________________
१७२ हरिषेणाचार्यकृते बृहत्कथाकोशे
[७३. ८६तन्मांसमक्षिकापूर्ण शाल्मलीपुष्पसंनिभम् । महानसगतं भूरिपुञ्जपुलैर्वितिष्ठते ॥ ८६ ॥ अवाचि भूपतिस्तत्र सूपकारेण सत्वरम् । यदेतत् पिशितं किंचिदुच्छिष्ठं काकमण्डलैः ॥ ८७॥ तच्छेलकेन चाघ्रातं पूतं भवति भूपते । कार्येऽत्र त्वं महाराज प्रमाणं नापरो भुवि ॥ ८८॥
सूपकारवचः श्रुत्वा जगादेमं नरेश्वरः । कौतुकव्याप्तचेतस्कस्तन्मतप्रीतमानसः ॥ ८९ ॥ 5 मद्धितं कुर्वता साधो शोभनं गदितं त्वया । करोमि त्वद्वचः क्षिप्रं देवमाहनपूजितम् ॥ ९०॥ तन्मतेन समानीतश्छेलको भूभुजा द्रुतम् । तस्थौ जातिस्मरो भूत्वा पिशितान्ते महानसे ॥ ९१॥ तदाऽमृतमहादेवी सूपकारं जगाद सा । महिषाणां न मे मांसं रोचतेऽद्य मनागपि ॥ ९२ ॥ अन्येषां जीवराशीनां किंचिन्मांसं समानय । येनेमा जायते प्रीतिर्मम चित्तस्य सांप्रतम् ॥ ९३॥
जननीवाक्यमाकर्ण्य यशोमतिनरेश्वरः । सूपकारं बभाणैष मातृस्नेहपरायणः ॥ ९४ ॥ 10 अधुना छेलकस्यास्य मांसं संस्कृत्य चानय । येन मे जननी वत्स तिष्ठति प्रीतमानसा ॥ ९५॥
भूपालवचनात् तेन सूपकारेण वेगतः । छित्त्वाऽस्य पश्चिमं पादं छलकस्यातिपापिना ॥ ९६ ॥ संस्कृत्य तत्पलं शीघ्रं नानाभेदसमन्वितम् । समर्पितं महादेव्याः सूपकारेण वेगतः ॥ ९७ ॥ जनकस्यार्जिकायाश्च नामतस्तत्प्रदीयताम् । यथेष्टं सूत्रकण्ठेभ्यो जल्पितं भूभुजा पुनः ॥ ९८॥ तदा तन्माहनेभ्योऽपि तदानीं भूपवाक्यतः । तत्पार्श्वस्थस्य मे नूनं न प्राप्नोति मनागपि ॥ ९९॥ 'क्षुधातृष्णापरिश्रान्तश्छिन्नपश्चिमभागकः । तिष्ठामि वेदनाग्रस्तो भयवेपितविग्रहः ॥ १०॥ या तु चन्द्रमती नाम छेलिका भूभुजा हता। सा कलिङ्गाख्यदेशेऽभून्महिषो भीमविग्रहः ॥१०॥ सोऽपि भाण्डभृतस्तस्मान्महामहिषमध्यगः । श्रीमदुज्जयिनीं प्राप पताकावलिराजिताम् ॥१०२॥ ततो मुक्तभरः सोऽपि दाहदग्धशरीरकः । सिप्रानदीजलान्तस्थस्तिष्ठति श्रमहानये ॥ १०३॥ ततोऽनेन जरन्तेन जलमध्यस्थितेन हि। राजाश्वः शृङ्गघातेन वल्लभोऽयं निपातितः॥ १०४॥ 20 ततो भूपोऽपि तां वाता ज्ञात्वा परिजनादरम् । महिषं कोपतः शीघ्रमानिनाय स्वमन्दिरम् ॥१०५॥ जरन्तं निश्चलं बवा चतुःपादेषु कीलकैः । चतुर्वपि च पार्श्वेषु वह्नि प्रज्वाल्य भासुरम् ॥१०६॥ कटाहं तत्पुरः कृत्वा तप्तपानीयसंभृतम् । हिंगुसैन्धवसंयुक्तं त्रिफलाद्यन्यकैरपि ॥ १०७॥ तस्मिन्नीरे प्रतप्ते च दग्धात्रनिचयः सकः । कचारं मुञ्चति क्षिप्रं पश्चिमद्वारतोऽखिलम् ॥१०८॥ पूर्वोदितस्तभः सोऽपि धृतपश्चिमभागकः । ज्वालाभासितसर्वाशो महिषान्ते निधापितः ॥१०९॥ तयोरपि पुनः क्षिप्रमग्निना पच्यमानयोः। जीवेन दुःखदुःखेन गतं क्वापि भयादिव ॥ ११० ॥ श्रीमदुजयिनीपार्श्वलयो मातङ्गपाटकः । विद्यतेऽस्थिकचारेण मण्डितो मण्डलादिभिः ॥ १११ ॥ तत्रैव कुर्कुटीगर्भे मातापुत्रयुगं तदा । बभूव कुर्कुटद्वन्द्वं पापनिर्मितमूर्तिकम् ॥ ११२ ॥ विलोक्य कुर्कुटद्वन्द्वं गृहीतं चण्डकर्मणा । नीतं च प्राभृतं तेन यशोमतिनृपस्य तत् ॥११३॥ दृष्ट्वैतत् कुर्कुटद्वन्द्वं यशोमतिनराधिपः । तुतोष पितरं पश्यन् को न तुष्यति बालकः ॥ ११४ ॥ राजा समर्पितं तच्च तदानीं कुर्कुटद्वयम् । चण्डकर्मतलारस्य तेन नीतं स्वमन्दिरम् ॥ ११५ ॥ अथोद्यानवनं रन्तुं अन्तःपुरसमन्वितः । यशोधरतनूजोऽयं जगाम प्रमदाकुलः ॥ ११६ ॥ चण्डकर्मा समादाय कृकवाकयुगं तदा । लोहपञ्जरमध्यस्थं जगामोपवनं परम् ॥ ११७ ॥ चीरपट्टसमं तत्र नानावर्णसमुज्वलम् । प्रासादं पश्यति स्मोचं चण्डकर्मा मनोहरम् ॥११८ ॥ पूर्वद्वारे च सौधस्य स्थिते मणिसमुज्वले । शरदभ्रसमाकारे विचित्रे दूष्यमण्डपे ॥ ११९॥
1 पफ युग्मम्, ज युगलम्. 2 युग्मम् , ज युगलम्. 3 पफ युग्मम् , युगलम्. 4 पफ युग्मम्, ज युगलम्. 5 फ क्षुधातृषा. 6 फज श्रीमदुज्जयनी. 7 पफ युग्मम् , ज युगलम्. 8 [राज्ञा].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org