________________
-७३. १५२ ]
यशोधरचन्द्रमतीकथानकम् अन्योऽन्यप्रेमसंयुक्तं मन्दखानसमप्रभम् । चण्डकी मुमोचात्र ताम्रचूलयुगं कलम् ॥ १२० ॥ प्रलम्बितभुजद्वन्द्वं नासाग्रनिहितेक्षणम् । सानुकम्प तपोऽगारं धर्म वाऽपघनान्वितम् ॥ १२१ ॥ अशोकतरुमूलस्थं निर्जिताक्षकदम्बकम् । मुनि वृक्षसमीपस्थं चण्डकर्मा ददर्श सः॥ १२२ ॥ दृष्ट्वा तं योगिनं तत्र विधायासत्यवन्दनाम् । दध्यौ कठोरचेतस्कश्चण्डकर्मा विशुद्धधीः॥१२३॥ अनेन मुनिना ध्वस्ता भूपस्य वसतिः कथम् । सणेवातिचण्डेन जनभीतिविधायिना ॥ १२४ ॥ एवं चिन्तयतस्तस्य तदानीं दुष्टचेतसः । योगः समाप्तिमायातो मुनेरस्य सुधीमतः ॥ १२५ ॥ चण्डकर्मा विलोक्यमं समाप्तनियमं मुनिम् । नष्टकन्दर्पसंपर्क जगौ निष्ठुरमानसः ॥ १२६ ॥ भवद्भि.कविख्यातैर्जनतासंमतैरपि । किं मुने ध्यातुमारब्धं वद त्वं मम सांप्रतम् ॥ १२७ ॥ श्रुत्वाऽस्य वचनं योगी बभाणेमं विशुद्धधीः । आकर्णयैकचित्तेन कथयामि तवाधुना ॥ १२८॥ संसारे सारताहीने तरां संसरतो मम । अनन्तानि शरीराणि गृह्णतो मुञ्चतोऽपि च ॥१२९ ॥ यत्समुत्पद्यते दुःखं नानायोनिसमुद्भवम् । तत्कथं हि क्षयामीति ध्यानं ध्यातं महानघम् ॥१३०॥ मुनिवाक्यं समाकर्ण्य चण्डकर्मा जगावमुम् । अन्यो जीवोऽस्ति किं साधो किं चान्यच्च शरीरकम् ॥ मुनिः प्रोवाच तं सत्यमवधिज्ञानलोचनः । एकादशाङ्गधारी च नष्टसंदेहकारणः॥ १३२ ॥ भो भो देवप्रिय स्पष्टं संदेहोऽत्र न युज्यते। तव कतु प्रतीहि त्वं जीवोऽन्योऽन्यच्छरीरकम् ॥१३३॥ निशम्य वचनं साधोश्चण्डकर्मापि तं जगौ । अन्यो न विद्यते जीवो न चान्यद्वा शरीरकम् ॥१३४॥ 15 किंतु संसारकान्तारे नानायोनितरूद्भवे । भ्राम्यतां देहिनां नित्यं सजीवस्तच्छरीरकम् ॥ १३५॥ एको हि तस्करः कोऽपि कोष्ठिकायां निधापितः। जतुना सजिता सा च छिद्रहीना मया कृता ॥१३६॥ अस्यामेवमलं क्षिप्तः पञ्चतामगमत् प्रभो । जीवस्य निर्गमो नात्र दृष्टोऽस्माभिः कदाचन ॥१३७॥ तेन जानाम्यहं नाथ सत्यं कार्यमिदं भुवि । जीवः स एव संजातस्तदेव च शरीरकम् ॥१३८॥ निशम्य तद्वचो योगी तदा तं पुनरब्रवीत् । पूर्वोक्तकोष्ठिकायां च सशङ्खो ना निधापितः॥१३९॥ ॥ तत्रत्यः स नरः शङ्ख धमति प्रीतमानसः । तद्धनिः श्रूयते लोके निर्गमो न विलोक्यते ॥१४॥ यथा हि शङ्खशब्दस्य कोष्ठिकाया न निर्गमः। दृश्यते लोकसंघातैर्जीवस्यापि निबुध्यताम् ॥१४॥ अनेन कारणेन त्वं प्रतीहि वचनं मम । अन्यो जीवो भवेदेष तथाऽन्यच्च शरीरकम् ॥ १४२ ॥ मुनिवाक्यं समाकर्ण्य चण्डकर्मा बमाण तम् । त्वद्वचो सत्यतां प्राप्तं वक्ष्यमाणनिदर्शनात् ॥१४३॥ मयैकस्तस्करः साधो तुलायां तोलितः स्फुटम् । सजीवो जीवहीनोऽपि तत्प्रमाणो भवेदयम् ॥१४४॥2 अनेन हेतुना सत्यं प्रतीहि मम भाषितम् । यथाहं सवज्जीवोऽस्ति तदेवच्च शरीरकम् ॥१४५ ॥ उवाच चण्डकर्माणं मुनिस्तद्वचनादरम् । इदं मदीयदृष्टान्तमाकर्णय मनोरमम् ॥ १४६ ॥ ... , गोपालकेन चैकेन निषङ्गो वातपूरितः । तोलितस्तुलया नूनं न्यूनाधिकविहीनया ॥ १४७ ॥ वातहीनः पुनः सोऽपि तोलितस्तुलयाऽनया । सवातो वातहीनस्तु निषङ्गस्तत्प्रमाणकः ॥१४८॥ तत्प्रमाणो यथा भस्त्रः सर्वतो वातपूरितः । तुलया तोलितस्तद्वन्नरोऽजीवः सजीवकः ॥ १४९ ।।.. एतेन हेतुना भद्र मतिं मद्वचने कुरु । जीवोऽन्योऽन्यच्छरीरं च कथितं तव मेऽधुना ॥१५०॥" मुनिचन्द्रवचः श्रुत्वा चण्डकर्माऽवदत् तकम् । मया चौरस्य चैकस्य कुर्वता कर्तनं तनोः॥१५१॥ भूयोऽपि खण्डखण्डानि कुर्वता तच्छरीरके । बाह्याभ्यन्तरतो दृष्टो न जीवः क्वचिदेव सः॥१५२॥ . 1 पफ युग्मम् , ज युगलम्. 2 पफ समाप्ति. 3 पफ युग्मम् , ज युगलम्. 4 पफज त्रिकलम्. 5 पफ पञ्चतामागमत् . 6 पफज चतुर्भिः कुलकम्. 7 पफज चतुर्भिः कुलकम्. 8 [ शवजीवोऽस्ति तदेवं च]. 9 पफज चतुर्भिः कुलकम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org