________________
- ७३. २८३ ]
यशोधरचन्द्रमतीकथानकम्
१७७
I
तन्मार्गतोऽनुलग्नं हि क्षौल्लकं युगलं परम् । गच्छन् मन्थरगामिन्या गत्या दृष्टं नरैरिदम् ॥ २५२ ॥ दृष्ट्वा तत्क्षौलकं युग्मं ते वदन्ति परस्परम् । नरा योग्यमिदं हन्तुं देवतायै नरेशिनः ॥ २५३ ॥ श्रुत्वा तद्वचनं घोरं क्षौलकं युगलं तदा । परस्परं स्थिरीकारं कृत्वा तस्थौ भयोज्झितम् ॥ २५४ ॥ एवं निगद्य तैरेतद् गृहीतं क्षुल्लकद्वयम् । मारिदत्तान्तिकं नीतं रूपराजितविग्रहम् ॥ २५५ ॥ तेन क्षुल्लकयुग्मेन देवताचरणान्तिके । भीमखमकरो दृष्टो मारिदत्तो नरेश्वरः ॥ २५६ ॥ दूराद विलोक्य राजेन्द्रं युगपद्भीमविग्रहम् । जयशब्दः कृतस्ताभ्यां क्षुल्लकाभ्यां नरेशिनः ॥ २५७॥ दिग्मातङ्गगत भूप कनकाभ मलच्युत । चिरकालं जयाजस्रं कौन्दाभयशसोज्वल ॥ २५८ ॥ घनस्तनितगम्भीरं जयशब्दं निशम्य तम् । नरस्त्रीलक्षणोपेतं दृष्टमेतन्नरेशिना ॥ २५९ ॥ दृष्ट्वा पुरः स्थितं राज्ञा पृष्टं क्षुल्लकयुग्मकम् । को रूपातिशयेनायं कुलशैलो विभूषितः ॥ २६० ॥ केन वा कारणेनेयं प्रव्रज्या दुर्धरा धृता । एतत् सर्वं मम स्पष्टं वदतामतिशोभनौ ' ॥ २६१ ॥ " मारिदत्तवचः श्रुत्वा स्नेहातिशयसंगतम् । बालवृद्धयुवां शेषसभामध्ये जनाकुले ॥ २६२ ॥ क्षुल्लकेनात्मसंबन्धकारणं लोकविस्मयम् | यशोधरादिकं सर्वमतिक्रान्तं सविस्तरम् ॥ २६३ ॥ तथा प्रभाषितं तेन यथा राजजनोऽखिलः । चण्डमारीसमं जीववधं मुक्त्वा शमं ययौ ॥ २६४ ॥ ततो देवता श्रुत्वा तत्कथां सकलामिमाम् । भीमरूपं निजं हित्वा गृहीतवररूपया ।। २६५ ॥ त्रिः परीत्य च भावेन प्रदायार्थं प्रयत्नतः । पादावलग्नया बाढं भृङ्गारकरयाऽनया ॥ २६६ ॥ तद्भक्तियुक्तया स्पष्टं स्नेहनिर्भरचेतसा । क्षुल्लकोऽयं जनाध्यक्षं गदितश्चारुवेषया ॥ २६७ ॥ प्रसादं क्षुल्लक स्वामिन् विधाय परमां दयाम् । प्रव्रज्यां देहि मे क्षिप्रं संसारार्णवखण्डिनीम् ॥२६८॥ देववचनमाकर्ण्य क्षुल्लक निजगावमुम् । भक्तिनिर्भरचेतस्कां ललाटन्यस्तपाणिकाम् ॥ २६९ ॥ उत्तिष्ठोत्तिष्ठ भद्रे त्वं देवानां श्वभ्रयायिनाम् । तिरश्चां न भवेद्दीक्षा मनुष्याणामियं मता ॥ २७० ॥ देवी तद्वाक्यतः प्राह क्षुल्लकं विनयानता । मम त्वं मन्दभाग्याया अनुरूपं वृषं दिश ।। २७१ ॥ 20 अवाचि क्षुल्लकेनेयं देवता पुरतः स्थिता । सम्यक्त्वं जिनपूजां च देवानां घटते वृषः ॥ २७२ ॥ नारकाणां न धर्मोऽस्ति जिनपूजा च सुन्दरि । त्रैलोक्यशेखरीभूतं सम्यक्त्वं विद्यते परम् ॥ २७३॥ तिर्यग्जातिसमुत्थानां सम्यक्त्वं विद्यते नृणाम्। कृतोऽनुकारितो धर्मो मोदितः सन्मतो बुधैः ॥ २७४॥ * क्षौल्लकं वचनं श्रुत्वा चण्डमारिः सुभक्तितः । सम्यक्त्वं जिनपूजां च जग्राह विधिको विदा ॥ २७५ ॥ जिनधर्मं समादाय सम्यक्त्वं जिनपूजनम् । मारिदत्तं जगादैषा देवीजनपदं तथा ॥ २७६ ॥ इतः प्रभृति राजेन्द्र मा जातु प्राणिहिंसनम् । करोतु मत्कृते शान्तो जयतामखिलो जनः ॥ २७७॥ अथवा संनिषिद्धश्चद्देहिघातं करिष्यति । ततोऽहं तं समस्तं हि हनिष्याम्यखिलं जनम् ॥ २७८ ॥ इदमाभाष्य सा देवी मारिदत्तं जनं तथा । क्षुल्लकं च प्रणम्याशु जगाम स्वमनीषितम् ॥ २७९ ॥ तदाश्चर्यमिदं श्रुत्वा विबुधैः खतलस्थितैः । मन्द्रं दुन्दुभयो नेदुः क्षुल्लकोपरि ताडिताः ॥ २८० ॥ साधुवादांस्तथा देवाश्चक्रुर्मुदितचेतसः । कृत कोलाहलास्तुष्टा मुमुचुः पुष्पमालिकाः ॥ २८१ ॥ " मारिदत्तो नृपः श्रुत्वा धर्मं जिनवरोदितम् । सर्वजन्तु हितं पथ्यं क्षुल्लकेन निवेदितम् ॥ २८२ ॥ ताम्रचूडवधोद्भूतं दुःखं श्रुत्वाऽतिदारुणम् । देवताप्रातिहार्यं च दृष्ट्वाऽवादीत् तकं नृपः ॥२८३॥
1 ज वदतां मति'. 2 पफ युग्मम् ज युगलम्. 3 पफज त्रिकलमिदम्. 4 ज र्णवदायिनीम्. 5 पफ चतुष्कुलकम् ज चतुष्कलकम्. 6 पफ युग्मम् ज युगलम्. 7 पफज त्रिकलमिदम्. 8 पफज त्रिकलमिदम्. 9 पफ युग्मम्, ज युगलम्.
बृ० को ० २३
Jain Education International
For Private & Personal Use Only
5
15
25
www.jainelibrary.org