________________
हरिषेणाचार्यकृते बृहत्कथाकोशे
[७३. १९चन्द्रमत्या सहानेन यशोधरनृपेण च । निहतो देवतामूले पिष्टनिर्मितकुर्कुटः ॥ १९ ॥ तेन पापविधानेन महादेव्या समं तकौ । निहतौ विषयोगेन मोदकस्थेन तत्क्षणात् ॥ २०॥ हिमवद्दक्षिणाशायां नानातरुविराजितः। एकोऽस्ति पर्वतस्तुङ्गः सिंहव्याघ्रविभीषणः ॥२१॥ मयूरीगर्भतो जातः शिखी तत्र यशोधरः । यूनैकेन मनुष्येण तन्माता निहता तदा ॥ २२ ॥ । ततः स केनचित्तस्मादादाय परिपालितः । यशोमतिकुमारस्य आनीतो प्राभृतेच्छया ॥ २३ ॥ यशोमतिकुमारेण दृष्ट्वाऽमुं तोषकारणात् । गृहीतो रममाणोऽसौ नृपसौधे वितिष्ठते ॥ २४ ॥ या तु चन्द्रमती नाम तन्माता पूर्वजन्मनि । करहाटेऽभवत्सोऽपि मण्डलो मण्डिताङ्गकः ॥२५॥ ततोऽसौ केनचित्तस्मादानीतः प्राभृतेच्छया । यशोमतिकुमारस्य श्रीमदुज्जयिनी' पुरीम् ॥ २६ ॥ दृष्ट्वा तं तोषमासाद्य गृहीतो मण्डलोऽमुना । समर्पितः प्रयत्नेन स्वपतेः पुरुषस्य च ॥ २७॥ " एवं च तौ कुमारस्य वल्लभौ सुतरां भुवि । मयूरमण्डलौ स्यातां पूर्वबन्धसमागमात् ॥ २८॥ प्रासादशिखरस्थेन मयूरेण विलोकितः । गवाक्षस्तेन तन्मध्ये रत्नदीपप्रभोउवले ॥ २९॥ यावत्तदन्तरे बाढं विदधात्यवलोकनम् । तावज्जातिस्मरः शीघ्रं बभूवायं शिखावलः ॥ ३० ॥ ततः खान्तःपुरं तत्र पश्यता शिखिना तदा । पूर्वोक्तकुब्जकाङ्कस्था महादेवी विलोकिता ॥३१॥ दृष्ट्वा रतिं प्रकुर्वाणौ तौ तदानीं च कोपतः । स्वपादनखघातेन निहतौ शिखिना हृदि ॥ ३२ ॥ 15 ततो रतिसुखिन्नाभ्यां स्वमणिभूषणैर्हतः । ताभ्यां गतोऽमुतः सौधान्मयूरो भयविह्वलः ॥ ३३ ॥ रममाणं तरां द्यूतं यशोमतिनरेश्वरम् । प्रहारविह्वलस्वान्तः प्राप्तवान् स शिखी सरन् ॥ ३४॥ दृष्ट्वा मयूरमायान्तं वेपिताखिलविग्रहम् । मण्डलः प्राप्य तं वेगाच्चकार गतजीवितम् ॥ ३५ ॥ सोऽपि श्वा भूभुजा द्यूतफलकेन समाहतः । मस्तके पञ्चतां प्राप्य पपात भुवि निःक्रियः ॥३६ ॥ ततस्तौ पञ्चतां प्राप्तौ विलोक्य वसुधाधिपः । चकार विह्वलखान्तो विलापं मुनिदुःखदम् ॥ ३७॥ 20 कृत्वा शोकं चिरं तौ च दग्धौ श्रीखण्डदारुभिः । मन्दाकिन्यां तदङ्गानि प्रापयामास भूपतिः ॥३८॥
सुवर्णरत्नरूपाणि गोवस्त्रादीनि भूरिशः । स्वर्गसौख्यस्थितीभूतौ तावुद्दिश्य नृपो ददौ ॥ ३९॥ ततो दक्षिणदिग्भागे सुवेलाख्यो महीभृतः। आसीत् सिंहादिसत्त्वौघदुःप्रवेशघनं वनम् ॥ ४०॥ काणिकायां पशव्यां हि कुण्टेन पशवेन च । जनितो जाहको भीमो स मयूरचरो महान् ॥४१॥ सुशुष्कस्तनबन्धाया बुभुक्षाग्रस्तचेतसः । स्वमातुर्दुग्धमप्यल्पं लेभे स न मनागपि ॥४२॥ 25 महीविवरजातस्य जाहकस्य सुपापिनः । शरीरं वृद्धिमायातं भुञ्जानस्य सरीसृपान् ॥४३॥
या तु चन्द्रमती क्रूरा मण्डलेन मृतिं गता। तस्मिन्नेव महीरन्ध्रे कृष्णसर्पो बभूव सा ॥४४॥ प्रवृत्तः खादितुं यावद्द१रान् स भुजङ्गमः । तावत् पुच्छप्रदेशेऽरं गृहीतो जाहकेन च ॥४५॥ ततस्तेन भुजङ्गेन पश्चात् कृत्वाऽवसर्पणम् । गृहीतो वदने कोपाजाहको दशनैरपि ॥४६॥
अन्योन्यभक्षणं यावच्चक्रतुस्तौ रुषाऽन्वितौ । तावत् स जाहको वेगात्तरक्षेण निपातितः ॥४७॥ 20 तदानीं कृष्णसर्पोऽपि तद्दन्ताग्रविदारितः । इयाय मरणं वैरं द्युफणेन हि खाद्यते ॥४८॥
योऽसौ हि जाहकस्तत्र तरक्षण विनाशितः । बभूव रोहितो मीनः सिप्रायाः सरितो हृदे ॥४९॥ कृष्णसर्पोऽपि तत्रैव कालं कृत्वा भयानकः । शुंशुमारोऽभवदीर्घः कालपाशसमाकृतिः ॥५०॥ मीनोऽपि विहरन् कापि सन् हृदे सलिलेऽमले । पुच्छदेशे गृहीतोऽयं भीमहारेण वेगतः ॥५१॥ अत्रान्तरे नरेन्द्रस्य कुब्जवामनकादिकम् । पेटकं रन्तुमायातं प्रविष्टं तजलेऽमले ॥५२॥
1 फज श्रीमदुजयनीं. 2 [पातयामास]. Jain Education International
For Private & Personal Use Only
www.jainelibrary.org