________________
-७३. ८५] यशोधरचन्द्रमतीकथानकम्
१७१ एका वामनिका तत्र क्रीडन्ती तत्सम जले । मीनोपरि पपाताशु तन्महत्तरिका वरा ॥ ५३॥ ततो हारेण तेनाशु मुक्त्वा मीनं प्रसर्पता । गृहीता चरणे कोपात् तदा वामनिकाऽमुना ॥ ५४॥ गृहीतमात्रया वेगात् तथा हि रटितं तया । यथा सीमन्तिनीपेटं क्रीडां हित्वा पलायितम् ॥५५॥ कुजवामनिकासंधैर्भयवेपितविग्रहैः । किंवदन्ती च सा सर्वा नरेन्द्रस्य निवेदिता ॥५६॥ सिप्रानदीहदे राजन् तव वल्लभिका तराम् । नक्रेण भीमरूपेण ग्रस्ता वामनिकाऽधुना ॥ ५७ ॥ श्रुत्वा तद्वचनं राजा कोपलोहितलोचनः । समस्तधीवरान् प्राह खनादापूरिताम्बरः ॥ ५८॥ भो भो धीवरिकाः शीघ्रं यावन्तो मीनराशयः । तावन्तः स्वीप्रकर्तव्या भवद्भिर्जालयोगतः ॥ ५९॥ ततस्तद्वचनान्ते च जालान्यादाय वेगतः । सिप्रानदीह्रदं शीघ्रं जग्मुर्मुदितचेतसः ॥ ६०॥ मीनोऽपि शंशुमारेण विमुक्तो हृदतः क्षणात् । भीतः पलायनं चक्रे भावि भद्रं हि जीवितम् ॥६॥ ततस्ते युगपत् सर्वे दष्टदन्तच्छदा रुषा । सिप्रानदीह्रदान्ते च घनजालानि चिक्षिपुः ॥ ६२॥ 10 जालैस्तं हारमादाय धीवराः प्रीतचेतसः । यशोमतिकुमारस्य मुमुचुः पुरतः क्षणात् ॥ ६३॥ भूयो हारं पुरो वीक्ष्य धीवरान् निजगौ तदा । नयतैनं दुराचारमिन्द्रस्थानं निकारिणम् ॥ ६४ ॥ दृढबन्धनसंबन्धो जीवन्नपि स दुष्टधीः । म्रियतामेष तत्रस्थो नूनं कुमरणातुरः ॥ ६५॥ तद्वाक्यतः पुनीतः शुंशुमारः स धीवरैः । बद्धोऽमीभिदृढं तत्र दुःखतो मृत्युमीयिवान् ॥६६॥ अन्यदा धीवरैर्जालं निक्षिप्तं प्राप्य तं हृदम् । आनीतो रोहितो मत्स्यो जललग्नो भुवस्तलम् ॥ ६७॥15 ततोऽसौ रोहितो मीनो जीवन्नपि च धीवरैः । यशोमतिनरेन्द्रस्य नीतोऽयं प्राभृतेच्छया ॥ ६८॥ दृष्ट्वाऽमुं रोहितं मत्स्यं स्वपुरस्तोषमीयुषा । अमृतादिमहादेव्याः स मातुः प्रेषितोऽन्तिकम् ॥ ६९॥ अस्य रोहितमीनस्य पलेन सरसेन च । द्विजानां भोजनं देयं जनकादिकृते भृशम् ॥ ७० ॥ श्रुत्वा तद्वचनं मीनो भूत्वा जातिस्मरः क्षणात् । अमृतादिमहादेवीं पश्यन् यावद्वितिष्ठते ॥७१॥ तावत्तत्पुच्छखण्डं च महादेवीमतेन हि । नीतं महानसं क्षिप्रं जनकादिकृते तदा ॥ ७२॥ ० अन्यदुद्वरितं यच्च मातस्तत्खण्डकं निशि । भविष्यति तव स्पष्टं ममापि प्रीतिकारणम् ॥ ७३ ॥ घृततप्तकटाहे च तत्खण्डं निहितं तया । मीनो मृतिं परिणाप स्वकर्मवशतः क्षणे ॥ ७४॥ शुंशुमारो मृतिं प्राप्य जाताऽजा पाणपाटके । मीनस्तद्गर्भमासाद्य बभूव च्छेलको महान् ॥७५॥ ततो यौवनमासाद्य सोऽधिरूढः स्वमातरि । शुक्रनिर्गमकाले च स्तभेनान्येन मारितः ॥ ७६ ॥ विधाय गर्भसंभूतिं स्वमातुर्मूढमानसः । भिन्नः स्तभेन स नीतो मृति' शृङ्गाग्रदारितः ॥ ७७॥ 25 अत्रान्तरे हि पापा निश्चक्राम नराधिपः । ददर्श गर्भसंयुक्तां छेलिकां स्वपुरस्थिताम् ॥ ७८॥ यशोमतिकुमारण छेलिका बाणघाततः । वराकी निहताऽनेन पतिता सा भुवस्थले ॥ ७९ ॥ प्रपाट्योदरमेतस्यास्तन्मतेन नराधमैः । छेलकः शोभनाकारस्तत्कुक्षेः पातितो भुवि ॥ ८ ॥ दृष्ट्वा तदूर्णकं राजा तोषकण्टकिताङ्गकः । तदा समर्पयामास छेलिकापालकस्य तम् ॥ ८१॥ क्रमेण यौवनं प्राप्य भागिनेयीसुतादिभिः। अजाभिः सह कुर्वाणो मैथुनं स वितिष्ठते ॥ ८२ ॥ 30 अन्यदा भूमिनाथेन पापर्द्धिवरमिच्छता । कुलदेव्याः समुद्दिष्टा जरन्ता विंशतिः परम् ॥ ८३ ॥ काकतालीययोगेन पापर्द्धिक्रूरचेतसः । बभूव सफला तस्य पापोपार्जनकारिणः ॥ ८४॥ कुलदेव्या वितीणास्त कात्यायिन्याः प्रमोदिना । जरन्ताः पूर्णकामन भूभुजा भक्तिमीयुषा ॥८५॥
1 पफ युग्मम् , ज युगलम्. 2 [शिंशुमारेण]. 3 [°संबद्धो]. 4 पफ युग्मम् , ज युगलम्. 5 पफ यावद्विचष्टिते. 6प मातस्त्वत्खण्डकं. 7 पफ मृतं. 8 [भुवस्तले].
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org