________________
-७३. २१७ ] यशोधरचन्द्रमतीकथानकम्
१७५ कुलधर्मो मया साधो मनोवाक्कायकर्मभिः । परित्यक्तो गृहीतोऽयं जैनो धर्मोऽधुना परः॥१८६॥ अणुव्रतानि चादाय सम्यक्त्वादीनि भक्तितः । जातोऽस्मि सांप्रतं नाथ श्रावको जिनदेवतः॥१८७॥ अथ साधुमुखाम्भोजनिर्गतं धर्ममुत्तमम् । श्रुत्वा भवान्तरं स्वस्य नानादुःखयुतस्य च ॥१८८॥ जिनधर्म परिप्राप्य जिनदेवं च भक्तितः । कूजितं तोषतस्ताभ्यां कुर्कुटाभ्यां कलखनम् ॥१८९॥ अथ तच्छब्दमाकर्ण्य दूष्यमन्दिरमध्यगः । यशोमतिकुमारोऽयं जगाद कुसुमावलीम् ॥ १९० ॥ पश्य पश्य प्रिये तन्वि मद्धनुर्वेदकौशलम् । कृकवाकुयुगं शीघ्रं निहन्मि शरघाततः ॥ १९१॥ एवमुक्त्वा तकां कान्तां शरमादाय भस्वतः । धनुर्गुणे समासनं चकार स नराधिपः ॥ १९२ ॥ आकर्णाकृष्टमुक्तेन मार्गणेन यशोमतिः । तदानीं कुर्कुटद्वन्द्वं चकार गतजीवितम् ॥ १९३॥ कालं कृत्वा समाधानात् तदा कुर्कुटयुग्मकम् । जातं पुष्पावतीगर्भे जिनभक्तिपरायणम् ॥१९४॥ ततः पुष्पावतीगर्भान्निष्क्रान्तौ तौ कुमारको । अनुक्रमेण संप्राप्तौ कलागुणललामताम् ॥ १९५॥॥ अन्यदा विहरन् क्वापि संघेन महता वृतः । सुदत्ताख्यो मुनिःप्राप श्रीमदुज्जयनीवनम् ॥ १९६॥ अत्रान्तरे महीपालः श्रीमदुज्जयिनीपुरात् । निजंगाम खवृन्देन पापर्द्धिगतमानसः ॥ १९७॥ विलोक्य तरुमूलस्थं सुदत्तमुनिनायकम् । मण्डला युगपन्मुक्तास्तद्वधार्थ नरेशिना ॥ १९८॥ मण्डलानां शतान्याशु पञ्चापि मुनिनायकम् । त्रिःपरीत्य तमीशानं तस्थुस्तत्पुरतो मुदा ॥ १९९ ॥ एवं दृष्ट्वा तकान् सर्वान् कोपारुणनिरीक्षणः । स्वकरेणासिमादाय धावमानस्तकं मुनिम् ॥२००॥ 15 ततः कल्याणमित्रेण सार्थवाहेन भूपतिः । मुनेः समीपतां नीतः सम्यग्दर्शनशालिना ॥ २०१॥ दृष्ट्वा मुनिं पुनर्दध्यौ नरेन्द्रो प्रीतमानसः । मया मुनिवधः कर्तुं कथं पापेन चिन्तितः ॥ २०२॥ प्रायश्चित्तस्य चैतस्य मुनिहिंसनकारिणः । कारणे स्खं शिरश्छित्वा ददाम्यस्मै विशुद्धये ॥२०३॥ एवं विचिन्त्य शुद्धात्मा यशोमतिनराधिपः । जगाम मुनिसामीप्यं मित्रेण सहसा सह ॥ २०४॥ ततो मुनिवरणायं नरेन्द्रो विनिवारितः । इदं न वर्तते कर्तुं भूपाल तव चेष्टितुम् ॥ २०५॥ १ ज्ञातया चिन्तया तस्य मुनिना बोधमीयुषा । विलक्षो लज्जया राजा चकारास्य क्रमानतिम् ॥२०६॥ एवमुक्तं नरेन्द्रेण वैराग्याहितचेतसा । क्षम्यतां मन्दभागस्य मम दुश्चरितं मुने ॥ २०७॥ तद्वाक्यतः पुनः प्राह मुनीन्द्रो वसुधाधिपम् । उत्तिष्ठोत्तिष्ठ भूपाल देवानां प्रिय शोभन ॥२०८॥ अस्माभिः सर्वलोकेभ्यः सोढव्यं च मुमुक्षुभिः । भवतां तु विशेषेण बहुना जल्पितेन किम् ॥२०९॥' मुनीन्द्रवचनं श्रुत्वा पप्रच्छेदं महीपतिः । भगवन् किं मया स्पष्टं चिन्तितं वद मेऽधुना ॥२१०॥ तद्वाक्यतो मुनिः प्राह तं तदाऽवधिलोचनः । शृणु त्वमेकचित्तेन निगदामि तव स्फुटम् ॥२११॥ नूनं मुनिवधस्येदं प्रायश्चित्तं भवेद् भुवि । शिरश्छित्त्वा निजं चास्य करोमि पदपूजनम् ॥२१२॥ अशोभनमलं भद्र त्वयेदं परिचिन्तितम् । संसारकारणं पुंसां खवधो हि मतो बुधैः ॥ २१३ ॥ अत्रान्तरे धराधीशं शोकतोषसमन्वितम् । कल्याणोपपदो मित्रो जगादेदं विशुद्धधीः ॥ २१४॥ एकया चिन्तया धीर ज्ञातया मुनिनाऽमुना । किं विस्मितोऽसि राजेन्द्र नताशेषनराधिप ॥२१॥ अतीतानागतं योगी वर्तमानं च वेत्त्ययम् । यदि ते संशयः कोऽपि पृच्छ किंचित्तपोधनम् ॥२१६॥ श्रुत्वा कल्याणमित्रस्य वचनं मुनिवन्दनाम् । विधाय भूपतिर्भक्त्या पप्रच्छेमं यतीश्वरम् ॥ २१७॥
1 पफज त्रिकल मिदम्. 2 पफ युग्मम् , ज युगलम्. 3 प युगपन्मुक्त्वा . 4 ज मुनिं. 5 [चेष्टितम् ]. 6 ज मन्दभाग्यस्य. 7 पफ युग्मम् , ज युगलम्. 8 ज शिरं छित्त्वा. 9 पफज त्रिकलमिदम्. 10 पफज त्रिकलमिदम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org