________________
१६८ हरिषेणाचार्यकृते बृहत्कथाकोशे
[७२. ६७प्राध्वंकृत्य गले लेखं सोमदत्तस्य रूपिणः । वसन्ततिलका शीघ्रं ययौ धाम मनीषितम् ॥ ६७ ॥' सोमदत्तः समुत्थाय तदानीं तरुमूलतः। मोहयन् कामिनीलोकं गुणपालगृहं ययौ ॥ ६८॥ अथोपविश्य तद्गहे सोमदत्तो यथाक्रमम् । महाबलपुरो लेखं मुमोच प्रीतमानसः॥ ६९ ॥
आदायमं स्वहस्तेन लेखं वाचयति स्फुटम् । महाबलो बलोपेतो जननीबन्धुसाक्षिकम् ॥ ७० ॥ 5 महाजनसमूहेन विषा देया त्वया सुता । जननीबन्धुयुक्तेन महासंतोषकारिणा ॥ ७१॥ विवाहो मत्परोक्षे च तूर्यमङ्गलनिखनैः । विधातव्यो महाभूत्या सानुरागो महाबल ॥ ७२॥ जनन्या बन्धुलोकस्य लेखार्थ सकलं तदा । महाबलोऽगदच्छीघ्रं तोषकण्टकिताङ्गकः ॥ ७३ ॥ तुरङ्गकरिरत्नानि कनकाभरणानि च । नादवीणादिवस्त्राणि प्रदायासौ समङ्गलम् ॥ ७४ ॥ शोभने दिननक्षत्रे योगे च रजनीपतेः । तोषतो विधिना वृत्तं पाणिग्रहणमेतयोः ॥ ७५ ॥ " यावच्च वेदिकामध्ये तिष्ठतस्तौ वधूवरौ । तावत् स जनकः प्राप्तो मन्दिरं स्वं विधुप्रभम् ॥ ७६॥ दृष्ट्वा वधू-वरौ श्रेष्ठी कोपलोहितलोचनः । धूलिधूसरदेहोऽपि तस्थिवान् शयनेऽमुदा ॥ ७७ ॥ विलोक्य पितरं तत्र शयनीये व्यवस्थितम् । महाबलो जगादैतं गुञ्जाफलनिभेक्षणम् ॥ ७८ ॥ विवाहो विधिना वृत्तस्त्वन्मतेन महामते । किमर्थं मौनमादाय स्थितोऽपरवावानिव ॥ ७९ ॥
महाबलवचः श्रुत्वा गुणपालो जगाद तम् । प्रमुञ्चन्नुष्णनिःश्वासं म्लानवक्रसरोरुहम् ॥ ८०॥ 15 आगच्छामि न यावच्च सुताहं गृहमात्मनः । तावत्त्वया विषाया हि विवाहो विहितः कुतः ॥८१॥ निशम्य जनकस्योक्तं जगौ तातं महाबलः । स्वसुस्त्वदीयलेखेन विवाहो विहितो मया ॥ ८२॥ द्वाभ्यां बहुधनं दत्त्वा महासामन्तसाक्षिकम् । पूजा मनोरमाकारा नितान्तं विहिता मया ॥८३॥ पुत्रवाक्यमहादुःखविह्वलीभूतमानसः । तस्थौ शय्यातले श्रेष्ठी गुणपालोऽतिवञ्चितः ॥ ८४ ॥ गुणश्रीः श्रेष्ठिनी प्राप्य गुणपालं सुदुःखितम् । जगाद विस्मितस्वान्ता वद मे शोककारणम् ॥८५॥ 20 गुणश्रीरमणीवाक्यं गुणपालो निशम्य च । जगौ स पूर्ववृत्तान्तं समस्तं तं स्वयोषितः ॥ ८६ ॥ धूपपुष्पादिकं दत्त्वा संध्यानेहसि चैककः । प्रेषितो गुणपालेन जामाता नागमन्दिरम् ॥ ८७ ॥ धूपादिकं समादाय संध्यायां विशिखान्तरे । महाबलेन जामाता व्रजन् दृष्टोऽसहायकः ॥ ८८ ॥ तत्कराद् बलिमादाय हट्टे तं च निधाय सः । महाबलो विनीतात्मा ययौ नागनिकेतनम् ॥८९॥ तत्र च श्रेष्ठिना चैको मातङ्गः स्थापितो रुषा । संध्यायां यः समायाति स हन्तव्यस्त्वया लघु ॥९०॥ 25 यावन्नागगृहस्यान्तर्विशति प्रीतमानसः । तावत् स निहतोऽनेन मातङ्गेन सितासिना ॥ ९१॥
श्रेष्ठी जामातरं दृष्ट्वा जीवन्तं वपुरः स्थितम् । सुतं च निहितं तत्र मौनी दुःखी स तस्थिवान् ॥१२॥ अत्रान्तरे प्रियां प्राह गुणपालो विषादवान् । कान्ते जामातरं शत्रु निहन्मीमं न कारणम् ॥ ९३॥ अथवा केनचिन्मुग्धे चोपायेन विनाशनम् । शत्रुभूतस्य जामातुः कुरु शीघ्रं मयोदितम् ॥ ९४ ॥ ततस्तद्वचनाच्छीघ्रं मोदका विषगर्भिणः । गुणश्रिया कृता दिव्या गन्धामोदितदिग्मुखाः॥९५॥ ॥ ततः सुतां विषां प्राह गुणश्रीनिष्ठुराशया । धवाय मोदकानेतान् देहि त्वत्प्रीतिकारिणे ॥ ९६ ॥ माऽन्यस्मै लड्डुकानेतान् प्रदास्यसि मनस्खिनि । एवमुक्त्वा सुतामेषा निर्ययौ स्वगृहादरम् ॥९७॥ एतस्मिन्नन्तरे श्रेष्ठी गुणपालो विषां तदा । बुभुक्षाग्रस्तचेतस्को निजगाद सुतामिमाम् ॥ ९८ ॥ अहं राज्ञा समाहूतः कार्येण महता सुते । यद् गृहे भोजनं किंचिद् विद्यते देहि तन्मम ॥९९॥
1 पफ षभिः कुलकम् , ज षट्कुलकम्. 2 पफ युग्मम् , ज युगलम्. 3 [स्थितोऽत्र परवानिव]. 4.पफ युग्मम्, ज युगलम्. 5 पफ युग्मम् , ज युगलम्. 6 पफ युग्मम् , ज युगलम्. 7 [निहतं ]. 8 पफ युग्मम् , ज युगलम्. 9 पफ युग्मम् , ज युगलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org