________________
१७६
हरिषेणाचार्यकृते बृहत्कथाकोश
[७३. २१८पितामहोऽर्जिका माता पिता मे क्व गतो मृतः। कां गतिं सांप्रतं यातः किं भुञ्जानः सुखासुखम् ॥२१८॥ एतत्सर्वं समासेन यथापृष्टं मुनीश्वर । सांप्रतं ब्रूहि मे नाथ दयां कृत्वा ममोपरि ॥ २१९ ॥ राजेन्द्रवचनं श्रुत्वा जगादेमं यतीश्वरः । कौतुकव्याप्तचेतस्कमवधिज्ञानलोचनः ॥ २२० ॥ भवत्पितामहो राजन् दृष्ट्वैवं पलिताङ्करम् । स्वमस्तके हि कीर्योघो दीक्षां दैगम्बरी दधौ ॥२२१॥ 5 पञ्चरात्रं तपः कृत्वा कालं कृत्वा समाधिना । ब्रह्मोत्तरे सुखं दिव्यं भुञ्जानः स वितिष्ठते ॥ २२२॥ अमृतादिमहादेवी या माता तव बालक । विषेण स्वपतिं हत्वा षष्ठं सा नरकं ययौ ॥ २२३ ॥ असह्यवेदनान्यत्र घोरदुःखानि मातृका । भुञ्जाना तिष्ठति क्रूरा निन्दन्ती निजजीवितम् ॥ २२४॥ यः पुनस्त्वत्पिता भद्र यशोधरनरेश्वरः । त्वदर्जिका च तन्माता चन्द्रोपपदिका मतिः ॥ २२५॥
भवतः पट्टबन्धं च पिष्टनिर्मितकुक्कुटः । देवतायाः पुरस्ताभ्यां कात्यायन्या हतः स्वतः ॥ २२६ ॥ ' तेन पापानुबन्धेन कृत्वाऽन्योन्यविनाशनम् । तिर्यग्गतिषु बहीषु जन्म प्राप्ताविमौ पुनः ॥ २२७॥ अणुव्रतस्थितौ पञ्चनमस्कारपरायणौ । कुक्कुटत्वं परिप्राप्तौ हतौ तौ भवता पुनः ॥ २२८ ॥ जातौ पुष्पावलीगर्भे कलालंकृतविग्रहौ । तिष्ठतस्त्वद्गृहे भूप कुमारत्वमुपागतौ ॥ २२९ ॥ अभयादिरुचिः पुत्रस्त्वमयादिमतिः सुता । तिष्ठतस्त्वगृहे राजन् अधुना तौ कुमारको ॥ २३० ॥ ततो यशोमती राजा श्रुत्वा तद्भवसंततिम् । विस्मयं परमं प्राप्य वैराग्यमगमत् प्रभुः ॥ २३१॥ 15 सत्यवाक्यं समाकर्ण्य मुनेरस्य समीपके । यशोमतिः प्रवव्राज मित्रान्तःपुरसंगतः ॥ २३२ ॥
श्रुत्वा भवान्तरं सर्व स्वकीयं तौ कुमारको । जातिस्मरत्वमापन्नौ वैराग्याहितमानसौ ॥ २३३ ॥ ततस्तौ भक्तिसंपन्नौ दीक्षानिहितमानसौ । सुदत्तमुनिसामीप्यं जग्मतुः शान्तचेतसौ ॥ २३४ ॥ त्रिः परीत्य तमीशानं नत्वाऽमुं भक्तितत्परौ । देहि दीक्षां मुने जैनीमावाभ्यामूचतुस्तकौ ॥२३५॥
श्रुत्वाऽनयोर्वचः साधुभक्तिनिर्भरचेतसोः । जगाद तो मुनिश्रेष्ठस्तद्धैर्यहृतमानसः ॥ २३६॥ ३० युवां सुकुमाराङ्गावनध्यासितपरीषहौ । शक्नुवो न व्रतं जैनं ग्रहीतुं मुग्धचेतसौ ॥ २३७ ॥ विधातुमधुना युक्तं धर्म क्षुल्लकसेवितम् । चरमं युवयोर्दास्ये धर्म दैगम्बरं परम् ॥ २३८ ॥ अभयादिरुचिर्भक्त्या तदानीं मुनिवाक्यतः । जग्राह क्षौल्लकं धर्म जिनभक्तिपरायणः ॥ २३९ ॥ एकादशाङ्गधारिण्याः क्षान्तिकायाः समीपके । अभयादिमतिर्भक्त्या जग्राह क्षौल्लकं व्रतम् ॥२४०॥
अथ यौधेयदेशोऽस्ति पुरं राजपुरं परम् । मारिदत्तो नृपस्तस्य देवताभक्तितत्परः ॥ २४१॥ 25 पुरदक्षिणदिग्भागे कुलदेवी भयंकरी । चण्डमारिरिति ख्याता वसति क्रूरमानसा ॥ २४२ ॥ मारिदत्तादयो लोकाः स्वहस्तहतजीवकैः । तस्यां कुर्वन्ति सत्पूजां भक्तिनिर्भरचेतसः ॥ २४३॥ यदा न कुर्वते ते च तत्पूजां भक्तितत्पराः । तदा तान्युगपत् सर्वान् कुलदेवी निहन्ति सा ॥२४४॥ नानाजनपदोपेतः सर्वान्तःपुरसंगतः । मारिदत्तः परिप्राप देवताभवनं तदा ॥ २४५॥
अथ संघेन संयुक्तः सुदत्तमुनिनायकः । तत्पुरोधानसामीप्ये श्मशानं प्राप्तवानसौ ॥ २४६ ॥ 30 मयूरकुक्कुटादीनि जीवयुग्मान्यनेकशः । उपनीतानि तल्लोकैर्देवतापादमूलके ॥ २४७ ॥
सर्वलक्षणसंपूर्ण मानुष्ययुगलं परम् । आनीयते महीपाल नृपोऽभाणि महत्तरैः ॥ २४८ ॥ तद्वाक्यतो नरेन्द्रेण खाज्ञाता किंकरास्तदा । मानुषं युग्मकं शीघ्रं समानयत शोभनम् ॥ २४९ ॥ तदाज्ञां प्राप्य ते वेगाद्देवशेषामिवाहताः । मन्यमानास्तदर्थं च जग्मुमुदितचेतसः॥ २५०॥ ततो नत्वा मुनिं भक्त्या तदा क्षुल्लकयुग्मकम् । नगराभ्यन्तरे गन्तुं प्रवृत्तमशनेच्छया ॥ २५१॥
1 पफ युग्मम्, ज युगलम्.
2 जपफ कुलकम्.
3 ज परिप्राप्य.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org