________________
-७२. ६६]
मृगसेनधीवरकथानकम् मातृगर्भस्थितस्यास्य पिता मृत्युमुपागतः । जातमात्रेण चानेन जननी परिभक्षिता ॥ ३४ ॥ यथा यथा व्रजन् वृद्धिं बालोऽयं पूर्वपापतः । तथा तथा क्षयं यातं कुलमस्य निर्मूलतः ॥३५॥ एवं कुलक्षये जाते बुभुक्षाग्रस्तमानसः । गुणपालगृहं प्राप सोमदत्तोऽशनेच्छया ॥ ३६॥ तष्ठिभोजनोच्छिष्ठशरावस्थितसिक्थकम् । भुञ्जानस्तिष्ठति प्रीत्या सोमदत्तस्तदादृतः ॥ ३७॥ एवं हि तिष्ठतस्तस्य संयमादिवरो मुनिः । आजगाम तमुद्देशं द्वितीयमुनिसंयुतः ॥ ३८॥ दृष्ट्वा तं सुन्दराकारं कनिष्ठो मुनिरब्रवीत् । ज्येष्ठं जनकमातृभ्यां बन्धुभिः परिवर्जितम् ॥ ३९ ॥ भक्षयन् सिक्थमेकैकं शरावस्थितमादरात् । बालोऽयं लक्षणोपेतो धिक् संसारमसारकम् ॥४०॥ . मुनेरस्य वचः श्रुत्वा ज्यायान् वदति तं यतिः। अवधिज्ञाननेत्रेण विज्ञातपरमार्थकः ॥४१॥ यथाऽयं दारको भद्र गुणपालस्य धीमतः । स्वामी धनस्य सर्वस्य भविष्यति वणिक्पतिः ॥४२॥ यथैतस्य मुनेर्वाक्यं गच्छतो विनिशम्य सः । गुणपालो मनस्युच्चैर्दध्यौ विस्मितमानसः॥४३॥ ॥ धनं मे देशिकस्यास्य किं भविष्यति पुत्रिणः । अथवाऽमोघसद्वाक्यः श्रमणो भवति क्षितौ ॥४४॥ एवं विचिन्त्य मूढात्मा समाहूय नराधमम् । जगाद निष्ठुरस्वान्तस्तकं तन्मारणं प्रति ॥ ४५ ॥ धनं तेऽहं प्रदास्यामि नानाभेदसमन्वितम् । नीत्वाऽमुं बालकं कक्षे कुवैतस्य निपातनम् ॥४६॥ तद्वाक्यतो हि मातङ्गः स्कन्धमारोप्य बालकम् । निनाय गहनं शीघ्रं नानानोकुहसंकुलम् ॥४७॥ मुक्त्वा तं बालकं तत्र नदीतीरे वटान्तिके । श्रेष्ठिनं प्राप्य मातङ्गो मृतिमस्य जगाद सः॥४८॥ is स्त्रात्वा नद्यां जलं पीत्वा कृत्वा च फलभक्षणम् । सुष्वाप वटवृक्षस्य मूले बालः सुखैषितः ॥४९॥ अत्रान्तरे समागत्य गोविन्दो बल्लवो धनी । ददर्श बालकं सुप्तं वटमूले सुलक्षणम् ॥ ५० ॥ आदाय तं कुमारं च गोविन्दः प्राप्तसंमुदः । धनश्रियाः स्वभार्याया ददौ पुत्रमुदीरयन् ॥५१॥ तयाऽपि पुत्रभावेन दधिदुग्धघृतादिना । वृद्धि तरामसौ नीतः कन्दर्पसमविभ्रमः ॥ ५२ ॥ बालं युवत्वमापन्नं गोविन्दगृहसंगतम् । गुणपालोऽत्र संप्राप्य ददर्शमं ससंभ्रमम् ॥ ५३॥ 20 गुणपालः परिज्ञाय प्राक्तनं दारकं तदा । जगाद बल्लवं श्रेष्ठी विस्मयाकुलमानसः ॥ ५४॥ कुमारः कस्य पुत्रोऽयं विनयी रूपराजितः । सौम्यो नदीनगम्भीरो मन्मथो वा सविग्रहः ॥५५॥ गौणपालं वचः श्रुत्वा गोविन्दोऽपि तकं जगौ । मत्पुत्रोऽयं गुणाधानः श्रेष्ठिन् मे कुलनन्दनः॥५६॥ अवाचि श्रेष्ठिना भूयो बल्लवः प्रीतमानसः । सोमदत्तं भवत्पुत्रं त्वं प्रवेशय मगृहम् ॥ ५७ ॥ श्रेष्ठिवाक्येन संयुक्तो गोविन्देन शरीरजः । षोडशाभरणोपेतो महावस्त्रविभूषितः ॥ ५८॥ 25 ततो लेखं प्रदायास्मै सोमदत्तो विसर्जितः । गुणपालेन भार्यायाः सन्मुखं स्वहितैषिणा ॥ ५९॥ त्वया गुणश्रिया नूनं म।हिन्या प्रवीणया । अस्मै विषं प्रदातव्यं लेखवाहाय निश्चितम् ॥६०॥ अथ लेखं समादाय सोमदत्तस्त्वरान्वितः । तदुद्यानवनं प्राप्य तरुमूले स सुप्तवान् ॥ ६१॥ वसन्ततिलका नाम गणिकाऽक्षरकोविदा । तस्य सुप्तस्य कण्ठस्थं लेखं पश्यति रूपिणः ॥ ६२ ॥ तद्गलाल्लेखमादाय प्रमुच्य स्वकरण सा । अमुं वाचयति स्पष्टं तद्रूपहृतलोचना ॥ ६३॥ अहं गृहं न यावच समायामि नितम्बिनि । तावद्विषं प्रदातव्यं लेखवाहाय सत्वरम् ॥ ६४॥ विज्ञाय लेखसंबन्धं वसन्ततिलका तदा । युवा रूपी नरो धीरः कथं यास्यति पञ्चताम् ॥ ६५॥ अहं गृहं न यावच्च समायामि नितम्बिनि । तावद्विषा प्रदातव्या लेखवाहाय मत्सुता ॥ ६६ ॥
____ 1 [ समूलकम् ]. 2 पफ युग्मम् , ज युगलम्. 3 पफ युग्मम् , ज युगलम्. 4 पफज चतुष्कलकम्, 5 पफ युग्मम् ,जयुगलम्.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org