेऽन्यो गुरुर्महान् ॥ २८९ ॥ अहो मुनिगणस्येदं माहात्म्यं तपसः परम् । येन देवासुराणां हि पूजनीयास्तपोधनाः ॥ २९० जिनधर्मसमासंगपवित्रीकृतचेतसा । क्षुल्लकादिमुखं तस्थौ मारिदत्तो विशुद्धधीः ॥ २९९ ॥ * अत्रान्तरे विदित्वाऽऽशु दिव्यज्ञानबलेन सः । महोपसर्गमीदृक्षं वीरक्षुल्लकयोरिदम् ॥ २९२ ॥ 'देवताप्रातिहार्यं च धर्मस्य ग्रहणं तथा । प्रव्रज्याध्यवसायं च मारिदत्तस्य धीमतः ॥ २९३ ॥ धर्मवात्सल्यतोपेतो धर्मो वाऽपधनान्वितः । सुदत्ताख्यमुनिर्धीरस्तत्समीपं समाययैौ ॥ २९४ ॥ एवंविधमुनेः पार्श्वे संप्राप्य विनयानतः । कलत्रपुत्रसामन्त भर्तृभ्रातृसुसंगतः ।। २९५ ॥ प्रणम्य चरणौ भक्त्या पूजितः सुरकुञ्जरैः । मारिदत्तो ययाचेऽरं प्रव्रज्यां यतिनायकम् ॥ २९६॥ राज्यपट्टं स्वपुत्राय वितीर्य विनताय सः । प्रकृतीनां समस्तानां समय तनयं मुहुः ॥ २९७ ॥ पुरोहितमहामात्य सामन्तान्तः पुरान्वितः । मारिदत्तः प्रवब्राज सुदत्तान्ते विशुद्धधीः ॥ २९८ ॥ क्षुल्लकौ क्षौलकं धर्मं हित्वा वैराग्यसंगतौ । तदा निजगुरोः पार्श्वे मुनिदीक्षामुपागतौ ॥ २९९ ॥ पादोपगमनं कृत्वा यावज्जीवं चतुर्विधम् । हित्वाऽऽहारं समस्तं च धर्मध्यानमुपाश्रितौ ॥ ३०० ॥ पक्षमात्रेण कालेन कालं कृत्वा समाधिना । स्वयंप्रभविमाने तौ संजातौ क्षुल्लकौ सुरौ ॥ ३०१ ॥ दृष्ट्वाऽतिशयमीदृक्षं केचिज्जाता मुनीश्वराः । केचिच्छ्रावकतां प्राप्ताः केचिन्मध्यस्थतां गताः ॥ ३०२ ॥ 2° आराध्याराधनां सारां विधिना स चतुर्विधाम् । सुरलोकं वरं प्राप सुदत्तमुनिनायकः ॥ ३०३ ॥ आराध्याराधनां तेऽपि मारिदत्तादयोऽखिलाः । सम्यग्दर्शनसंशुद्ध भावयोग्यं पदं ययुः ॥ ३०४ ॥ एकजीववधं यो हि विदधाति प्रमत्तधीः । सोऽनेकभवसंबन्धां संसृतिं भ्रमति क्षितौ ॥ ३०५ ॥ ॥ " इति श्रीपिष्टमयकुक्कुटकात्यायनीदेवतायै निहतसप्तभवान्तरभ्रमणसहितयशोधरचन्द्रमतीकथानकम् " ॥ ७३ ॥
5
10
15
25
७४. यमपाशकथानकस् ।
काशीजनपदे रम्ये वाराणस्यां पुरि प्रभुः । आसीत् प्रतापसंयुक्तः पाकशासननामकः ॥ १ ॥ पौलोमी तस्य भार्याऽऽसीत् पौलोमीसमविभ्रमा । रूपयौवनसंपन्ना कामिनीव मनोभुवः ॥ २ ॥ आरक्षकोऽभवत् तस्य यमदण्डो यमोपमः । यमदण्डा च तद्भार्या तरुणी लोललोचना ॥ ३ ॥ आसीद् गोत्रसमायातो दस्युहिंसनकारकः । यमपाशोऽस्य भार्या च छर्दिनामेति विश्रुता ॥ ४ ॥ 30 तत्रैव नगरे कृत्स्ने लोकस्य सकलस्य च । उपसर्गः कृतः कोपान्मार्या मारिस्वरूपया ॥ ५ ॥ वोपसर्गमीदृक्षं जनानां रोगधारिणाम् । भूपेन घोषिताऽमारिघोषणाऽत्र दिनाष्टके ॥ ६ ॥
*
1 पफज त्रिकलमिदम्. 2 पफ युग्मम्, ज युगलम् 3 [ ससामन्तो ]. 4 पफज चतुर्भिः कुलकम्. 5 पफज त्रिकलमिदम् 6 पफ युग्मम् ज युगलम् 7 पफ युग्मम् ज युगलम्. 8 पफ क्षुल्लकं. 9 पफ युग्मम, ज युगलम्. 10 ज omits इति श्री. 11 ज कथानकमिदम्.
Jain Education International
For Private & Personal Use Only
و
www.jainelibrary.org