________________
-७३. १८ ]
यशोधरचन्द्रमतीकथानकम्
१६९
ततस्तद्वाक्यतः शीघ्रं मोदका' विषगर्भिणः । वितीर्णा गुणपालाय विषया हितकारणात् ॥ १०० ॥ ततस्तान्मोदकान् भुक्त्वा विषादत्तान् हिताशया । गुणपालो ममाराशु तदानीं विषयोगतः ॥ १०१ ॥ श्रेष्ठिनी च मृतं दृष्ट्वा भर्तारं शोकविह्वला । गुणश्रीः पञ्चतां प्राप भुक्त्वा तं विषमोदकम् ॥ १०२ ॥ मृतयोरनयोस्तत्र सोमदत्तं नरेश्वरः । आजुहावात्मसामीप्यं तोषपूरितमानसः ॥ १०३ ॥ स्वपुत्रीमधराज्यं च गुणपालधनं नृपः । वितीर्य सोमदत्ताय राजश्रेष्ठिपदं ददौ ॥ १०४ ॥ एवं कृतेऽमुना राज्ञा राजश्रेष्ठी स्वपत्तने । मानसेष्टान्महाभोगान् बुभुजे प्रीतमानसः ॥ १०५ ॥ सुकेतुसूरि संज्ञाय दत्त्वाऽऽहारविधिं तथा । पञ्चातिशयसंप्राप्तिं दुःप्राप्यां प्राप्य शोभनाम् ॥१०६ ॥ श्रुत्वा पूर्वभवं तस्मात् तथा लक्ष्मीसमागमम् । तपो विधाय जैनेन्द्रं संक्लेशपरिवर्जितम् ॥ १०७॥ आराधनां समाराध्य विधिना हि चतुर्विधाम् । प्राप सर्वार्थसिद्धिं च सोमदत्तो मुनीश्वरः ॥ १०८॥ एकमीनदयां भक्त्या चतुर्वारसमुद्भवाम् । चकार मृगसेनाख्यो धीवरो मृदुमानसः ॥ १०९ ॥ सोमदत्तभवे प्राप्य स्वदयां स चतुर्विधाम् । नराधिपत्यमासाद्य देवः सर्वार्थसिद्धिः ॥ ११० ॥ ॥ इति श्रीमृगसेन धीवर मीनै कदयाकरसोमदत्तसंभवस्वदयारक्षणकथानकम् ॥ ७२ ॥
*
इदम् at the end.
1 ज मोदिका. 2 फ सकेतु 3 पफज त्रिभिः कुलकम्. 4 ज omits इति श्री and adds 5 [ प्रासादात् सप्तभूमिकात् ]. 6 पफज त्रिभिः कुलकम्. बृ० को ० २२
Jain Education International
७३. यशोधर चन्द्रमतीकथानकम् ।
15
अस्त्यवन्तीमहादेशे श्रीमदुञ्जयिनी पुरी । कीर्त्योघोऽस्यां नृपोऽस्यापि भार्या चन्द्रमती शुभा ॥ १॥ यशोधरोऽनयोः पुत्रः पुत्रजन्माभिलाषिणोः । बभूव रूपसंपन्नो विनयी न पराजितः ॥ २ ॥ रूपराजितसर्वाङ्गी नीलोत्पलदलेक्षणा । अमृतादिमहादेवी बभूवास्य मनःप्रिया ॥ ३ ॥ यशोमतिकुमाराख्यस्तनयोऽजनि विक्रमी । विनयाचारसंपन्न श्चानयोः कुलनन्दनः ॥ ४ ॥ अन्यदा दर्पणे दृष्ट्वा निर्मले पलिताङ्कुरम् | कीत्र्योघः संसृतित्रस्तो वैराग्यं स समाश्रितः ॥ ५ ॥ यशोधरकुमाराय दत्त्वा राज्यश्रियं नृपः । अभिनन्दनसामीप्ये दीक्षां दैगम्बरी दधौ ॥ ६ ॥ नमन्नखिलसामन्तमस्तकोपात्तशासनः । चकार विपुलं राज्यमुज्जयिन्यां यशोधरः ॥ ७ ॥ अमृतादिमहादेव्या कामभोगं यथेप्सया । यशोधरस्तरां हृष्टो भुञ्जानो व्यवतिष्ठते ॥ ८ ॥ अन्यदा कुब्जकेनामा भुञ्जाना सुरतं निशि । दृष्ट्वा यशोधरः कान्तां महावैराग्यमीयिवान् ॥ ९ ॥ सभामध्यस्थितो नूनं प्रव्रज्या कारणाश्रयम् । अलीकस्वमसंबन्धं स्वमातुः कथयाम्यहम् ॥ १० ॥ आकर्णयाम्बिके स्पष्टमद्य रात्रौ मयेदृशः । स्वप्नो विलोकितः क्षिप्रं पश्चिमप्रहरे किल ॥ ११ ॥ अहं चावतरंस्तस्मात् प्रासादान् सप्तभूमिकान् । पतितोऽस्मि धरापृष्ठे पाषाणशकलाचिते ॥ १२ ॥ प्रासादस्थैर्नरैः शीघ्रमसत्यस्तुतिकारिभिः । मायाप्रपञ्चसंयुक्तः संस्तुतोऽस्मि समुत्थितः ॥ १३ ॥ यशोमतिकुमारस्य राज्यपट्टं नियुज्य च । महावैराग्यसंपन्नस्तपो जैनेश्वरं श्रितः ॥ १४ ॥ यशोधरोदितं श्रुत्वा जगौ चन्द्रमती तकम् । न शोभनस्त्वया स्वप्नो दृष्टो बालक सांप्रतम् ॥१५॥ स्वहस्तनिहतैर्जीवैः ः प्रपूज्य कुलदेवताम् । शान्तिकर्म विधातव्यं त्वया निश्चितचेतसा ॥ १६ ॥ 30 कृत्वेदं सकलं पुत्र शान्तिकर्मविधायकम् । भविष्यति पुनः क्षिप्रं तवापि स्वल्पदीक्षणम् ॥ १७ ॥ स्वमातृवचनं श्रुत्वा यशोधरनृपेण तत् । प्रतिपन्नं तदा सर्वं तन्मतं हितमिच्छता ॥ १८ ॥
5
For Private & Personal Use Only
10
20
25
www.jainelibrary.org