________________
१७४
हरिषेणाचार्यकृते बृहत्कथाकोशे
[ ७३. १५३
१५९ ॥
॥ १६० ॥
१६१ ॥
10
यथा शरीरखण्डे हि जीवखण्डं न वीक्षितम् । तथा स एव जीवोऽस्ति तदेव च शरीरकम् ॥ १५३ || ' अवाचि साधुना भूयश्चण्डकर्मा पुरःस्थितः । निदर्शनमिदं स्पष्टमाकर्णय मदीरितम् ॥ १५४ ॥ एकेन चारणीदण्डे कुर्वतोत्कर्तनं मुहुः । विलोकितो नरेणाग्निचण्ड दृष्टो न न क्वचित् ॥ १५५ ॥ भूयोऽपि खण्डखण्डानि कुर्वतोत्कर्तनं तदा । नरेण चारणीदण्डेन दृष्टोऽग्निः सुपश्यता ॥ १५६ ॥ विद्यमानोऽरणीदण्डे भाव्यमानो नरेण सः । विस्फारिताक्षियुग्मेन न दृष्टोऽग्निर्यथा भुवि ॥ १५७॥ एवं शरीरखण्डेऽस्मिन् विद्यमाने तथाऽप्यलम् । प्रत्यक्षाभावतो लोकैर्जीवखण्डं न दृश्यते ॥ १५८ ॥ एतेन कारणेनार्य सत्यं मद्वचनं भज | जीवोऽन्योऽपि यथा भद्र तथान्यच्च शरीरकम् ॥ श्रुत्वा मौनीश्वरं वाक्यं चण्डकर्मा जगौ मुनिम् । जातो निरुत्तरो देव किं करोमि प्रसीद नः श्रुत्वा तद्वचनं साधुर्बभाणेमं कृपार्द्रधीः । धर्मं कुरु महासत्त्व बन्धुं सर्वशरीरिणाम् ॥ भूयो विज्ञापितः साधुस्तदानीं चण्डकर्मणा । धर्माधर्मफलं स्पष्टं कथयेश ममाधुना ॥ १६२ ॥ सौभाग्यं धनसंपत्तिर्दीर्घमायुर्यशोऽमलम् । वशीकरणमारोग्यं धर्मतो जायते नृणाम् ॥ १६३ ॥ दारिद्रं च कुरूपत्वं दौर्भाग्यं बन्धुहीनता । अकालमरणं मौक्यं जायतेऽधर्मतो नृणाम् ॥ १६४ ॥ इति संक्षेपतः श्रुत्वा धर्माधर्मफलं पुनः । चण्डकर्मा जगौ साधुं भक्तिष्टतनूरुहः ॥ १६५ ॥ गृहस्थेन मया स्वामिन् यथाऽयं प्रविधीयते । तथाऽभिधेहि संक्षेपात् संसाराम्भोधितारकः ॥ १६६॥ 1" निशम्य तद्वचो ज्ञानी प्राह तं करुणार्द्रधीः । सम्यक्त्वपूर्वकं वत्स कुर्वणुव्रतपालनम् ॥ १६७ ॥ स्वर्गापवर्गहेतूनि सुखसंपत्तिभांति च । अणुव्रतानि नाथ त्वं ब्रूहि संक्षेपतो हि नः ॥ १६८ ॥ अणुव्रतानि पञ्चापि गुणशिक्षाव्रतानि च । मधुपञ्चम्बरत्यागं रात्रिभोजनवर्जनम् ॥ १६९ ॥ तथा पञ्चनमस्कारं सम्यक्त्वं गुरुपूजनम् । आचचक्षे यतिः सर्वं तदानीं चण्डकर्मणे ॥ १७० ॥ श्रुत्वा योगीश्वरं वाक्यं चण्डकर्मा जगावमुम् । नाथ सम्यक्त्वपूर्वाणि गृहीतानि व्रतानि मे ॥ १७१ ॥ 20 जीवधातव्रतं चैकं न गृह्णामि मुनीश्वर । अस्मत्कुलोचितो धर्मो जीवघातसमुद्भवः ॥ १७२ ॥ चण्डकर्मवचः श्रुत्वा सत्यभूतं महीतले । जगौ मुनिस्तकं वीरं भक्तिहृष्टतनूरुहम् ॥ १७३ ॥ अस्मत्कुलोचितं धर्मं जीवघातसमुद्भवम् । न मुञ्चसि यदि क्षिप्रं पापोपार्जनकारणम् ॥ १७४ ॥ यथैदं कुर्कुटद्वन्द्वमत्यजत् कुलधर्मकम् । अनन्तदुःखसंबद्धां प्राप्तं मृत्युपरंपराम् ॥ १७५ ॥ आजिहानस्तथा भद्र कुलधर्मं भवानपि । प्राप्नोषि दुःखसंबद्धां भवमृत्युपरंपराम् ॥ १७६ ॥ 25 श्रुत्वा यतिवचः सत्यं विस्मयव्याप्तमानसः । चण्डकर्मा पुनः साधुं पप्रच्छेति कुतूहली ॥ १७७ ॥ एताभ्यां कृकवाकुभ्यां कथं पूर्वभवान्तरे । कुलधर्मममुञ्चद्भ्यां प्राप्ता मृत्युपरंपरा ॥ १७८ ॥ श्रुत्वा तद्भाषितं भूयो मुनीन्द्रोऽपि बभ्राण तम् । आकर्णयैकचित्तेन तद्भवं निगदामि ते ॥ १७९॥ एष कुर्कुटिको भद्र यशोधरनरेश्वरः । यशोमतिकुमारस्य जनकः पूर्वजन्मनि ॥ १८० ॥ एषा कुर्कुटिका चासीत् यशोधरनृपस्य वै । माता चन्द्रमती वत्स परुषा पूर्वजन्मनि ॥ १८१ ॥ " कुलधर्मममुञ्चद्भयां देवतार्चन के हतः । एताभ्यां भक्तियुक्ताभ्यां पिष्टनिर्मितकुर्कुटः ॥ १८२ ॥ तेन पापविपाकेन कुर्कुटद्वन्द्वमीदृशम् । बभूव शान्तचेतस्कं धर्मश्रवणतत्परम् ॥ १८३ ॥ शिखिश्वानौ पुनः सर्पजाहकौ मीनहारकौ । अजाऽजौ तौ रजन्ताजौ कुक्कुटौ पक्षिणाविमौ ॥ १८४॥ यतिवाक्यं समाकर्ण्य चण्डकर्मा मुनीश्वरम् । बभाण जातसंवेगो भयवेपितविग्रहः ॥ १८५ ॥
S
1 पफ त्रिकलम् ज त्रिकलमिदम्. 2 [ न स क्वचित् ]. 3 पफ षद्भिः कुलकम् ज षट्कलकमिदम्. 4 पफ थुम्मम् ज युगलम्. 5 पफ ममुचयां 6 पफ युग्मम् ज युगलम्. 7 ज भुक्तियु. 8 पफज चतुष्कलकम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org